SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा। २१९ शब्दयोरिति, असदेतत् ; नीलगुण-तजातिसम्बद्धस्य द्रव्यस्य नीलशब्देन प्रतिपादनात् सर्वात्मना उत्पलश्रुतेर्वैयर्थ्यप्रसङ्गात् । स्यादेतत् यद्यपि नीलशब्देन गुण-तजातिमद् द्रव्यमभिधीयते तथापि नीलशब्दस्यानेकार्थवृत्तिदर्शनात् प्रतिपत्तुरुत्पलार्थ(थे) निश्चितरूपा न बुद्धिरुपजायते-कोकिलादेरपि नीलत्वात्-अतोऽर्थान्तरसंशयव्यवच्छेदायोत्पलश्रुतेः प्रयोगः सार्थक एव, तदप्यसम्यक् ; प्रकतार्थानभिज्ञतयाभिधानात् । विधिशब्दार्थपक्षे हि सामानाधिकरण्यं न सम्भवतीत्येतदत्र प्रकृतम्, ५ यदि चोत्पलशब्दः संशयव्यवच्छेदायवे व्याप्रियते न द्रव्यप्रतिपत्तये न तर्हि विधिः शब्दार्थः स्यात् उत्पलशब्देन भ्रान्तिसमारोपिताकारव्यवच्छेदमात्रस्यैव प्रतिपादनात्, परस्परविरुद्धं चेदमभिधीयते-नीलशब्देनोत्पलादिकं द्रव्यमभिधीयते अथ च प्रतिपत्तुस्तत्र निश्चयो न जायते' इति; न हि यत्र संशयो जायते स शब्दार्थो युक्तः अतिप्रसङ्गात्, नापि निश्चयेन विषयीकृते वस्तुनि संशयोऽवकाशं लभते निश्चयाऽऽरोपमनसोर्बाध्यबाधकभावात् । स्यादेतत् यद्यपि नीलोत्पलश-१० ब्दयोरेकस्मिन्नर्थे वृत्तिर्नास्ति तदर्थयोस्तु जाति-गु(योस्तु गु)णजात्योरेकस्मिन् द्रव्ये वृत्तिरस्तीत्य तोऽर्थद्वारकमनयोः सामानाधिकरण्यं भविष्यति, तदेतदयुक्तम् अतिप्रसङ्गात् ; एवं हि रूप-रसशब्दयोरपि सामानाधिकरण्यं स्यात् तदर्थयो रूप-रसयोरेकस्मिन् पृथिव्यादिद्रव्ये वृत्तेः। किञ्च, तर्हि 'नीलोत्पलम्' इत्येकार्थविषया बुद्धिर्न प्राप्नोति एकद्रव्यसमवेतयोर्गुण-जात्योभ्यां पृथक् पृथगभिधानात्। न चैकार्थविषयज्ञानानुत्पादे शब्दयोः सामानाधिकरण्यमस्तीत्यलमतिप्रसङ्गेन ।१५ अथापि स्यात् यदेव नीलगुण-तजातिभ्यां सम्बद्धं वस्तु न तदेवोत्पलशब्देनोच्यते; तेनोत्पलश्रु. तिर्व्यर्था न भविष्यति । नन्वेवं भिन्नगुणजात्याश्रयद्रव्यप्रतिपादकत्वान्नीलोत्पलशब्दयोः कुतः सामानाधिकरण्यम्? अथ यद्यपि यदेव द्रव्यं नीलशब्देनोच्यते उत्पलशब्देनापि तदेव तथापि नीलशब्दो नोत्पलजातिसम्बन्धिरूपेण द्रव्यमभिधत्ते, किं तर्हि ? नीलगुण-तजातिसम्बन्धिरूपेणैव; तेनोत्पलत्वजातिसम्बन्धिरूपत्वमस्याभिधातुमुत्पलश्रुतिः प्रवर्तमाना नां(ना)नर्थिका भविष्यति,२० असदेतत्; न "हि नीलगुण-तजातिसम्बन्धिरूपत्वादन्यदेवोत्पलत्वजातिसम्बन्धिरूपत्वं येर्ने नील तजातिसम्बन्धिरूपत्वाभिधाने द्रव्यस्योत्पलत्वजातिसम्बन्धिरूपत्वाभिधानं (नं न) भवेत्, एकस्माद् द्रव्याद् द्वयोरपि सम्बन्धिरूपत्वयोरव्यतिरेकात् तयोरेंप्येकत्वमेवेत्ययुक्तमेकरूपाभिधानेऽपररूपस्यानभिधानम् । भवतु वोत्पलत्वसम्बन्धिरूपत्वं नीलतजातिसम्बन्धिरूपत्वादन्यत् तथा१ "गुण-तजातिसंबद्ध द्रव्यं चेत् प्रतिपाद्यते । नीलशब्देन यद्येवं व्यर्था स्यादुत्पलश्रुतिः" ॥ "ताभ्यां यदेव संबद्धं तदेवोत्पलजातिमत् । नीलश्रुत्यैव तत्रोक्तं व्यर्था नीलोत्पलश्रुतिः" ॥ तत्त्वसं० का० ११०९-१११० पृ. ३४२ । २ गुण-जातिम-आ० हा० । गुण-तजातिद्र-वा० बा०। ३ "प्रतिपतुरुत्पलार्थे निश्चितरूपा"-तत्त्वसं. पजि. पृ. ३४२ पं० २२। ४ "सामानाधिकरण्यादि"-तत्त्वसं० पञ्जि. पृ० ३४२ पं० २४ । ५-वच व्यावि०। ६-यते तद्रव्यप्र-भां० मां०। ७ जायेत इ-भां० मां० विना । ८ "तदर्थयोस्तु गुण-जात्योरेकस्मिन्"-तत्त्वसं० पञ्जि. पृ० ३४३ पं० ४। ९-ण-जाति-आ. हा. वि. वा. बा। १. "गुण-तजातिसंबद्धादन्यदुत्पलजातिमत् । यदि भिन्नाश्रये स्यातां पुनीलोत्पलश्रुती" ॥ तत्त्वसं० का० ११११ पृ. ३४३ । ११-शब्देनो-भां० मा. विना। १२-म्बन्धरू-भां० मा० विना। १३-ना नर्थिका आ० विना ।-ना नानार्थका वि० सं० । "प्रवर्तमाना नानर्थिका"-तत्त्वसं० पञ्जि. पृ. ३४३ पं० २० । १४ “अथोत्पलत्वसंबन्धिरूपत्वेन न चोदयेत् । गुण-तजातिसंबद्धं द्रव्यं नीलमिति ध्वनिः"। तत्त्वसं० का० १११२ पृ० ३४३ । १५ “स्यान्नामोत्पलतायोगिरूपत्वमतदात्मकम् । उत्पलत्वेन संबद्धं त्वाभ्यां संबद्धमेव तत्" ॥ "नीलश्रुत्या च तत् प्रोक्तं शाब्द्याऽत्र विषयीकृतम् । बुद्धया सर्वात्मना नांशैस्तदनर्थोत्पलश्रुतिः" ॥ तत्त्वसं० का० १११३-१११४ पृ. ३४३ । १६ “येन नीलोत्पलादिसंबन्धि"-तत्त्वसं० पञ्जि० पृ० ३४४ पं० ३। १७-त्वाभिधा न भ-वा० बा० ।-"त्वामिधानं न भवेत्" तत्त्वसं० पजि० पृ० ३४४ पं० ४। १८ द्रव्या द्रव्ययोरपि आ० हा० वि० । द्रव्याद्रयोयोरपि भां० मां० । १९-पत्वयोः व्य-आ० ।-पत्वयो व्य-हा० ।-पत्वाव्यतिरेकात् तयो-वा० बा० । “संबन्धिरूपत्वयोरव्यतिरेकात् तद्वत् तयोरपि'-तत्त्वसं० पजि. पृ. ३४४ पं० ४ । २०-रप्येकान्तयोरप्ये-वि०। २१-स्याभिधान-वा. बा० । २२-तु चो-वा० बा. भां० मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy