SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेयते तदा ते प्रेक्षापूर्वकारित्वादेव अप्रमाणके नैव प्रवृत्तिं विदधति । न च प्रयोजनप्रतिपादकमादिवाक्यं तत्प्रभवं वा ज्ञानं प्रमाणम् अनक्षजत्वेनाध्यक्षत्वायोगात्। नाप्यनुमानं स्वभाव-कार्यलिङ्गसमुत्थम् तद्भावत्वेन तत्कारणत्वेन वा तत्प्रत्याय्यप्रयोजनस्य प्रमाणतोऽप्रतिपत्तेस्तदुत्थापकस्य लिङ्गस्य तेत्स्वभाव-तत्कार्यत्वानवगमात्, अन्यस्य च खसाध्या५प्रतिबन्धात् अप्रतिबद्धस्य च स्वसाध्यव्यभिचारेणागमकत्वात्, तत्त्वे वाऽतिप्रसङ्गात्। तत्प्रतिबद्ध त्वेऽप्यनिश्चितप्रतिबन्धस्यातिप्रसङ्गत एव अगमकत्वात् । न च वाक्यमिदं प्रवर्त्तमानं स्वमहिम्नैव स्वार्थ प्रत्याययतीति शब्दप्रमाणरूपत्वात् स्वाभिधेयप्रयोजनप्रतिपादने प्रमाणम् , शब्दस्य बाह्येऽर्थे प्रतिबन्धासम्भवेनाप्रामाण्यात् विवक्षायां प्रामाण्येऽपि तस्या बाह्यार्थाविनाभावित्वायोगात्। नापि ये यमर्थ विवक्षन्ति ते तथैव तं प्रतिपादयन्ति, १० अन्यविवक्षायामप्यन्यशब्दोच्चारणदर्शनात् विवक्षायाश्च बाह्यार्थप्रतिबद्धत्वानुपपत्तेरेकान्ततः। तत्र शब्दादपि प्रमाणादादिवाक्यरूपात् प्रयोजनविशेषोपायप्रतिपत्तिः तदप्रतिपत्तौ च तेषां ततः प्रवृत्ती प्रेक्षापूर्वकारिताव्यावृत्तिप्रसङ्गात् । प्रयोजनविशेषोपायसंशयोत्पादकत्वेन प्रवृत्त्यङ्गत्वादादिवाक्यस्य सार्थकत्वम् । तथाहि-अर्थसं. शयादपि प्रवृत्तिरुपलभ्यते, यथा कृषीबलादीनां कृष्यादावनवगतशस्यावाप्तिफलानाम् । अथ अबीजा१५दिविवेकेनावधृतबीजादिभावतया निश्चितोपायाः तदुपेयसस्थावाप्त्यनिश्चयेऽपि तत्र तेषां प्रवृत्तिर्युका न पुनः शास्त्रश्रवणादौ उपेयप्रयोजनविशेषानिश्चयवत् तदुपायाभिमतादिवाक्यप्रत्याय्योपायनिश्चयस्थाप्यसम्भवात् , अयुक्तमेतत्; यतो यथा सस्यसम्पत्त्यादौ फले कृषीबलादेः सन्देहस्तथा तदुपायाभिमतबीजादावपि, अनिवर्तितकार्यस्य कारणस्य तथाभावनिश्चयायोगात् । तत्र यथा कृष्यादिकं संशय्यमानोपायभावं प्रवृत्तिकारणं तथा शास्त्रमप्यादिवाक्यादनिश्चितोपायभावं किं न प्रवृत्तिका२० रणमभ्युपगम्येत इति चेत्, असदेतत् ; आदिवाक्योपन्यासः शास्त्रप्रयोजनविषयसंशयोत्पादनार्थम् संशयोऽपि च निश्चयविरुद्धः-अनुत्पन्ने च निश्चये-तत्राप्रतिबद्धप्रवृत्तिहेतुतया प्रादुर्भवन् केन वार्यते आदिवाक्योपन्यासमन्तरेणापि? अथाश्रुतप्रयोजनवाक्यानां प्रयोजनसामान्ये तत्सत्वेतराभ्यां संशयो जायते-'किमिदं चिकित्साशास्त्रवत् सप्रयोजनमुत काकदन्तपरीक्षावन्निष्प्रयोजनम्'-ततश्च संशयादनुपन्यस्ते प्रयोजन२५वाक्ये प्रयोजनसामान्यार्थिनः प्रवर्त्तन्ताम् प्रयोजनविशेषे तु कथमश्रुतप्रयोजनवाक्यानां संशयोत्पत्तिः ? प्रायेण च प्रयोजनविशेषविषयस्यैव संशयस्य प्रवृत्तिकारणत्वात् तदुत्पादनायादिवाक्यमुपादेयम् अतश्च प्रयोजनसामान्य-विशेषेषु संशयानाः 'किमिदं सप्रयोजनमुत निष्प्रयोजनम् सप्रयोजनत्वेऽपि किमभिलषितेनैव प्रयोजनेन तद्वत' इति पक्षपरामर्श कर्वाणाः प्रवर्तन्ते. असदेतत्; कुतश्चिच्छास्नादनुभूतप्रयोजनविशेषं श्रोतारं प्रति प्रयोजनवाक्यस्यानुपयोगात्-स हि किञ्चि३० च्छास्त्रमुपलभ्य प्रागनुभूतप्रयोजनविशेषेण शास्त्रेणास्य वाक्यात्मकत्वेन साधर्म्यमवधार्य 'इदमपि निष्प्रयोजनम् उतानाममतप्रयोजनवत् उताभीष्टप्रयोजनवद्वा' इत्याशङ्कमान: प्रयोजनवाक्यमन्तरे णापि प्रवर्तत एव अननुभूतप्रयोजनविशेषस्तु प्रयोजनवाक्यादपि नैव प्रवर्तते, तं प्रति तस्यापि तदुत्पादकत्वायोगात्-न हि प्रागननुभूतशास्त्रप्रयोजनविशेषः 'प्रयोजनप्रतिपादकं वाक्यमेतदर्थम्' इत्यपि प्रतिपत्तुं समर्थोऽपरयत्नमन्तरेण । नाप्यनुभूतविस्मृतप्रयोजनविशेषः प्रयोजनवाक्यात् ३५संस्मृत्य तद्विशेषं संशयानः प्रवर्त्तते, तद्रहितशास्त्रादपि तद्विशेषे स्मृतिसम्भवात् । नियमेन तु नोभाभ्यामपि तदनुस्मरणं भवति, तथापि प्रयोजनवाक्यस्य ततः स्मृतिहेतुत्वत उपन्यासेऽन्यस्यापि तद्धेतोः किं नोपन्यासः? सामान्य-विशेषयोश्च दर्शनाऽदर्शनाभ्यां विशेषस्मरणसहकारिभ्यां संशयः, न च प्रयोजनवाक्यं प्रयोजनविशेषस्य भावाऽभावयोः सामान्यम् । अथ विवक्षापरतन्त्रत्वात् खार्थतथाभावाऽतथाभावयोरपि प्रयोगसम्भवात् सामान्यमेव वाक्यम्, शास्त्रमपि तर्हि शास्त्रान्तर४०सादृश्यात् प्रयोजननिर्वृत्युपायत्वाऽनुपायत्वयोः सामान्यम्-अन्यतरनिश्चयनिमित्ताभावात्-ततः १तद्भाव-गु० डे. भां० वा. बा०।२ अप्रतिबन्धस्य स्व-कां० डे० गु० भा०। ३-नानुभूतबी-कां. आ०। ४-पाया दुपे-वा. बा० । अत्र "संशयितसस्यसंपत्त्यादिफलानां कृषीवलादीनां कृष्यादाविव प्रवर्तमानानाम्" इति स्याद्वादर. पृ. ७ द्वि. पं० ११ । “ततोऽपि च संशयतः सस्यसंपत्त्यादिफले कृध्यादौ कृषीबला इव ते तत्र प्रवर्तन्ते" इति रत्नाकरा०पृ. ९५० १४। ५-त्तिर्न पुनः आ० हा०।६न प्रतिपत्तिका-भा०मा०। ७ एवमेव दृश्यते स्थाद्वादर० पृ.७ द्वि. पं०१४। ८वार्येत भां. मां०। ९-जनानि-भां०मा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy