SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २४९ सहतसकलविकल्पावस्थायामपि न निरंशक्षणिकानेकपरमाणुप्रतिभासः, स्थिरस्थूलरूपस्य बहिः स्तम्भादेाह्यरूपतां बिभ्राणस्य प्रतिभासनात्, अश्वविकल्पकालेऽपि पुरो व्यवस्थितस्य गवादेस्त. थाभूतानुभवविषयत्वेन प्रतिभासनात् । यदि पुनरभिलापसंसृष्टार्थाध्यवसाय्येव विकल्पोऽभ्युपगम्येत तदा तदनुत्पत्तिरेव प्रसक्ता । तथाहि-यावत् पुरो व्यवस्थितं वस्तु नीलादित्वे(त्वेन) न निश्चितं न तावत् तत्सन्निधानोपलब्धतद्वाचकस्मृत्यादिक्रमेण तत्पॅरिष्वक्तार्थनिश्चयः, यावच्च न तन्निश्चयो न ५ तावत् तद्वाचकस्मृत्यादि, क्षणक्षयादाविवाऽनिश्चिते वाचकस्मृत्यादेरयोगात् । योगे वा शब्दानुभवानन्तरं 'क्षणिकः' इति वाचकस्मृत्यादिक्रमेण तन्निश्चयोत्पत्तेः क्षणक्षयानुमानमपार्थकं स्यात् । अपि च, 'तद्वाचकस्यापि स्मरणमपरतद्वाचकयोगमन्तरेण भवदभ्युपगमेन न सम्भवति, तद्योजनमपि स्मरणमन्तरेण, स्मरणमप्यपरतद्वाचकयोजनादिव्यतिरेकेण' इत्यनवस्थानान्नात्र क्वचिदपि निश्चयः स्यादिति । तस्मादमिलापसंसर्गयोग्यस्थिरस्थूरार्थप्रतिभासं ज्ञानं प्रथमाक्षसन्निपातोद्भवं १० सविकल्पक तथाभूतार्थव्यवस्थापकमभ्युपगन्तव्यम्: अन्यथा सकलव्यवहारोच्छेदप्रसङ्गः । अतः साधारणासाधारणरूपे वस्तुनि प्रमाणप्रवृत्तिः नासाधारणात्मनि.निर्विकल्पकस्याप्यसाधारणात्मनि विषये विकल्पानुत्पादकत्वादग्राहकत्वमेव । ग्राहकत्वे वा तत्र क्षणक्षयानुमानस्याप्रामाण्यप्रसक्तिः। तस्मात् 'स्वस्वभावव्यवस्थितेः' इत्यस्य हेतो देन सर्वपदार्थानां प्रत्यक्षेण व्याप्तिग्रहणाभावान्न व्याप्तिग्राहकप्रमाणफलमेतत्-‘स्वस्वभावव्यवस्थितेः सर्वभावानां सर्वतो भेदः' इति । अतो न १५ धर्मविशेषाभावः । व्यावर्त्यभेदाद् व्यावृत्तिभेदः तद्भेदाच्च धर्मभेदे यथा अमूर्ताद् व्यावर्तमानो घटो मूर्तस्तथा मूर्तान्तराद् व्यावर्त्तमानः प्रत्ययोऽमूर्तोऽपि मूर्तः स्यात् । अमूर्तात्मना तयोरभेदे कथं मोभयात्मकत्वं भावानाम् ? न च कल्पितो धर्मभेदः, तथाभ्युपगमे यथा परसत्त्वाद् व्यावर्त्तमानस्य घटादेः परविविक्तं स्वसत्त्वं कल्प्यते तथा स्वसत्त्वाद् व्यावतमानस्य स्वासत्त्वप्रक्तृप्तिप्रसङ्गः। अथ परसत्त्वादेव तस्य व्यावृत्तिःन स्वसत्त्वात् , नन्वेवं कथं न पारमार्थिकोऽन्यव्यावृत्तिधर्मभेदोऽभ्य-२० पगतः स्यात् ? न च 'एकः संवृतिसन्नपि कल्प्यतेऽन्यो न' इति विभागो युक्तः, कल्पनायाः सर्वत्र निरङ्कुशत्वात् । तदेवं सदृशपरिणामसामान्यस्यावाधितप्रत्ययविषयत्वेन सत्त्वादसिद्धो हेतुरिति स्थितम् । स्वसंवेदनप्रत्यक्षस्यानिश्चयरूपताभ्युपगमे शब्दप्रत्ययस्यासिद्धत्वादाश्रयासिद्धश्च हेतुः । न ह्यनिश्चितं ज्ञानस्य स्वरूपं स्वर्गप्रापणसामर्थ्यवद् दानचित्तस्य सिद्धं भवति प्रतिभासमात्रेण सिद्धत्वे २५ वा तत्र विप्रतिपत्तिर्न स्यात्, क्षणक्षयादेरपि च प्रतिभासमात्रेणैव सिद्धत्वात् तदनुमानवैयर्थ्यप्रसक्तिश्च ।न च स्वसंवेदनेनाऽनिश्चयात्मनाऽपि निश्चयात्मज्ञानवरूपं गृह्यते न पुनस्तस्य स्वर्गप्रापणसामर्थ्यादिकम् अतो न विप्रतिपत्त्याद्यभाव इति वक्तव्यम्, तस्मिन् गृह्यमाणे गृह्यमाणस्य तस्य ततो भेदप्रसङ्गात् । न च तस्मिन् सर्वात्मना स्वसंविदितेऽप्यभ्यासपाटवादेनिमित्तात् क्वचिदेवांशे निश्चयो न सर्वत्र, स्वसंवेदनस्य तदंशनिश्चयजननसमर्थस्यापि तदंशान्तरे तदसामर्थ्याद् द्विरूपता-३० पत्तेः। न चैकत्र सामर्थ्यमेव परत्रासामर्थ्यम्, विहितोत्तरत्वात् । न च निश्चयसंवेदनस्याप्यनिश्चयात्मकत्वेन स्वतो निश्चितस्य निश्चयव्यवस्थापकत्वम् , क्षणिकत्वादेरिवानिश्चितस्याऽन्यव्यवस्थाप १-भासस्थितस्थू-वा० बा०। २-स्थूररू-वा० बा० हा० वि०। ३-वादिस्त-आ० वि०। ४-लाषसंवा. बा. हा० विना। ५-संस्पृष्टा-मां०। ६-सायो विकल्पेभ्युप-वा० बा०। ७-स्परिपृक्ता-भां. मां । ८-तार्थानि-वा० बा०। ९-दिलक्षण-भां० मां० विना। १०-गे व श-वा० बा०। ११-नुभावा-भां. मां. विना। १२-कयोजनमन्त-भां० म०। १३-स्थानान्न क्वचि-भां• मां० । १४-लाषसं-वा. बा. हा. विना। १५-भासज्ञा-भां• मां. वा. बा. हा. विना। १६-रूपवस्तु-वा. बा.। १७-त्तिः न साधा-आ० वि०। १८-त्मनि विक-बा. बा०। १९ पृ. २४३ पं० १७। २०-धर्मभेदो य-वि०। २१-वय॑मा-भां० मा० । २२-थाऽमू-आ० वि० विना। २३ संवृत्तिसन्नपि मां० वा० बा० हा० वि० । संवृत्तिः सन्नपि भां.। २४-स्थित संवे-आ० । २५-मे शाब्द-भां० मा० । २६-श्चितज्ञा-वा. बा०। २७-नाऽपि. शानख-भा०म० २८-निश्चिया-आ० हा० वा. बा०। २९-त्मस्व-वा० बा० । ३०-माणागृह्य-वा. बा०। ३१ सर्वदा वा• बा०। ३२-माद्वि-आ० वि०। ३३ पृ. २४४ पं० २४ । ३४-त्मकत्वे स्व-भा० मां-त्मकत्वेनास्व-वा. बा०। ३५-तोऽनिश्चि-भा० मा०। म० त०३२
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy