SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १४ त्त्वसंग्रहीये प्रस्तुतप्रकरणे यत्र यत्र संनिविष्टा दृष्टास्तत्र तत्र यथासंभवं तत्तत्पूर्वाचार्यकृतित एव तत्तत्कारिकाक्रमाङ्कप्रदर्शनपुरःसरं तत्त्वसंग्रहीयकारिकासम्बन्धी प्रचलितः क्रमाङ्कोऽपि निदर्शितः। यथापृ० १७९ टिप्पणं ८ । पृ० १८६ टिप्पणं २ । पृ० १८७ टिप्पणं ६ प्रभृति । एतद्व्यतिरिक्तयाऽन्ययाऽपि साधारणरीत्या तत्त्वसंग्रह इत्थमुपायोजि-यानि यानि संमतिटीकागतान्यनिर्दिष्टकर्तृकानि निर्दिष्टकर्तृकानि वा गद्य-पद्यानि पञ्जिकायामुपलब्धिगोचरतां गतानि तानि तान्यधस्तात् टिप्पणिकायां तथैव प्रदर्शितानि । किंच, आवश्यकेषु स्थलेषु भामहालङ्कार-वाक्यपदीय श्लोकवार्तिक-तत्त्वसंग्रह-प्रमेयकमलमार्तण्ड-स्याद्वादरत्नाकर-शास्त्रवार्तासमुच्चयटीकादिग्रन्थेभ्यः पाठान्तराणि गृहीत्वा न्यस्तानि, तथा तेषां ग्रन्थानामन्यप्रकारेणापि सविशेषमुपयोगः कृतः। यथा-पृ० १७४ टिप्पणं ५ । पृ० १८१ टिप्पणं १६। पृ० १८६ टिप्पणं २,४,५ । पृ० १८२ टिप्पणं ४ । पृ० १८६ टिप्पणं १२, ३ । पृ० १७३ टिप्पणं १०, पृ० १७६ टिप्पणं २ । पृ० २४८ टिप्पणं १९ । पृ० १८२ टिप्पणं ६ प्रभृति । पञ्जिका-संमतिटीकयोर्वाक्यरचनाविषयकः काचित्को भेदोऽपि टिप्पणिकान्यस्तेन पञ्जिकांशेन प्रादर्शि । अशुद्धां त्रुटितां वा पञ्जिकां कारिकां च शोधयित्वा पूरयित्वा वा शुद्धः पाठः बृहत्सु सीसकाक्षरेषु दर्शितः । यथा पृ० १७७ टिप्पणं ८,१०, पृ० १८४ टिप्पणं १, पृ० २१७ टिप्पणं १५, पृ० २२१ टिप्पणं १२, पृ० २२८ टिप्पणं १५ प्रभृति । एतच्च संमतिटीकासंशोधनं तत्त्वसंग्रहग्रन्थस्याधमर्णायते । किंतु यदि तत्त्वसंग्रहस्य संशोधकाः का युस्तदा तदृणं सवृद्धि प्रस्तुतात् संस्करणात् प्रतिग्रहीतुं प्रभविष्यन्ति । तत्त्वसंग्रहोपलब्ध्याऽनेकेषामज्ञातपूर्वाणामाचार्याणां तत्कृतीनां च नामानि अनेकान्यनुपलब्धपूर्वग्रन्थावतरणानि चावगतानि तेषामुपयोगो यथास्थानमग्रेतनेषु प्रकाशयिष्यमाणेषु भागेषु करिष्यते । पाठानां शुद्धौ तुलनायां स्पष्टार्थज्ञप्तौ च कर्तव्यायां परिशिष्टनिर्दिष्टेभ्यो ग्रन्थेभ्यो बहुमूल्यं साहायकं समासादि । प्रायेण तेषां सर्वेषां ग्रन्थानामुपयुक्तानि स्थलान्यस्माभिर्यथास्थानं दर्शितान्येव । ___ तत्त्वसंग्रहलाभेन लोभिता वयं नव्यं साहित्यान्तरं गवेषयितुं प्रवर्तमानाः कांश्चिदप्राप्तपूर्वान् ग्रन्थमणीन् प्रा म् कांश्चिच्च श्रुतपूर्वानप्यनवलोकितान् ग्रन्थमणीन् संगृह्यावलोकयितुमशकाम । ___बौद्धाचार्यधर्मकीर्तिकर्तृकहे तुबिन्दोर्विवरणं जयराशिभट्टकृतस्तत्त्वोपप्लवो दिगम्बराचार्याकलङ्ककर्तृको रविभद्र शिष्यानन्तवीर्यकृतटीकोपेतः सिद्धिविनिश्चयश्चैतद्वन्थत्रयमप्राप्तपूर्वमेव प्रापि। तत्रापि तत्त्वोपप्लवस्य तु नामापि प्रायेणाज्ञातमेवासीत् । प्राच्यौ द्वौ ग्रन्थौ ताडपत्रस्थौ स्तः । दिगम्बराचार्यप्रभाचन्द्रकर्तृकन्यायकुमुदचन्द्रोदय-वादिराजकृतन्यायविनिश्चयालंकारनामकबृहत्तरव्याख्यासहितयोरकलङ्ककृतमूलयो नन्यायग्रन्थयोः श्रुतपूर्वयोः संग्रहपुरःसरमवलोकनं प्रस्तुतेन संशोधनकर्मणैवोपकृतम् । नव्यग्रन्थसामग्रीगवेषण-तदुपयोगजन्यविलम्ब-परिमाणमहत्त्वानामलक्षिततया प्रथमभागप्रकाशनसमयेऽस्माभिनिदिष्टम्-'सटीकः संपूर्णोऽपि ग्रन्थनिभिर्भागैः प्रकाशयितुमुचितः इत्यादि'किंतु साम्प्रतं सम्पूर्ण मूलग्रन्थं पञ्चभिर्भागैः प्रकाशयितुं सम्प्रधारयामः यतो ग्राहकाः परिमितपरिमाणतामजहतोऽप्रेतनान् भागान शीघ्रमेव समासादयितुं शक्नुयुः । अस्यापि भागस्य पाठान्तरादिकार्येषु प्रवर्तकश्रीकान्तिविजयानां विद्याप्रियैः सुशीलैः प्रशिष्यैः श्रीपुण्यविजयमुनिभिः सहर्ष साहायकमनुष्ठितम् तदर्थं तेषां कृतज्ञा वयमिति । सुखलाल: बेचरदासश्च ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy