SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४० प्रथमे काण्डे इयत्तानवधारणातन हि अयं 'महान् शब्दः' इत्यवस्यन् 'इयान्'इत्यवधारयति यथा द्रव्यान्तरादि बदाऽऽमलक-बिल्वादीनि इति वक्तुं शक्यम्; यतो वक्तव्यमत्र का पुनरियं शब्दस्य मन्दता तीव्रता वा? अवान्तरजातिविशेषः, कथम् ? गुणवृत्तित्वात् शब्दत्ववत्। एतदेवोक्तं भगवता परमर्षिणीलूक्येन “गुणे भावाद् गुणत्वमुक्तम्" [वैशेषिकद० अ० १, आ० २, सू० १३] ५ अस्यायमर्थः-'यो यो गुणे वर्तते स स जातिविशेषः यथा गुणत्वमिति, असदेतत् यतः कथं शब्दस्य गुणत्वसिद्धिर्येन तत्र वर्तमानत्वाजातिविशेषत्वं मन्दत्वादेः? अद्रव्यत्वादिति चेत्, तदपि कथम् ? अल्प-महत्त्वपरिमाणाऽसंबन्धात्, सोऽपि गुणत्वात् । ननु तदेव पूर्वोक्तं चक्रकमेतत् । न गुणत्वात् तस्याल्प-महत्त्वपरिमाणासंबन्धं ब्रूमः-येनायं दोषः स्यात्-अपि तु द्रव्यान्तरवदियत्तानवधारणादिति चेत्, न; वायोरियत्तानवधारणेऽप्यल्प-महत्त्वपरिमाणसंबन्धसंभवादनेकान्तः, १०न हि विल्व-बदरादेरिव वायोरियत्ताऽवधार्यते । वायोरप्रत्यक्षत्वात् इयत्ता सत्यपि नावधार्यते, न शब्दस्य विपर्ययात्, न; उक्तमत्र 'स्पर्शविशेषस्य वायुत्वात् , तस्य च प्रत्यक्षत्वात्' इति । इयत्ता चेयं यदि परिमाणादन्या कथमन्यस्यानवधारणेऽन्यस्याभावः? न हि घटानवधारणे पटाभावो युक्तः। परिमाणं चेत् तर्हि 'इयत्तानवधारणात् परिमाणं नास्ति' इति किमुक्तम् ? परिमाणं नास्ति परिमाणानवधारणात् । तस्मिन्नल्प-महत्त्वपरिमाणावधारणे कथं न तदवधारणम् बिल्वादावपि १५ तत्प्रसङ्गात् ? मन्द-तीवामिसंबन्धादल्प-महत्त्वप्रत्ययसंभवे मन्दवाहिनि गङ्गानीरे 'अल्पमेतत्' इति प्रत्ययोत्पत्तिः स्यात्, तीव्रवाहिगिरिसरिन्नीरे 'महत्' इति च प्रतीतिप्रसङ्गः; न चैवम्, तस्मान्न मन्द-तीव्रतानिबन्धनोऽयं प्रत्ययः अपि त्वल्प-महत्त्वपरिमाणनिमित्तः; अन्यथा घटादावपि तन्निबन्धनो न स्यात् । घटादीनां द्रव्यत्वेन तन्निबन्धनत्वे परिमाणसंभवात् तत्प्रत्ययस्य शब्दस्यापि तथाविधत्वेन स तथाविधोऽस्तु, विशेषाभावात् । कारणगतस्याल्प-महत्त्वपरिमाणस्य शब्दे २० उपचारात् तथा संप्रत्यय इत्यपि वैलक्ष्यभाषितम्, घटादावपि तथा प्रसङ्गात् । अपरे मन्यन्ते "यथा अश्वजवस्य पुरुषे उपचारात् 'पुरुषो याति' इति प्रत्ययस्तथा व्यअकगतस्याल्प-महत्त्वादेः शब्दे उपचारात् 'शब्दोऽल्पो महान्' इति च व्यपदेशः", तदप्यसारम् शब्दाभिव्यक्तेरपौरुषेयत्वनिराकरणे प्रतिषिद्धत्वात् । ततो घटादाविवाल्प-महत्त्वपरिमाणसंबन्धः पारमार्थिकः शब्दे इति सिद्धं गुणवत्त्वम्। २५ संयोगाश्रयत्वाच, तदपि वायुनाऽभिघातदर्शनात्-संयुक्ता एव हि पांश्वादयो वायुनाऽन्येन वाऽमिहन्यमाना दृष्टाः, तेन च तदभिघातः पाश्वादिवदेव देवदत्तं प्रत्यागच्छतः प्रतिकुलेन वायुना प्रतिनिवर्तनात्, तदप्यन्यदिगवस्थितेन श्रवणात् । ननु गन्धादयो देवदत्तं प्रत्यागच्छन्तस्तेन निवर्त्यन्ते, न च तेषां तेन संयोगः निर्गुणत्वात् गुणत्वेन, न तद्वतो द्रव्यस्यैव तेन निवर्तनम्, केवलानां तेषामागमन-प्रतिनिवर्तनाऽसंभवात् निष्क्रियत्वेनोपगमात् । केवलागमन-प्रतिनिव३०र्तनसंभवे वा द्रव्याश्रितत्वमेतेषां गुणलक्षणं व्याहन्येत । न चात्रापि तद्वतो निवर्तनम्, आकाशस्यामूर्तत्व-सर्वगतत्वेन तदसंभवात् अन्यस्य चानभ्युपगमात् । तस्माच्छब्द एव तेन संयुज्यते साक्षादित्यभ्युपेयम् । गुणत्वेन चासंयोगे चक्रकमुक्तम् । न चासंयुक्तस्यैव तेन निवर्तनम् , सर्वस्य निवर्तनप्रसङ्गात् । प्रतिक्षणं शब्दाच्छब्दोत्पत्तिः पूर्वमेव निरस्ता। एकादिसंख्यासंबन्धित्वाच्च गुणवत्त्वम्, तदपि 'एकः शब्दः द्वौ शब्दौ बहवः शब्दाः' इति ३५प्रत्ययदर्शनात् । न चाधारसंख्यायास्तत्रोपचारात् तथा व्यपदेश इति वक्तुं युक्तम्, आकाशस्या धारत्वाभ्युपगमात् तस्य चैकत्वात् 'एकः शब्दः' इति सर्वदा प्रत्ययप्रसङ्गात्। कारणमात्रस्य संख्योपचारे 'बहवः' इति प्रत्ययः स्यात्, तस्य बहुत्वात् । विषयसंख्योपचारे 'गगनाऽऽकाशव्योम'शब्दा बहुव्यपदेशभाजो न स्युः, गगनादिलक्षणस्य विषयस्यैकत्वात्, पश्वादिलक्षणस्य विषयस्य बहुत्वात् 'एको गोशब्दः' इति स्वप्नेऽपि प्रत्ययः व्यपदेशो वा न स्यात् । यथाऽविरोधं ४०संख्योपचार इति बालजल्पितम्, स्वयं संख्यावत्तयैवाविरोधात् । अत्रापि गुणत्वं विरुभ्यत इति १ पृ० १३१ पं० ३५ । २ पृ० १३५ पं० २०। ३ पृ. ३४ पं० ३३ । ४-तद्धेतोड़-वि०, कां० । ५-तद्धेतोनि-वि०, कां०। ६ पृ० १३९५०३५। ७ पृ० १३६ पं० २७।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy