SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २५५ पेक्षा-क्षणस्याविवेकात्-किन्तु कालान्तरमाव्येककार्यकारित्वेन सहकारिसहायस्यैव च सामर्थ्यात् अन्यथा सामग्री न ज (न ज) निका स्यात् , एकस्मादेव कार्योत्पत्तेः द्वितीयक्षणापेक्षा च न स्यात्, आद्यक्षण एव कार्यस्योत्पत्तेः। परस्परोपकारित्वं च सन्ताने एककार्यकारित्वमेव, क्षणात् सहकारिणः क्षणस्यापि कारिणोऽनुपकारात् सर्वत्रैकार्थकारित्वमेव सहकारित्वम्, अतोऽनुपकारिण्यपि सहकारिणि कालान्तरे वाऽपेक्षासम्भवात् क्रमवत्सहकार्यपेक्षयाऽक्रमस्यापि क्रमकारित्वं किं न ५ भवेत् ? न चानेकस्मात् क्रमेणानेककार्योत्पत्तौ क्रमकारित्वं युक्तम्, अतिप्रसङ्गात् । अक्षणिकेऽपि चानेककालभाविन्यस्य प्रसङ्गस्य समानत्वात् । न चैकत्वाध्यवसायेनैकस्यैव क्षणप्रबन्धस्य क्रमकारित्वं युक्तम्, भिन्नानामभेदाध्यवसाये निमित्ताभावात् । न सादृश्यं तन्निबन्धनम् , सर्वथा साहश्यस्य पूर्वोत्तरक्षणेष्वभावात् , भावे वोत्तरक्षणस्य सर्वथा पूर्वक्षणसदृशत्वात् पूर्वक्षणवत् पूर्वकालताप्रसक्तिरिति सर्वस्या(स्याऽपि) क्षणप्रबन्धस्यैककालत्वान्न कार्यकारणभावः । कथञ्चित् सादृश्येऽ-१० नेकान्तसिद्धिः, नामाद्यर्थयोरपि सादृश्यनिमित्तैकत्वाध्यवसायश्च स्यात्, ततोऽभेदाध्यवसाया. भावात् तदवस्थ एवातिप्रसङ्गः। तदेवं क्षणिके क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् ततोऽर्थक्रिया. लक्षणसत्त्वविशिष्टं कृतकत्वं निवर्तमानं गत्यन्तराभावादक्षणिकाद्यवकाशमिति साध्यविपर्ययसाधनाद् विरुद्धं स्यात् । अनैकान्तिकंच क्रम-योगपद्याभ्यामनर्थक्रियाकारिणोऽपि कार्यत्वसम्भवात् । तथाहि-शब्द-१५ विद्युत्-प्रदीपादिचरमक्षणानामन्यत्रानुपयोगेऽप्यवस्तुत्वेन नाकार्यत्वम् अशेषतत्सन्तानस्यावस्तुत्वप्रसङ्गात् । न च समानजातीयकार्याऽनारम्भेऽपि योगिविज्ञानलक्षणविजातीयकार्यका(क)रणान्न सर्वथाऽनर्थक्रियाकारित्वं शब्दादिचरमक्षणानाम्, सजातीयानुपयोगे विजातीयेऽपि तेषामनुपयोगात्, उपयोगे वा न रसादेरेककालस्य रूपादेरव्यभिचार्यनुमानं स्यात्, रूपादेरपि शब्दाद्यन्तक्षणवत् सजातीयकार्यानारम्भसम्भवाद् रूप-रसयोरेकसामग्र्यधीन त्वेन नियमेन कार्यद्वयारम्भ-२० कत्वेऽन्यत्रापि प्रसङ्गः योगिविज्ञान-शब्दाद्यन्तक्षणयोरपि समानकारणसामग्रीजन्यत्वात् । न चैकत्रानुपयोगिनश्चरमस्यान्यत्रोपयोगो युक्तः; अन्यथा ज्ञानान्तरप्रत्यक्षज्ञानवादिनोऽपि स्वज्ञानानुपयोगेऽपि ज्ञानस्यार्थज्ञाने उपयोगसम्भवात् स्वज्ञानजननासमर्थस्य ज्ञानस्यार्थज्ञानजनने सामर्थ्यसम्भवान्नैवार्थचिन्तनमुत्सीदेत् । ततोऽनर्थक्रियाकारिणोऽक्षणिकस्य यद्यवस्तुत्वेनाकार्यत्वम् चरमक्षणस्यापि तत् स्यात् सर्वथाऽनर्थक्रियाकारित्वात् । अथानर्थक्रियाकारिणोऽपि चरमक्षणस्य २५ कार्यत्वम् न तहक्षणिके कृतकत्वं क्षणिकवादिना प्रतिक्षेप्तव्यम् न्यायस्य समानत्वात् । ___ सन्दिग्धव्यतिरेकश्च 'कृतकत्वात्' इति हेतुः, विपक्षे वाधकप्रमाणाभावात् । व्यापकानुपलब्धिर्हि विपक्षे बाधकं प्रमाणम्, तस्याश्च विपक्षे क्षणिकत्वलक्षणे प्रत्यक्षवृत्तिर्बाधकं प्रमाणम् । न च विपक्षे क्षणिकत्वे प्रत्यक्षवृत्तिः सिद्धा, क्षणक्षयात्मनि प्रत्यक्षनिश्चिते क्रम-योगपद्याभ्यामर्थक्रियोपलब्धेरनिश्चयात्। ने चाक्षणिकस्यासत्त्वात् प्रकारान्तरस्य चाभावात् क्षणिकेष्वेवार्थक्रियो-३० पलब्धिरिति वक्तुं शक्यम्, अक्षणिकस्याद्याप्यभावासिद्धेः । व्यापकानुपलब्धेस्तदभावसिद्धिश्चेत्, न; विपक्षे प्रत्यक्षवृत्तौ व्यतिरेकसिद्धधानुपलब्धेरक्षणिकाभावगतिः तत्प्रतिपत्तौ च गत्यन्तराभावाद् विपक्षे प्रत्यक्षप्रवृत्तिरितीतरेतराश्रयदोषप्रसक्तेः । अथाक्षणिकस्यासत्त्वसाधने सँत् (सन् विपक्षो भवति'न क्षणिकः, सति च विपक्षेऽध्यक्षवृत्तिरस्त्येव, नैतत् सारम्; यतो द्वैराश्ये कोऽपरो भावः क्षणिकव्यतिरिक्तः सन् योऽक्षणिकाभावसाधने विपक्षः स्यात् ? गत्यन्तरसद्भावे वा कथं प्रकारा-३५ १-कार्याकारि-वा. बा०। २-मग्री त जनिका वि० ।-मग्रीतः जनिका आ० ।-मग्री जनिका वा. बा. हा०। ३ स्यादेककार्यो-वा० बा०। ४-या क्रम-भां० मा. विना। ५ भावे चोत्तर-भां० । ६ सर्वस्य क्षण-वि० सं०। ७-यश्च ततो आ० वि०। ८ तदेतदेवं वा० बा० हा०। ९-क्षणं स-आ० भां० मा० ।-क्षणसत्त्वं निवर्त-हा०। १०-नत्वे नि-भां० मा० वा. बा. विना। ११ कार्यत्वया-आ. हा. वि० । कार्यतया-वा० बा०। १२-ज्ञानदर्शनवा-आ० हा० वि०। १३-पयोगि पिशा-वा. बा. हा.। -पयोगिज्ञा-आ० वि०। १४-त्वादि हे वा० वा०। १५ न वा-भां० मां० विना। १६-सिद्धानु-आ०। १७-लब्धे क्ष-बा. बा.। १८ सन् विपक्षे भव-वि० । सत्र विपक्षे भव-आ० । सन्धिक्षेपो भव-वा. बा०। १९-ति न क्षणिक सति वा. बा० ।-ति न क्षणिके सति वि० ।-ति तत्क्षणिके सति आ०। २० का सत् योऽक्ष-वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy