SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २१४ प्रथमे काण्डे प्यन्यव्यावृत्तेर्विशेष्ये वस्तुधीर्भवत्येव । अथ व्यतिरिक्तमेव विशेषणं लोके प्रसिद्धम्। यथा-दण्डः पुरुषस्य, व्यावृत्तिश्चाव्यतिरिक्ता वस्तुनः; तत् कथमसौ तस्य विशेषणम् ? असदेतत्; न हि परमार्थेन किश्चित् कस्यचिद् विशेषणम् अनुपकारकस्य विशेषणत्वायोगात्, उपकारकत्वे चाङ्गीक्रियमाणे कार्यकाले कारणस्यानवस्थानाद् अयुगपत्कालभाविनोर्विशेषणविशेष्यभावोऽनुपपन्नः, युगपत्काल५भावित्वेऽपि तदानीं सर्वात्मना परिनिष्पत्तेन परस्परमुपकारोऽस्तीति न युक्तो विशेषणविशेष्यमाव इति सर्वभावानां स्वस्वभावव्यवस्थितेरयःशलाकाकल्पत्वात् कल्पनया अमीषां मिश्रीकरणम् । अतः परमार्थतो यद्यपि घ्यावृत्ति-तद्वैतोरभेदस्तथापि कल्पनारचितं भेदमाश्रित्य विशेषणविशेष्यभावोऽपि भविष्यति। यञ्चोक्तम्-'यदा वाऽशब्दवाच्यत्वान्न व्यक्तीनामपोह्यता' इत्यादि, १०तत्र 'व्यक्तीनामवाच्यत्वात' इत्यसिद्धम । तथाहि-यद व्यक्तीनामवाच्यत्वमस्माभिर्वर्णितं तत परमार्थचिन्तायाम् न पुनः संवृत्यापि; तया तु व्यक्तीनामेव वाच्यत्वमविर्चारितरमणीयतया प्रसिद्धमिति कथं नासिद्धो हेतुः ? अथ पारमार्थिकमवाच्यत्वं हेतुत्वेनोपादीयते तदाऽपोह्यत्वमपि परमार्थतो व्यक्तीनां नेष्टमिति सिद्धसाध्यता। यञ्चोक्तम्-'तदापोह्येत सामान्यम्' इत्यादि, १५ तत्रापि 'अपोह्यत्वात्' इत्यस्य हेतोरसिद्धत्वमनैकान्तिकत्वं च, व्यक्तीनामेवापोहस्य प्रतिपादितत्वात्। न चापोहेऽपि वस्तुता, साध्यविपर्यये हेतोर्वाधकप्रमाणाभावात् । येदपि-'अभावानामपोह्यत्वं न' इत्यादि, "नाभावोऽपोह्यते होवं नाभावो भाव इत्ययम। भावस्तु न तदात्मेति तस्येष्टैवमपोह्यता"॥ “यो नाम न यदात्मा हि स तस्यापोह्य उच्यते । न भावोऽभावरूपश्च तदपोहे न वस्तुता" ॥ [ तत्वसं० का० १०८१-१०८२] 'नीभावः' इत्येवमभावो नापोह्यते येनाभावरूपतायास्त्यागः स्यात्, किं तर्हि ? भावो यः स विधिरूपत्वाभावरूपविवेकेनावस्थित इति सामर्थ्यादपोह्यत्वं तस्याभावस्येष्टत्वम् (प्टम्) तदेव स्पष्टीकृतम् 'यो नाम' इत्यादिश्लोकेन । 'तदपोहे' इति तस्याभावस्यैवमपोहे सति न वस्तुता २५प्राप्नोति । अत्रोभयपक्षप्रसिद्धोदाहरणप्रदर्शनेनानैकान्तिकतामेव स्फुटयति "प्रकृतीशादिजन्यत्वं न हि वस्तु प्रसिद्ध्यति" ॥ "नातोऽसतोऽपि भावत्वमिति क्लेशो न कश्चने"। [तत्त्वसं० का० १०८३-१०८४] १-कत्वे वाङ्गी-भां० मा० विना। २-कारो नास्ति वा०। ३-द्वतोऽभेद-वि० ।-द्वतो भेद-आ. हा० कां० । ४ पृ० १९३ पं० २० तथा ३६। ५-दा चाऽ-भां० मां०। ६ पृ० १९३ पं० २० । __७ “प्रतिभासश्च शब्दार्थ इत्याहुस्तत्त्वचिन्तकाः। दृश्य-कल्पा(ल्प्या)विभागज्ञो लोको बाह्यं तु मन्यते" ॥ "तस्यातोऽध्यवसायेन व्यक्तीनामेव वाच्यता । तत्त्वतश्च न शब्दानां वाच्यमस्तीति साधितम्" ॥ तत्त्वसं० का० १०७८-१०७९ पृ. ३३५। ८-चारितमरम-आ०। ९-वाच्यं हे-भां० मां० वा० बा० विना । १० पृ० १९३ पं० २१ तथा ३६ । ११ तदपो-भां० मां० । १२ पृ० १९३ पं० २६ । १३-मनेका-वा. वा० । "इत्थं च शब्दवाच्यत्वाद् व्यक्तीनामस्त्यपोह्यता । सामान्यस्य तु नापोहो न चापोहेऽपि वस्तुता"। तत्त्वसं० का० १०८० पृ० ३३५ । १४-माणभा-आ० हा०वि०। १५ यद्यपिऽभा-वा० बा० । पृ० १९३ पं० २२ तथा ४१। १६-दिनाच ना भावो पोह्य-आ० हा० वि० ।-दिना भावो पोह्यमिति नामावोह्यते त्येवं वा० बा०। १७ "तस्यापोह उच्यते"-तत्त्वसं०। १८ शास्त्रवा० स्याद्वादक० पृ० ४०५ प्र० पं० ८-९। १९ न भाव-वा० बा०। २०-भापास्पष्टत्वम् भां० मां० ।-भावं स्पेष्टत्वं हा० । वा० बा० प्रतौ तु नैष पाठः । “तस्याभावस्येष्टम्"-तत्त्वसं० पजि. पृ. ३३५ पं० २८ । २१ पृ. २१४ पं० २० । २२-हे ईति भां. मां० । २३ शास्त्रवा० स्याद्वादक. पृ० ४०५ प्र. पं० १०।। अस्य पूर्वार्ध तु-"प्रकृतीशादिजन्यत्वं वस्तूनां नेति चोदिते"-तत्त्वसं०। २४ उत्तरार्ध त्वस्य-"तस्य सिद्धौ च सत्ताऽस्ति सा चाऽसत्ता प्रसिद्ध्यति"-तत्त्वसं० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy