SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८२ प्रथमे काण्डेयदेव शाब्दे प्रत्ययेऽध्यवसीयमानतया प्रतिभासते स शब्दार्थः, न च बुद्ध्याकारः शाब्दप्रत्ययेना. ध्यवसीयते किं तर्हि ? बाह्यमेवार्थक्रियाकारि वस्तुः न चापि तेन बाह्यं परमार्थतोऽध्यवसीयते, यथातत्त्वमनध्यवसायाद् यथाध्यवसायमतत्त्वात् अतः समारोपित एव शब्दार्थः। यश्च समारोपितं तन्न किञ्चिद् भावतोऽभिधीयते शब्दैः। यत् पुनरुक्तम्-'शब्दार्थोऽर्थः स एवेति', तत् समारोपित५मेवार्थमभिसम्धाय, बुद्ध्याकारवादिना तु बुद्ध्याकारः परमार्थतो वाच्य इण्यत इति महान् विशेषः । [७ प्रतिभापदार्थवादिमतम् ] अन्ये त्वाहुः-“अभ्यासात् प्रतिभाहेतुः शब्दः न तु बाह्यार्थप्रत्यायकः" इति । शब्दस्य क्वचिद् विषये पुनः पुनः प्रवृत्तिदर्शनमभ्यासः, नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रशा प्रतिमा सा प्रयोगदर्शनावत्तिसहितेन शब्देन जन्यते, प्रतिवाक्यं प्रतिपुरुषं च सा भिद्यते; यथैव १० ह्यङ्कशादिघातादयो हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहेतवो भवन्ति तथा शब्दार्थ(सर्वेऽर्थ )वत्त्वसंमता वृक्षादयः शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भवन्ति न त्वर्थ १-द् भवतो हा० वि० गु० ।-द् भवता-आ० कां० । २ पृ० १८१ पं० १२ । ३-मतिसंधाय गु० ।मभिधाय वा० । ४ "अभ्यासात् प्रतिभाहेतुः सर्वः शब्दः समासतः । बालानां च तिरक्षां च यथाऽर्थप्रतिपादने" ॥ तत्त्वसं० का० ८९२ पृ० २८६ । तथा, शानवा० स्याद्वादक. पृ० ४०० द्वि. पं. ३ । "अभ्यासात् प्रतिभाहेतुः शब्दः सर्वोऽपरेः स्मृतः । बालानां च तिरां च यथार्थप्रतिपादने" ॥ "अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते । अनन्तरमिदं कार्यमम्मादित्यपदर्शनम"॥ “अथ प्रतिभाखरूपमेव पूर्वोपक्रान्तमनुबधन्नाह"विपदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते । वाक्यार्थ इति तामाहुः पदार्थरुपपादिताम्" || "कीदृशीं ताम् ? इत्याह""इदं तदिति साऽन्येषामनाख्येया कथंचन । प्रत्यात्मवृत्तिसिद्धा सा कर्नाऽपि न निरूप्यते" ॥ "किंखभावाऽसौ ? इत्याह""उपश्लेषमिवाऽर्थानां सा करोत्यविचारिता । सार्वरूप्यमिवाऽऽपन्ना विषयत्वेन वर्तते" ॥ "तां च न किंचित् प्राणिमात्रमतिवर्तते-अतिक्रम्य तिष्ठति-इत्याह""साक्षाच्छन्देन जनितां भावनानुगमेन वा । इतिकर्तव्यतायां तां न कचिदतिवर्तते"॥ "प्रमाणत्वेन तां लोकः सर्वः समनुपश्यति । समारम्भाः प्रतीयन्ते तिरश्चामपि तद्वशातू" ॥ "सिद्धव चेयं सर्वस्य प्रतिभेत्युपपादयितुमाह"“यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः । मन्दादिशक्कयो दृष्टाः प्रतिभास्तद्वतां तथा" ॥ "सनिदर्शनमुपपादयितुमाह""स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः। जन्त्वादयः कुलायादिकरणे केन शिक्षिताः” ? ॥ "आहार-प्रीत्यमिद्वेष-प्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्का मृगपक्षिणाम्"?॥ "प्रतिभायाश्च शब्द एव मूलमित्याह""भावनानुगतादेतदागमादेव जायते । आसत्ति-विप्रकर्षाभ्यामागमस्तु विशिष्यते"॥ "तस्याश्च निमित्तभेदेन षाभिध्यं दर्शयितुमाह" "खभाव-चरणाऽभ्यास-योगा-ऽदृष्टोपपादिता। विशिष्टोपहिता चेति प्रतिभा षड्विधां विदुः" ॥ वाक्यप० का०२ श्लो०११९-१२०-१४५-१५४ पृ० १३१-१३२-१४१-१४३ पुण्यरा० टी०। ५-वृत्तिसंहि-वा० बा० ।-वृत्तिसहि-भां० मां०।। "यथैव यकशाभिघातादयो हस्त्यादीनामर्थप्रतिपत्तौ"-तत्त्वसं० पजि. पृ. २८६ पं० १७ । “यथा कशाभिघातमात्रसमनन्तरमेव वाजिनोऽभियान्ति, अनुशाभिघातेन च गजाः"-वाक्यप० का०२ श्लो०१२० पुण्यरा०टी०पृ० १३२॥ "यथैव ह्यशादिघातादयो हस्त्यादीनामर्थप्रतिपत्ती"-शास्त्रवा० स्याद्वादक. पृ. ४०० द्वि. पं०३। -भासाहे-आ० का० गु०। ८ शब्दार्थसंबन्धसम्मता आ० हा० वि० कां० । शब्दार्थसंबन्धसंगता भां. मां० । “तथा सर्वेऽर्थवत्समता वृक्षादयः शब्दाः"-तत्त्वसं० पजि. पृ. २८६ पं० १८ । मा
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy