SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - व्यवस्थितेः' इत्यस्य हेतोः सर्वोपसंहारेण भेदेन व्याप्तिं प्रतिपद्यत इति प्रत्यक्षव्यापार एवायम्, असदेतत् यतो यत्रैव स्वव्यापारानुसारिणमनन्तरं विकल्पमाविर्भावयत्यध्यक्षं तत्रैवास्य प्रामाण्यं भवद्भिरभ्युपगम्यते, सर्वतो व्यावृत्तात्मनि त न द्व ( न तद्व) लात् तदुत्पत्तिः, सर्वदा अनुवृत्तव्याकारोवसायिन एव तस्योत्पत्तेः; अन्यथा 'सजातीयाद् भेदः' इत्यमिधानानर्थक्यापत्तेः, क्षण. ५क्षयानुमानर्यं च वैयर्थ्यम् अक्षणिकादिव्यावृत्तेः स्वलक्षणानुभवप्रभवविकल्पेनाध्यवसायात्, स्वलक्षणविषयत्वं च विकल्पानां सर्वतो व्यावृत्ताकाराध्यवसायिनां प्रसज्येत । तथाहि इदमेव स्वलक्षणगोचरत्वमध्यक्षस्य यंत् तस्य नियतरूपानुकरणम्, सर्वतो व्यावृत्ताकारग्राहिणां विकल्पानामपि चेद् इदमस्ति कथं न स्वलक्षणविषयत्वम् ? अथाविशदावभासित्वादस्यास्वलक्षणविषयत्वम्, ननु दूरव्यवस्थित पादपादिस्वरूप ग्राह्यध्यक्ष मप्य विशदावभासमिति स्वलक्षणविषयत्वं तस्यापि न स्यात् । १० अथाऽयथार्थाकारग्राहिणस्तस्य भ्रान्तत्वादिष्टमेवास्वलक्षणविषयत्वम् नः तस्य प्रमाणान्तरत्वप्र सक्तेः । तथाहि अनधिगतार्थाधिगमाऽविसंवादाभ्यां तस्य प्रामाण्यम्, न च प्रत्यक्षत्वम्, भ्रान्तत्वाभ्युपगमात् । नाप्यनुमानत्वम्, अँलिङ्गजत्वात् । प्रत्यक्षाऽनुमानव्यतिरिक्तस्य चापरस्य प्रमाणस्यानिष्टेः कथं नास्य प्रमाणान्तरत्वम् ? न च विकल्पः - येनाधिगतार्थाधिगमादप्रमाणम् - विकल्प - कारणमन्तरेणापि बाह्यार्थसन्निधिबलेनोपजायमानत्वात् । न चाध्यक्ष विषयीकृतस्वलक्षणाध्यवसा१५यित्वादस्याप्रामाण्यम्, तथाऽभ्युपगमेऽध्य क्षेक्षितशब्दविषये क्षणक्षयानुमानस्याप्यप्रामाण्यप्रसक्तेः । अथानिश्चितार्थाध्यवसायादनुमानस्यानधिगतार्थाधिगन्तृत्वात् प्रामाण्यम्, निश्चितो ह्यध्यक्षविषयः, क्षणक्षय चानिश्चयादध्यक्षतो न तद्विषयत्वम् । नन्वेवमध्यक्षानुसारिविकल्पस्याप्य निश्चितार्थाभ्यवसायित्वात् क्षणक्षयानुमानवत् प्रामाण्यप्रसक्तिः । अपि च, विकल्पाऽनुमान विषयार्थयोः समः विषमो वा प्रतिभासोऽभ्युपगम्येत ? यदि विषमः, कथमसदृशप्रतिभासयोस्तयोरभेदः ? भिन्नाका२० रावभासि च कथं शब्दस्य रूपम् ? अथ समः, विकल्पेषु को विद्वेषस्तानविषयीकुर्वतः । अथ यत्रांशे निश्चयोत्पादन समर्थ प्रत्यक्षं तत्र प्रतिभासाविशेषेऽपि प्रत्यक्षं गृहीतांशग्राहितैया विकल्पो न प्रमाणम्, अनुमानं त्वगृहीतार्थाधिगन्तृत्वात् प्रमाणम्, तद्विषये ऽर्थेऽध्यक्षस्य निश्चयोत्पादनासामर्थ्यात् । ननु कथमेकमनुभवज्ञानं स्वार्थे निश्चयोत्पत्तौ समर्थमसमर्थ चोपपद्यते विरोधात् एकार्थाकाराविशेपाच ? मेँ चाविशेषेऽपि तस्यैकत्र सामर्थ्यमेवापरत्राऽसामर्थ्यम्, परेण सन्निकर्षेऽप्येवं वक्तुं शक्य२५त्वात् । तथा हि- सर्वात्मनेन्द्रियार्थसन्निकर्षवादिनापि शक्यमेवं वक्तुम् सन्निकर्षस्याविशेषेऽपि सर्वात्मनान भावस्य ग्रहणम् क्वचिदे वांशे सामर्थ्यात् एकत्र सामर्थ्यमेवान्यंत्रासामर्थ्यमिति । न च समारोपव्यवच्छेदकत्वेनानुमानंस्य प्रामाण्यम् न पुनः प्रत्यक्षपृथग्भाविनो विकल्पस्येति वकुं युक्तम्, तस्य तद्यवच्छेदकत्वानुपपत्तेः । तथाहि क्षणिकेऽक्षणिकज्ञानं समारोपः, तच्चानुमानप्रवृत्तेः प्रागिव पश्चादप्यविकलमिति कथं तथापि तस्य प्रामाण्यम् ? पश्चादस्खलत्प्रवृत्तेः समारोपस्याप्रवृत्तेरस्त्येव ३० द्वैकल्यमिति चेत्, नः तदा स्खलद्वत्तेरक्षणिक प्रत्ययात् स्वपुत्रादौ प्रवृत्तिर्न स्यात् । समारोपप्रतिषेधश्चाभवत्वेनाहेतुकः, स कथमनुमानेनान्येन वा क्रियते ज्ञाप्यते वा अभावेन सह कैंस्यचित् १ - वस्यवस्थितेः वा० वा० । वस्य व्यवस्थितेः आ० हा० वि० । २- नन्तरवि भ० मां० ३- नि च तद्वला - वा० वा० विना । ४- वृत्त्याका वा० वा० । ५ - राध्यवसा-भां० मां० । ६-स्य वै-भां० मां० वा० वा० विना । ७- भवप्रभवे विक - वा० बा० । भवविक आ० हा०वि० । ८-सायानां वा० वा० । ९ य त्वनियतरूपानुकारणं वा० वा० । १० - शब्दाव - वा० बा० । ११ न प्र-वा० बा० । १२ अलिङ्गत्वात् वा० बा० । १३ बाह्यार्थसन्निधिब - वा० वा० । बाह्यार्थसन्निधाधिब-आ० हा०वि० । १४ न वा वा० -बा० । १५ - नस्याधिग - वा० बा० विना । १६-स्य वा–बा० बा० आ० हा० । १७ - सो नाभ्यु - वा० बा० । -सो नभ्यु - आ० हा० बि० । १८ त नु यदि वा० वा० । १३ - स्ताववि-वा० वा० । स्ताऽनवि-आ० हा० वि० । २०-क्षता वा० वा० । २१- तया विषया विक-आ० | २२- नात् सा वा० बा० । २३-नुभयज्ञा-आ० | २४-मर्थ वोप वा० वा० । २५- र्थाविशे-वा० बा० । २६ न वा आ० हा० । न त्वा-वा० बा० । २७-वांशेऽसा-आ० ।-वांशै सा-हा० । वांशैत् सा-वा० बा० । २८-न्यत्र सावा० बा० आ० हा० वि० । २९- नस्याप्रा-आ० । ३० - तस्य व्यव वा० वा० । तस्य यव-भां० म० । ३१ - ज्ञानसमाभां० मां० विना । ३२ -स्खलद्वृत्तेः भ० मां० । स्खलितप्रवृत्तेः आ० ।-स्खलत प्रवृत्तेः वि० । ३३-मारोप्यस्या- भ० मां । ३४- तद्विकल्पमि -आ० हा ० वि० वा० वा० । ३५ - नाहेतुः स भां० मां० वा० वा० विना । ३६ कस्यचित् तस्य सम्ब-भां० मां० वा० वा० विना । २४४
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy