SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। १२३ चाऽसति अङ्कुरादिकार्यस्यावश्यंभावदर्शनात् । अतस्तज्ज्ञानाद्यनुविधानस्य तत्कारणत्वव्यापकस्यानुपलम्भात् तत्कारणत्वाभावोऽङ्करादिकार्यस्यानुमीयते । अतो बाधा व्यापकानुपलब्ध्या बुद्धिमत्कारणानुमानस्य। बुद्धिमत्कारणानुमानेनैव व्यापकानुपलब्धिः कस्मान्न बाध्यते? लोहलेख्यं वज्रम् , पार्थिव. त्वात् , काष्ठवदित्यनुमानेन प्रत्यक्षं तस्य तदलेख्यत्वग्राहकं किं न बाध्यते इति समानम् । प्रत्यक्षेण ५ तद्विषयस्य बाधितत्वान्न तेन तद् बाध्यत इति चेद्, बुद्धिमत्कारणत्वानुमानस्यापि तर्हि व्यापकानुपलब्ध्या विषयस्य बाधितत्वात् कथं तद्बाधकत्वम् ? बुद्धिमत्कारणत्वानुमानेनैव व्यापकानुपलब्धेर्विषयस्य बाधितत्वान्न तद्बाधकत्वमिति चेत्, न; पार्थिवत्वानुमानेन तदलेख्यत्वग्राहकस्य प्रत्यक्षस्य बाधितविषयत्वान्न तद्वाधकत्वमित्यपि वक्तुं शक्यत्वात् । अथ तदनुमानस्य तदाभासत्वाद् न प्रकृतप्रत्यक्षविषयबाधकत्वम्, नैतत् ; इतरेतराश्रयदोषप्रसङ्गात् । तथाहि-प्रत्यक्षबाधितविष १० यत्वात् तदनुमानस्य तदाभासत्वम्, तस्य तदाभासत्वात् प्रत्यक्षस्य तद्वा(दबा)धितविषयत्वेनाऽ. तदाभासत्वात् तद्विषयबाधकत्वम् इति व्यक्तमितरेतराश्रयत्वम् । अथानुमानाबाधितविषयत्वनिबन्धनं न तत्प्रत्यक्षस्याऽतदाभासत्वम् किं तर्हि स्वपरिच्छेद्याव्यभिचारनिबन्धनम् ? नन्वेवमनुमानस्यापि स्वसाध्याऽव्यभिचारनिबन्धनं किं नाऽतदाभासत्वमप्यभ्युपगमविषयः? अथाऽबाधितविषयत्वे सति तस्य तदेव स्वसाध्याऽव्यभिचारित्वं परिसमाप्यते । नन्वेवमबाधितविषयत्वस्य १५ प्रतिपत्तुमशक्तेन क्वचिदपि स्वसाध्याऽव्यभिचारित्वस्यानुमानेऽतदाभासत्वनिबन्धनस्य प्रसिद्धिः; न हि बाधाऽनुपलम्भादू बाधाऽभावः, तस्य विद्यमानबाधकेष्वप्यनुत्पन्नबाधकप्रतिपत्तिषु भावात् । अथ यत्र बाधकसद्भावस्तत्र प्रागू बाधकानुपलम्मेऽप्युत्तरकालमवश्यंभाविनी बाधकोपलब्धिः, यत्र तु न कदाचिद् बाधकोपलब्धिस्तत्र न तद्भावः, असदेतत् न ह्यर्वाग्शा बाधकाऽनुपलम्भमात्रेण 'न कदाचनाप्यत्र बाधकोपलब्धिर्भविष्यति' इति ज्ञातुं शक्यम् , स्वसंबन्धिनोऽनुपलम्भ-२० स्थानकान्तिकत्वात्, सर्वसंबन्धिनोऽसिद्धत्वात्। न ह्यसर्ववित् 'सर्वेणाप्यत्र बाधकं नोपलभ्यते उपलप्स्यते वा' इत्यवसातं क्षमः।नाऽपि बाधकाभावोऽभावनाहि प्रमाणावसेयः, तस्य निषिद्धत्वात निषेत्स्यमानत्वाच्च । न चाऽज्ञातो बाधकाभावोऽनुमानाङ्गं पक्षधर्मत्वादिवत् । न च स्वसाध्याव्यभिचारित्वनिश्चयादेव बाधकामावनिश्चयः, तन्निश्चयमन्तरेण त्वदभिप्रायेण स्वसाध्याव्यभिचारित्वस्याऽपरिसमाप्तत्वेन निश्चयायोगात । तस्मात् पक्षधर्मत्वाऽन्वय-व्यतिरेकनिश्चयलक्षणस्वसा-२५ ध्याविनाभावित्वस्य प्रकृतानुमानेऽपि सद्भावात् प्रत्यक्षवद् न तस्यापि तदाभासत्वम् । अथ विपर्यये बाधकप्रमाणाभावात् पार्थिवत्वानुमानस्य नान्ताप्तिरिति तदाभासत्वम्, प कार्यत्वानुमानेऽपि विपर्यये बाधकप्रमाणाभावाद् व्यायभावतस्तदाभासत्वमिति न व्यापकानुपलब्धिविषयबाधकता । अथ प्रत्यक्षं नानुमानेन बाध्यत इति लोहलेख्यत्वानुमानस्य न तदलेख्य त्वग्राहकप्रत्यक्षबाधकता, कथं तर्हि देशान्तरप्राप्तिलिङ्गाजनिताऽनुमानेन स्थिरचन्द्राऽर्कग्राहिम-३० त्यक्षस्य बाधा? अथ तस्य प्रत्यक्षाभासत्वादनुमानेन बाधा, ननु कुतस्तस्य तदाभासत्वम् ? अनुमानेन बाधितविषयत्वादिति चेत्, ननु तदेवेतरेतराश्रयत्वम्-अनुमानेन बाधितविषयत्वात् तस्य तदाभासत्वम्, तस्य तदाभासत्वे च तेन अबाधितविषयत्वादनुमानस्याऽतदाभासत्वेन तद्विषयबाधकत्वम् इति व्यक्तमितरेतराश्रयत्वम् । तस्मात् स्वग्राह्याव्यभिचार एव सर्वत्र प्रामाण्यनिबन्धनम् । स च व्यापकानुपलब्धौ पक्षधर्माऽन्वयव्यतिरेकस्वरूपः प्रमाणपरिनिश्चितो विद्यते ३५ इति तस्या एव स्वसाध्यप्रतिपादकत्वेन प्रामाण्यम् न पुनर्बुद्धिमत्कारणानुमानस्य, तत्र स्वसाध्याव्यभिचाराभावस्य प्रदर्शितैत्वात्। न च व्यापकानुपलब्धावपि पक्षधर्मत्वाऽन्वय-व्यतिरेकनिश्चयस्य स्वसाध्याव्यभिचारित्वनिश्चयलक्षणस्याभाव इति वक्तुं युक्तम्, यतो व्यापकानुपलब्धेस्तावत् पक्षव्यापकत्वनिश्चयः प्रागेवोक्तः। विपक्षे बाधकप्रमाणसद्भावाद् अन्वय-व्यतिरेकावपि तत्राऽवगम्येते, तत्कारणेषु हि कुम्भादिषु ४० तदन्धय-व्यतिरेकानुविधानस्योपलब्धिस्तदनुपलब्धेर्बाधकं प्रमाणम् । अथवा तत्कारणत्वं तदन्वय-व्यतिरेकानुविधानेन व्याप्तम्, तदभावे तत्कारणत्वासंभवात्तभावेऽपि भवतस्तत्कारणत्वे सर्व १पृ० २३ पं० ३६ । २ पृ० १०८ पं० ८। ३ पृ० १२१ ५० ३२ । ४-त्वेऽपि स-कां ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy