SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २३५ अथाकृतिविशिष्टा व्यक्तिस्तयोरर्थः, तदप्यसत्; तस्याः प्रतिभासाभावात् , न हि शब्द-लिङ्गप्रसवे विज्ञाने व्यक्ति(क्त)रूपतया प्रतिभाति, तदभावेऽपि तस्योदयात् अव्यक्ताकारानुभावाच्च । अथापि व्यक्तरेवाकारद्वयमेतत्-व्यक्तरूपमैव्यक्तरूपं चेति । तत्र व्यक्तरूपमिन्द्रियशानभूमिः, अव्यक्तं च शब्दथः। ननु रूपद्वयं व्यक्तेः केन गृह्यते ? न तावद्भिधानजेन ज्ञानेन, तत्र स्पष्टरूपानवभासनात् अस्पष्टरूपं हि तदनुभूयते । नापीन्द्रियज्ञानेन व्यक्तेराकारद्वयं प्रतीयते, तत्र व्यक्ता- ५ कारस्यैव प्रतिभासनात् ; न हि परिस्फुटप्रतिभासवेलायामविशदरूपाकारो व्यक्तिमारूढः प्रतिभाति; तत् कथं व्यक्तेरसावात्मा? अथ 'श्रुतं पश्यामि' इति व्यवसायाद् दृश्य-श्रुतयोरेकता; ननु किं दृश्यरूपतया श्रुतमवगम्यते, श्रुतरूपतया वा दृश्यम् ? तत्राये पक्षे दृश्यरूपावभास पवन श्रुतगतिभवेत् । द्वितीयेऽपि पक्षे श्रुतरूपावगतिरेव व्यक्तेः न दृश्यरूपसम्भवः; तस्मात् प्रतिभासरहितमभिमानमात्रमिन्द्रिय-शब्दार्थयोरध्यवसानम् न तत्त्वम् ; अन्यथा दर्शनवच्छाब्दमपि स्फुटप्रतिभासं १० स्यात् । अथ तत्रेन्द्रियसम्बन्धाभावाद् व्यक्तिवरूपावभासेऽपि प्रतिपत्तिविशेषः स्यात्। नन्व:रपि स्वरूपमुद्भासनीयम्, तत्र यदि शब्द-लिङ्गाभ्यामपि तदेव दर्श्यते तथा सति तस्यैवान्यूनातिरिक्तस्य स्वरूपस्याधिगमे कथं प्रतिपत्तिभेदः? अन्यच्च, प्रत्यक्षेऽपि साक्षादिन्द्रियसम्बन्धोऽस्तीति न स्वरूपेण ज्ञातुं शक्योऽसौ तस्यातीन्द्रियत्वात्, किन्तु स्वरूपप्रतिभासात् कार्या(र्यात्)। तच्च वस्तुस्वरूपं यद्यनुमानेऽपि भाति तथा सति तत एवेन्द्रियसम्बन्धः समुन्नीयताम् । अथ तत्र परिस्फुटप्रतिभा-१५ साभावान्नासावनुमीयते; ननु तँदभावस्तत्राक्षसङ्गतिविरहात् प्रतिपाद्यते तदभावश्च स्फुटप्रतिभासाभावादिति सोऽयमितरेतराश्रयदोषः । अथ व्यक्तिरूपंमेकमेव नीलादित्वमुभयत्र प्रतीयते व्यक्ताव्यक्ताकारौ तु शानस्यात्मानौ, तत्रोच्यते-यदि तौ ज्ञानस्याकारौ कथं नीलप्रभृतिरूपतया प्रतिभातः? तद्रूपतया च प्रतिभासनानीलाद्याकारावेतो; नहि व्यक्तरूपतामव्यक्तरूपतां च मुक्त्वा नीलादिकमपरमाभाति; तदनवभासात् तस्याभाव एव । व्यक्ताव्यक्तैकात्मनश्च नीलस्य व्यक्ताकारवद् भेदः २० नहि प्रतिभासभेदेऽप्येकता अतिप्रसङ्गात् । तन्नाक्ष-शब्दयोरेको विषयः । किञ्च, यदि व्यक्तिः शब्द-लिङ्गयोरर्थः तथा सति सम्बन्धवेदन विनैव ताभ्यामर्थप्रतीतिर्भवेत्। नहि तत्र तत् तयोः सम्भवति। व्यक्तिर्हि नियतदेशकालादशा(लदशा)परिगता न देशान्तरादिकमनुवर्तते नियतदेशादिरूपाया एव तस्याः प्रतीते; तथा चैकत्रैकदा सम्बन्धानुभवेऽन्यस्यार्थस्य कथं प्रतीतिः? अथ मेकजात्यपलक्षिते रूपेसम्बन्धादनन्तरा भविष्यति, तदपि न युक्तम् यतो जात्युपलक्षितमपि२५ रूपं तासां भिन्नमेव लिङ्गादिगोचरः, तस्याभेदे पूर्वोक्तदोषात्; तथा च सम्बन्धाननुभव एव स्यात् । किञ्च, व्यक्ती सम्बन्धवेदनं प्रत्यक्षेण, अनुमानेन वा भवेत् ? न तावत् प्रत्यक्षेण, तस्य पुरस्थितरूपमात्रप्रतिभासनात् शब्दस्य वचनयोर्वाच्यवाचकसम्बन्धस्तेन गृह्यते । अथेन्द्रियज्ञानारूढे एव रूपे सम्बन्धव्युत्पत्तिदृश्यते-'इदमेतच्छब्दवाच्यम्' 'अस्य वेदमभिधानम्' इति, अत्र विचार:-'अस्येदं वाचकम्' इति कोऽर्थः-किं प्रतिपादकम् , यदि वा कार्यम् , कारणं वेति? तत्र ३० यदि प्रतिपादकम् , तत् किमधुनैव, यद्वाऽन्यदा? तत्र यद्यधुनोच्यते शब्दरूपमर्थस्य प्रतिपादकं विशदेनाकारेणेति, तदयुक्तम्; अक्षव्यापारेणाधुना विशदाकारेण नीलादेवभासनात् । ततश्चाक्षव्यापार एवाधना प्रकाशकोऽस्तु न शब्दव्यापारः, तस्य तत्र सामर्थ्यानधिगतेः। अथान्यदा लोचनपरिस्पन्दाभावे शब्दोऽर्थानुद्भासयति तदा किं तेनैवाकारेणासौ ताननवभासयति, यद्वा आकारान्तरेणेति विकल्पद्वयम् । यदि विशदेनाकारेण प्रतिपादयतीत्युच्यते, तदसत्; यतस्तदाप्यसौ३५ चक्षुरादिभिरेव विशदेनाकारेणोद्भास्यते न शब्देन, तस्य तत्र सामर्थ्यादर्शनात् दर्शनाकाङ्क्षणाच्च । यदि १-सन् भां. मां. वा. बा. हा०। २ व्यक्त्यरूपम-भां० मा० । व्यक्तम-वि.। ३-मव्यक्तं चे-भां. मां०। ४-पथम् आ० का०। ५ व्यक्ते न भां० मां० वा० बा०। ६-स्वभावाव-वि०। ७ तदाभावभां० मां०। ८ व्यक्तिस्वरूप-भां० मां०। ९-पमेव आ० कां०। १० व्यक्तिरू-भां० मा० । ११-समेदोऽप्ये-वि• विना । १२-कालदेशपरि-आ० ।-कालादर्शापरि वा० बा० । १३ प्र. पृ. पं० २३ । १४-धानुभव-वा० बा०। १५ शब्दस्य च तयोर्वाच्य-भा० मा० । शब्दस्य चन तयोर्थावाच्यवा० बा०। १६-स्य चे-भां० मा० आ०। १७-णं चे-भां• मां० वा. बा. विना। १८-रभास-वा. बा. आ० वि०। १९ शब्दार्थानुद्भा-वा० बा० । शब्दानुद्भा-आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy