SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १९४ प्रथमे काण्डे - "यदा वा शब्दवाच्यत्वान्न व्यक्तीनामपोह्यता । तदाऽपोह्येत सामान्यं तस्यापोहाच्च वस्तुता” ॥ "नापोह्यत्वमभावानामभावाभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः " ॥ [लो० वा० अपो० लो० ९५-९६ ] इति । अपि च, अपोहानां परस्परतो वैलक्षण्यमवैलक्षण्यं वा ? तत्राद्ये पक्षे अभावस्यागोशब्दस्याभिधेयस्याभावो गोशब्दाभिधेयः, स चेत् पूर्वोक्तादभावाद् विलक्षणस्तदा भाव एव भवेत् अभावनिवृत्तिरूपत्वाद् भावस्य । न चेद् विलक्षणस्तदा गौरव्यगौः प्रसज्येत तदवैलक्षण्येन तादात्म्यप्रतिपत्तेः । स्यादेतत् गवाश्वादिशब्दः स्वलक्षणान्येव परस्परतो व्यावृत्तान्यपोह्यन्ते नाभावः; १० तेनापोह्यत्वेन वस्तुत्वप्रसङ्गापादनं नानिष्टम्, असदेतत्: यद्यपि सच्छन्दादन्येषु गवादिशब्देषु वस्तुन (नः) पर्वतादेरपोद्यता सिद्ध्यति, सच्छन्दस्य त्वभावाख्याद पोद्यान्नान्यदपोह्यमस्ति असावच्छेदेन सच्छन्दस्य प्रवृत्तत्वात् ततश्च पूर्ववदभावाभाववर्जनाद् असतोऽपोहे वस्तुत्वमेव स्याद् इत्य पोहवादिनोऽभ्युपगम विरुद्धाऽसद्वस्तुत्वप्रसक्तिः । अर्थास्त्वभावस्यापि वस्तुत्वम्, न अभावस्यापि सिं (स्याऽसि ) द्धौ कस्यचिद् भावस्यैवासिद्धेः, १५ अभावव्यवच्छेदेन तस्य भवन्मतेन स्थितलक्षणत्वात् । अभावस्यै वाऽपोद्यत्वे सति वस्तुत्वप्रसङ्गेन स्वरूपासिद्धेरसत्त्वमपि न सिद्ध्यति, तस्य सत्त्वव्यवच्छेदरूपत्वात् सत्त्वस्य च यथोक्तेन प्रकारेणायोगात् । न चात्र "अपोद्यैः स वहिःसंस्थितैर्भिद्यते " 'इत्यादी " अवस्तुत्वादपोहानां नैव भेदः " 'इत्यादौ च ' २० खल्वपोह्यभेदादाधारभेदाद् वाऽपोहानां भेदः, अपि त्वनादिकालप्रवृत्तविचित्रवित १ क्रमेण तत्त्वसं० का० ९५५-९५६ पृ० ३०३-३०४ । २ “अभावस्य च योऽभावः स चेत् तस्माद् विलक्षणः । भाव एव भवेन्नो चंद्र गौरगौस्ते प्रसज्यते” ॥ श्लो० वा० अपो० ० ९७ । तत्त्वसं० का० ९५७ पृ० ३०४ । ३ “अभावस्य अगोशब्दाभिधेयस्याभावः " - तत्त्वसं० पजि० ३०४ पं० २१ । “पक्षे भावस्या गोशब्दाभिधेयस्याभावः " - प्रमेयक० पृ० १२७ द्वि० पं० ८ । ४ " नाभावाः; तेनापोह्यत्वेन तेषां वस्तुत्वप्रसङ्गापादनं नानिटम्"-तत्त्वसं० पञ्जि० पृ० ३०४ पं० २६ । ५ " यद्यप्यन्येषु शब्देषु वस्तुनः स्यादपोह्यता । सच्छन्दस्य त्वभावाख्यान्नापत्यं भिन्नमिष्यते" ॥ श्लो० वा० अपो० श्लो० ९८ । तत्त्वसं० का० ९५८ पृ० ३०४ । ६ वस्तुनष्पञ्चैतादे-भां० म० । वस्तुन शर्वतादे - वा० वा० । “वस्तुनः पर्वतादेः”-तत्त्वसं० पञ्जि० पृ० ३०५ पं० २ । ७- रुद्धासत् वस्तु-आ० हा ० वि० । ८-धास्तु भावा० वा० । “ तत्राऽसतोऽपि भावत्वमिति क्लेशो महान् भवेत् । तदसिद्धौ न सत्ताऽस्ति न चाऽसत्ता प्रसिध्यति ” ॥ लो० वा० अपो० श्लो० ९९ । तत्त्वसं० का० ९५९ पृ० ३०५ । ९- स्तुत्वम् भा-भां० मां० विना । १० “ ' तदसिद्धौ' तस्याऽभावस्यासिद्धौ” - तत्त्वसं० पञ्जि० पृ० ३०५ पं० १० । ११ - स्य भावापोह्यत्वे आ० । १२- कारण यो - वा० वा० आ० । १३ न चात्रा पोह्यैस्सद् बहिः संस्थितैर्भिद्यते त्यादाववस्तुत्वादपोहानाम् भ० मां० । न चात्र पोह्येऽस्मबहि संस्थितैर्भिद्यते त्यादा नवतः वस्तुत्वादपोहानाम् कां० । न चात्रापोऽस्म बहि संस्थितैर्भिद्यते त्यादानवतः वस्तुत्वादपोहानाम् गु० भा० डे० । न चात्रापोह्येस्मद्भिः संस्थितैर्भिद्यतेयादवः वस्तुत्वादपोहीनां नैवे भेदः वा० • । न थानपोह्येऽस्म बहि संस्थितै भिद्यतेत्यादावनः वस्तुत्वादपोहानाम् आ० । १४ पृ० १८९ पं० ३ तथा २५ । १५ पृ० १८८ पं० १९ तथा ४० । १६ " यत् पूर्वमुक्तम्- 'अपोः स बहिः संस्थैर्भिद्येत' इत्यादि, यच्चोक्तम्-‘अवस्तुत्वादपोहानां नैव भेदः' इत्यादि, तत्र केचिद् बौद्धाः परिहारमाहुः - न खल्वपोह्यभेदा (दा) धारभेदादू वा अपोहानां भेदः" इत्यादि सर्वमक्षरशः तत्त्वसं० पत्रि० पृ० ३०५ पं० १४-१९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy