SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोमीमांसा। १७५ करेण-"अवाचकत्वे शब्दानां प्रतिज्ञा-हेत्वोाघातः" [अ० २, आ० २, सू० ६७ न्यायवा० पृ० ३२७ पं०६-७] इति, तदपि प्रत्युक्तं भवति; न हि सर्वथा शब्दार्थापवादोऽस्माभिः क्रियते-आ गोपालेभ्योऽपि प्रतीतत्वात् तस्य-किन्तु तात्त्विकत्वं धर्मः परैर्यस्तत्रारोप्यते तस्यैव निषेधो न तु धर्मिणः । [१ स्खलक्षणे संकेतासंभवसाधनम्] तत्र स्वलक्षणे न तावत् समयः संभवति शब्दस्य, समयो हि व्यवहारार्थ क्रियते न व्यसनितया,५ तेन यस्यैव सङ्केत-व्यवहारकालव्यापकत्वमस्ति तत्रैव स व्यवहर्तृणां युक्तो नान्यत्र; न च स्वलक्षणस्य सङ्केत-व्यवहारकालव्यापकत्वमस्ति तस्मान्न तत्र समयः । सङ्केत-व्यवहारकालाव्यापकत्वं च शाबलेयादिव्यक्तीनां देशादिभेदेन परस्परतोऽत्यन्तव्यावृत्ततयाऽनन्वयात् तत्रैकत्र कृतसमयस्य पुंसोऽन्यैर्व्यवहारो न स्यादिति तत्र समयाभावान्नासिद्धता हेतोः। ___ न चाप्यनैकान्तिकत्वम्, व्याप्तिसिद्धेः। तथाहि-यद्यगृहीतसङ्केतमर्थ शब्दः प्रतिपादयेत् तदा १० गोशब्दोऽप्यश्वं प्रतिपादयेत् सङ्केतकरणानर्थक्यं च स्यात्, तस्मादतिप्रसङ्गापत्तिर्बाधकं प्रमाणमिति कथं न व्याप्तिसिद्धिः? ___ अयमेव वा 'अकृतसमयत्वात्' इति हेतुराचार्यदिग्नागेन “न जातिशब्दो भेदानां वाचकः, आनन्यात्"[ ] इत्यनेन निर्दिष्टः । तथाहि-'आनन्त्यात्' इत्यनेन समयासंभव एव दर्शितः। तेन यदुक्तमुद्योतकरेण-“यदि शब्दान् पक्षयसि तदा 'आनन्त्यात्' इत्यस्य वस्तुधर्मत्वाद् १५ व्यधिकरणो हेतुः, अथ मेदा एव पक्षीक्रियन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्तीत्यहेतुरीनन्त्यम्" [अ० २, आ० २, सू० ६७ न्यायवा० पृ० ३२३ पं० १६] इति, तत् प्रत्युक्तम् । यत् पुनः स एवाह-“यस्य निर्विशेषणा मेदाः शब्दैरभिधीयन्ते तस्याऽयं दोषः, अस्माकं तु सत्ताविशेषणानि द्रव्य-गुण-कर्माण्यभिधीयन्ते । तथाहि-यत्र यत्र सत्तादिकं सामान्यं पश्यति तत्र तत्र सदादिशब्दं प्रयुङ्क्ते, एकमेव च सत्तादिकं सामान्यम् , अतः सामान्योपलक्षितेषु भेदेषु समयक्रियासम्भवादकार-२० णमानन्त्यम्" [अ०२, आ०२, सू०६७ न्यायवा० पृ० ३२३ पं०११] इति, असदेतत् ; यतो न सत्तादिकं वस्तुभूतं सामान्यं तेभ्यो मिन्नमभिन्नं वाऽस्तीति । भवतु वा तत् तथाप्येकस्मिन् भेदेऽनेकसामान्यसंभवादसाङ्कर्येण सदादिशब्दयोजनं न स्यात् । न च शब्देनानुपदर्य सत्तादिकं सामान्य सत्तादिना भेदानुपलक्षयितुं समयकारः शक्नुयात्, न चाकृतसमयेषु सत्तादिषु शब्दप्रवृत्तिरस्तीति इतरेतराश्रयदोषप्रसक्तिः। २५ अथापि स्यात् स्वयमेव प्रतिपत्ता व्यवहारोपलम्भादन्वय-व्यतिरेकाभ्यां सदादिशब्दैः समयं प्रतिपद्यते, असदेतत् अनन्तभेदविषयनिःशेषव्यवहारोपलम्भस्य कस्यचिदसंभवात्। एकदा सत्तादिमत्सु मेदेवसकृद् व्यवहारमुपलभ्याऽदृष्टेष्वपि तजातीयेषु तान् शब्दान् प्रतिपद्यत इति चेत्, न; १-शा-हेतुा -भां० मा० वा. बा. विना। २-र्यत्रारो-वि.। ३ "तत्र खलक्षणं तावन्न शब्दैः प्रतिपाद्यते । संकेतव्यवहाराप्तकालव्याप्तिवियोगतः" ॥ तत्त्वसं. का० ८७२ पृ. २७७ । ४ “व्यक्त्यात्मानोऽनुयन्त्येते न परस्पररूपतः । देश-काल-क्रिया-शक्ति-प्रतिभासादिभेदतः॥ तस्मात् संकेतदृष्टोऽर्थो व्यवहारे न दृश्यते । न चाऽगृहीतसंकेतो (बोध्येता)न्य इव ध्वनेः"॥ तत्त्वसं० का० ८७३-८७४ पृ. २७७ । ५-वचा-वि०। ६ “यत् पुनरेतत्-आनन्त्यान्न जातिशब्दो भेदानां वाचकः” इति न्यायवा० पृ. ३२३ पं०२। एतादृश एवाऽयं पाठः तत्त्वसं० पजि. पृ. २७७ पं० २८। “यत्तु भिक्षुणा" इति निर्दिश्य श्लोकवार्तिकव्याख्यायां पार्थसारथिमिश्र एतत्समानमेनं श्लोकमुद्धरति“न जातिशब्दो भेदानामानन्त्य-व्यभिचारतः । वाचको योग-जात्योर्वा भेदार्थैरपृथक्श्रुतैः" ॥ श्लो० वा. पृ० ५९६ पं० २० । "अयमेवाभिप्रायः 'न जातिशब्दो भेदानां वाचकः, आनन्त्यात्' इति वदत आचार्यदिग्नागस्य"-शास्त्रवा० स्याद्वादक. पृ. ३९९ द्वि. पं०६।७-न संभव ए-वा. बा. गु० भा० डे०। ८ शब्दा प-भां• मां०। ९-रानन्तमिति भा० ।-रात्यन्तमिति वा० बा० ।-रानन्त्यंतमिति वि.। १०-मत्स्यभेदेषु-भां. मा. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy