SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । १७७ नापि शब्दस्वलक्षणस्य । तथाहि-समयकृत् स्मृत्युपस्थापितमेव नामभेदमर्थन योजयति, न च स्मृतिर्भावतोऽनुभूतमेवाभिलापमुपस्थापयितुं शक्नोति तस्य चिरनिरुद्धत्वात्, 'यं चोच्चारयति तस्य पूर्वमननुभूतत्वान्न तत्र स्मृतिः, न चाविषयीकृतस्तया समुत्थापयितुं शक्यः, अतः स्मृत्युपस्थापितमनुसन्धीयमानं विकल्पनिर्मितत्वेनास्खलक्षणमेवेति न स्वलक्षणत्वेऽस्य समयः। तस्मादव्यपदेश्यं स्खलक्षणमिति सिद्धम् । इतश्च स्वलक्षणमव्यपदेश्यम् शब्दबुद्धौ तस्याप्रतिभासनात् । यथा हि उष्णाद्यर्थविषयेन्द्रियबुद्धिः स्फुटप्रतिभासाऽनुभूयते न तथोष्णादिशब्दप्रभवा, न ह्युपहतनयनादयो मातुलिङ्गादिशब्दश्रवणात् तद्रूपाद्य-भाविनो भवन्ति यथाऽनुपहतनयनादयोऽक्षबुद्ध्याऽनुभवन्तः । यथोक्तम् "अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते।। अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते" वाक्यप० द्वि० का० श्लो०४२५] १० ने च यो यत्र न प्रतिभाति स तद्विषयोऽभ्युपगन्तुं युक्तः अतिप्रसङ्गात्। तथा च प्रयोगः-यो यत्कृतप्रत्यये न प्रतिभासते न स तस्यार्थः, यथा रूपशब्दजनिते प्रत्यये रसः, न प्रतिभासते च शाब्दप्रत्यये स्वलक्षणम् इति व्यापकानुपलब्धिः। अत्र चातिप्रसङ्गो बाधकं प्रमाणम् । तथाहिशब्दस्य तद्विषयज्ञानजनकत्वमेव तद्वाधकत्वमुच्यते नान्यत्, न च यद्विषयं ज्ञानं यदाकारशून्यं तत् तद्विषयं युक्तम् अतिप्रसङ्गात् । न चैकस्य वस्तुनो रूपद्वयमस्ति-स्पष्टमस्पष्टं च येनास्पष्टं वस्तुगत-१५ मेव रूपं शब्दैरभिधीयते-एकस्य द्वित्वविरोधात् भिन्नसमयस्थायिनां च परस्परविरुद्धस्वभावप्रतिपादनान्न शब्दगोचरः स्वलक्षणम् । [ पदवाच्यविषयकस्य न्यायसूत्रकारमतस्य भाष्यकार-वार्तिककाराभिप्रायेण विशिष्य निरूपणम् ] नैयायिकास्तु "व्यक्त्याकृतिजातयस्तु पदार्थः" [न्यायद० अ० २ आ० २ सू० ६५] इति प्रतिपन्नाः । तत्र व्यक्तिशब्देन द्रव्य-गुणविशेष-कर्माण्यभिधीयन्ते । तथा च सूत्रम्-"व्यक्तिर्गुणविशे-२० पाश्रयो मूर्तिः” [न्यायद० अ०२ आ० २ सू०६६] इति । ___ अस्यार्थो वार्तिककारमतेन-"विशिष्यत इति विशेषः गुणेभ्यो विशेषो गुणविशेषः कर्माभिधीयते, द्वितीयश्चात्र गुणविशेषशब्द एकशेषं कृत्वा निर्दिष्टः तेन गुणपदार्थो गृह्यते-गुणाश्च ते विशेषाश्च गुणविशेषाः-विशेषग्रहणमाकृतिनिरासार्थम् । तथाहि-आकृतिः संयोगविशेषस्वभावा, संयोगश्च गुणपदार्थान्तर्गतः ततश्चासति विशेषग्रहणे आकृतेरपि ग्रहणं स्यात्, न च तस्या व्यक्ता-२५ वन्तर्भाव इष्यते पृथक् स्वशब्देन तस्या उपादानात् । आश्रयशब्देन द्रव्यमभिधीयते-तेषां गुणविशेषाणामाश्रयस्तदाश्रयो द्रव्यमित्यर्थः । सूत्रे तत्'शब्दलोपं कृत्वा निर्देशः कृतः, एवं च विग्रहः कर्त्तव्यःगुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषाः तदाश्रयश्चेति गुणविशेषाश्रयः, समाहारद्वन्द्वश्वायम् "लोकाश्रयत्वात् लिङ्गस्य" [अ०२ पा०२ सू० २९ महाभाष्ये पृ० ४७१ पं०८] इति नपुंसक १ यच्चोच्चा-आ० कां० । २ “(उष्णादिप्रतिपत्तिर्या) नामादिध्वनिभाविनी । विस्पष्टा (भासते नेषा) तदर्थेन्द्रियबुद्धिवत्" ॥ तत्त्वसं० का० ८७९ पृ० २८० । ३-नुभविनो कां०। ४ अनेकान्तज. पृ० ४५ द्वि० पं० ४ अम० । शास्त्रवा० स्त० ११ श्लो० २४ । प्रमेयक० पृ० १२९ प्र. पं० ७ । स्याद्वादर० पृ० ३४९ प्र० पं०९। ५ "न स तस्य च शब्दस्य युक्तो योगो न तत्कृते । प्रत्यये सति भात्यर्थो रूपबोधे तथा? रसः" ॥ तत्त्वसं० का० ८८० पृ० २८० । ६-सङ्गात् अथ प्रयो-वि• डे० ।-सङ्गात् प्रयो-भा० मा० वा. बा. हा०। ७ “यो यत्कृते प्रत्यये"प्रमेयक० पृ. १२९ प्र. पं०६। “यस्कृते ज्ञाने"-स्याद्वादर० पृ. ३४९ प्र. पं. ११। ८ "तद्वाचकत्वमुच्यते"तत्त्वसं० पजि. पृ० २८० पं० २८। १ अन्तर्गतः पाठः कां० प्रतावेव । गुणा विशेषाश्चेति गुणविशेषाश्च तदाश्रयश्चेति गुणविशेषाश्रयः भा० मा० । गुणविशेषाश्चेति गुणविशेषाः तदाश्रयश्चेति गुणविशेषाश्रयः वा. बा. आ. हा० वि० गु०। १० "गुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषाः, गुणविशेषाश्च तदाश्रयश्चेति गुणविशेषाश्रयः"-तत्त्वसं० पञ्जि. पृ० २८१५० १५। ११ “लिङ्गमशिष्यम्" इति पूर्तिः। स० त० २३
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy