SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः । १५३ प्रसङ्गः, अंपि च, अदुःखितस्यापि विशिष्टविषयोपभोगात् सुखं दृष्टं तत्र कथं दुःखाभावः सुखम् ? यत्रापि दुःखसंवेदनपूर्व यथा क्षुदुःखे भोजनप्राप्तौ तृप्तस्य तद्विनिवृत्तेः तत्राप्यन्न - पानयोर्विशेषात् सुखविशेषो न भवेत्, दृश्यते च लौकिकानां तदर्थमन्नादिविशेषोपादानम्; अन्यथा येन केनचिद् अन्नमात्रेण च क्षुदुःखनिवृत्तौ नान्न-पानविशेषं लौकिका उपाददीरन् । सुखस्य च भावरूपत्वात् सातिशयत्वे तत्साधनविशेषो युज्यते, दुःखाभावस्य तु सर्वोपाख्या विरहलक्षणत्वात् किं साधनविशेषेण १५ येप्येवमुपागमन् “यदाऽपि पूर्व दुःखं नास्ति तदाप्यभिलाषस्य दुःखस्वभावत्वात् तन्निबर्हणस्वभावं सुखम् " ] तेऽपि न सम्यक् प्रतिपन्नाः यतोऽनभिलाषस्य विषयविशेषसंवित्तौ न सुखिता स्यात्, दृश्यते तस्यामप्यवस्थायां रमणीयविषयसम्पर्के हादोत्पत्तिः । तत्रैतत् स्यात् यत्रैवाभिलाषः स एव विषयोपभोगेन सुखी नान्यः, तदभिलाषनिवृत्यैव विषयाः सुखयितारोऽन्यथा यदेकस्य सुखसाधनं तदविशेषेण सर्वेषां स्यात् । यदा तु कामनिवृत्त्या सुखित्वं १० तदा यस्यैवाभिलाषो यत्र विषये स एव तस्य सुखसाधनं नान्यः, अतश्च यदुक्तम् 'अकामस्यापि चिद्विषयोपभोगे सुखित्वदर्शनान्न कामाख्यदुःखनिवृत्तिरेव सुखम् तदयुक्तम्; तत्राकामस्यापि विशिष्टविषयोपभोगात् कामाभिव्यक्तौ तन्निवृत्तेरेव सुखत्वादिति । एतदप्ययुक्तम् ; यतो नावश्यं विषयोपभोगोऽभिलाप निबर्हणः । यथोक्तम् " न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्द्धते " ॥ [महाभा० आदिप० अ० ७९, श्लो० १२] तथा तत्र भगवता पतञ्जलिनाऽप्युक्तम्- "भोगाभ्यासमनुवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम्” [पात० यो० पा० २, सू० १५ व्यासभा०] इति । अपि च, अन्यथाप्यभिलाषनिवृत्तिर्दृष्टा यथा विषयदोषदर्शनात्, तत्रापि भवतां मते विषयोपभोगतुल्यं सुखं भवेत् तुल्ये चाभिमतार्थलाभे सुखविशेषो २० न स्यात् अभिलाषनिवृत्तेरविशेषात् । अथ वदेत् अभिलाषातिरेके तन्निवृत्तौ सुखातिरेकाभिमानोऽन्यत्रान्यथेति, तदप्यसाम्प्रतम् ; यतोऽभिलाषातिरेकात् प्रयस्यन्तं प्राप्तोऽर्थो न तथा प्रीणयति यथाऽप्रार्थितो विना प्रयास दुपनतः । एवमेव च लोकव्यवहारः- यत्नशतावामेऽर्थे क्लेशप्राप्तोऽयमिति न तेन तथा सुखिनो भवन्ति यथाऽनाशंसितप्राप्तेन । तन्न दुःखाभावमात्रं सुखं किन्तु तद्व्यतिरेकेण स्वरूपतः सुखमस्तीति } । १५ २५ तदसमीचीनम् ; न हि अस्माकं दुःखाभाव एव सुखम्-तथा च भाष्यकृता तत्र तत्राभिहितम् - "न सर्वलोकसाक्षिकं सुखं प्रत्याख्यातुं शक्यम्” [ ] । तथाऽन्यत्राप्युक्तम् - " न प्रत्यात्मवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम्" [ ]। एवं चानभ्युपगतस्य पक्षस्योप (पा) लम्भः, प्रकृते तु सुखे प्रतिपाद्यते दुःखाभावमात्रे सुखशब्दो न तु सुखे एव तस्य प्रमाणतोऽनुपपत्तेः । तथा च मुक्तस्य नित्यसुखाभिव्यक्तौ प्रत्यक्षाऽनुमानयोर्निषेधे आगममात्रमवशिष्यते तस्य च गौणत्वे- ३० नाप्युपपत्तेर्न मुख्यस्य सुखस्य सम्भवः । नित्यसुखाभ्युपगमे च विकल्पद्वयम् - किं तद् आत्मस्वरूपं स्वप्रकाशम्, उतस्वित् तद्वयतिरिक्तं प्रमाणान्तरप्रमेयम् ? पूर्वस्मिन् विकल्पे आत्मस्वरूपवत् स्वप्रकाशसुखसंवित्तिः सर्वदा भवेत्; ततश्च बद्ध-मुक्तयोरविशेषः । तत्रैतत् स्यात् - अनाद्यविद्याच्छादितत्वात् स्वप्रकाशानन्दसंवित्तिर्न संसारिणः, यदा तु यत्नादनादेरविद्यातत्त्वस्यापगमस्तदाच्छादकाभावात् स्वप्रकाशानन्दसंवेदनम्, ३५ एतदपेशलम्; आच्छाद्यते ह्यप्रकाशस्वभावम्; यत्तु स्वप्रकाशरूपं तत् कर्थमन्येनाच्छाद्येत ? ast प्रतिपेदिरे "मेघादिना सवितृप्रकाशः सविता वा स्वप्रकाश एवाऽऽच्छाद्यते" [ 1 तेऽपि न सम्यक् संचक्षते; न स्वप्रकाशस्य मेघादिनाऽऽवरणम्, आवृतत्वे हि तेनाहोरात्र - योरविशेषो भवेत्, दृश्यते च विशेषः तस्मान्न कस्यचित् स्वप्रकाशस्यावृतिः । अपि च, मेघादेस्ततोऽ १ अपि वा दुः- वि०, वा०, बा० विना । २ - षदुःखस्य स्व-आ० । षादुःखस्य स्व-वि० । ३ प्र० पृ० पं० ७ । ४ अयमर्थो भाष्ये वार्तिके चैवं दर्शितः "सुखं प्रत्यात्मवेदनीयं शरीरिणाम्, तदशक्यं प्रत्याख्यातुम्” इति - वा० भा० अ० ४, आ० १ सू० ५६ । " न हि प्रत्यक्षं सुखं शक्यं प्रत्याख्यातुम्" - न्यायवा० अ० १, आ० १ सू० २१ पृ० ८४ पं० ३ । ५ प्रतिपद्य - कां० । ६- थमनेना - वि० । स० त० २०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy