SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२० प्रथमे काण्डे-- सामग्री-फल-स्वरूपविशेषणपक्षत्रयेऽपोन्द्रियार्थसंनिकर्षजस्य तस्य प्रामाण्याभ्युपगमात्; तथा, "प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्" [वात्स्या० भा० पृ० १] इत्यत्र भाज्यम "प्रमातृ-प्रमेयाभ्यामर्थान्तरं प्रमितिलक्षणे फले साधकतमवद् इति अर्थः सहकारि प्रमाण प्रतिपादितम् , सहकारित्वं चाऽर्थस्य प्रमाणस्य फलजनने व्याप्रियमाणस्य फलजनकत्वेन तस्यापि ५सहायभावः. 'सह करोतीति सहकारि' इति व्युत्पत्तेः । न चासन्निहितस्यार्थस्याऽतीतस्याऽनागतस्य वा प्रमितिलक्षणफलजननं प्रति व्यापारः संभवति । न च प्रमित्यजनकोऽर्थः, तदभ्युपगमे न प्रमाणविषयान्यतः (तेत्यतः) सेन्द्रियशरीरजनितप्रत्यक्षज्ञानवत्त्वाभ्युपगमे महेशस्य न सकलकार्यकारणविषयज्ञानसंभवः, इति शरीरसंबन्धात् तस्य जगत्कर्तृत्वाभ्युपगमे तदकर्तृत्वमेव प्रसक्तम्, इति न तस्यादृश्यशरीरसंबन्धोऽभ्युपगन्तुं युक्तः ।। १० अपि च. घटादि कार्य दृश्यशरीरसंबद्धपुरुषपूर्वकमुपलब्धम् इत्यङ्करादि कार्यमपि तथा कल्पनीयम् । अथ तत्परिकल्पने प्रत्यक्षबाधाऽनवस्थादिदोषादरादिकार्यस्य कर्तृपूर्वकतैव विशीर्यत इति न तथाकल्पनम् । ननु तद्विव(तद्विश)रणे को दोषः? अथाङ्करादेः कार्यता अनेकॅकरणमात्राभावे समुपजायमानस्य तस्य अकार्यताप्रसक्तिः, न पुनः कर्तृभावे; अन्यथा गोपालघटिकादौ तत्कालाग्न्यभावे धूमस्याप्यभावप्रसक्तिः, न पुनः कर्तृभावेनाऽनलपूर्वकत्वं व्याप्तिग्रहणकाले धूमस्य १५प्रतिपन्नम् , तेन ततस्तत्र तत्कारणमनलाऽनुमानम् (?) । नन्वेवं कार्यमानं कारणमात्रपूर्वकत्वेन व्याप्तं व्याप्तिग्रहणकाले प्रतिपन्नमथुरादावुपलभ्यमानं कारणमात्रमिदमनुमापयतु न पुनर्बुद्धिमत्कारणविशेषम् , तेन कार्यमात्रस्य व्याप्तेरनिश्चयात् । न च दृश्यशरीरसंबद्धबुद्धिमत्कारणपूर्वकत्वं कार्यविशेषस्योपलब्धमङ्कुरादौ तु कार्यत्वमुपलभ्यमानं तथाभूतकर्तृपूर्वकत्वानुमाने तत्र प्रत्यक्षविरोध इत्यदृश्य संबद्धशरीरकतपूर्वकत्वमनुमापयतीति वक्तुं शक्यम्; तथाऽभ्युपगमे गोपालघटिकादावपि तत्का२० लादृश्याऽनलानुमापको धूमः किं न स्यात् ? न च वह्निरदृश्यो न संभवतीति वक्तुं शक्यम्, नायनरश्मिष्वदृश्यस्य तस्य सद्भावाभ्युपगमात् । अथाव्यवहितरूपोपलब्ध्यन्यथानुपपत्त्या तस्य तथाभूतस्य परिकल्पनम् नन्वेवं धूमसद्भावान्यथाऽनुपपत्त्या तत्र तस्य तथाभूतस्य किं न परिकल्प. नम्? अपि च, यथाऽनलस्य भास्वररूपसंबन्धित्वे सत्यपि तस्योद्भूतत्वाऽनुद्भूतत्वाभ्यां दृश्यत्वाऽदृश्यत्वे परिकल्प्येते तथा प्रासादाऽङ्करादीनां कार्यत्वे किं न परिकल्प्येते न्यायस्य समानत्वात् ? २५ तन्नादृश्यशरीरसंबन्धात् तस्याङ्करादिकार्योत्पादकत्वं युक्तम् । दृश्यशरीरसंबन्धात् तत्कर्तृत्वे उपलभ्यानुपलम्भात् कथं तस्य नाऽभावः? यत्तूक्तम् 'न च सर्वा कारण सामग्युपलब्धिलक्षणप्राप्ता' इत्यादि, तत् सत्यमेव; इदं त्वसत्यम्-'ईश्वरस्य कारणत्वेऽपि न तत्स्वरूपग्रहणं प्रत्यक्षेण, अदृष्टवत् कार्यद्वारेण तत्प्रतिपत्तेः' इति; अदृष्टप्रतिपत्ताविवेश्वरप्रतिपत्तो कार्यत्वादेतोर्निदोषस्याऽसंभवा. दिति प्रतिपादितत्वात् । ३० यत्तुक्तम् 'स्थावरेषु कत्रग्रहणं कभावात्, आहोस्विद् विद्यमानत्वेऽपि तस्याग्रहणमनुपलभ्यस्वभावत्वेन, एवं संदिग्धव्यतिरिक्तत्वे न कश्चिद्धेतुर्गमकः, धूमादेरपि सकलव्यक्त्याक्षेपेण व्यायु. पलम्भकाले न सकला वहिव्यक्तयो दृश्याः' इत्यादि यावत् 'सर्वमुत्पत्तिमत् कर्तृ-करणपूर्वक रएम् , तस्य सकृदपि तथादर्शनात् तजन्यतास्वभावः, तस्यैवं स्वभावनिश्चितावन्यतमाभावेऽपि कथं स्वभावः' इति, तदप्यसंगतम् । यतो यादग्भूतमेव घटादिकार्य तत्पूर्वकमुपलब्धं तस्य सकृ. १५दपि तथादर्शनात् तज्जन्यः स्वभावो व्यवस्थित इति तदन्यतमा वेऽपि तस्य भावे सकृदपि ततस्तद्भावो न स्यादिति युक्तं च ववम् न पुनस्तद्विलक्षणं भूरुहादिकं कर्तृ-करणपूर्वकं कदाचनाप्युपलब्धम् किन्तु कारणमात्रपूर्वकम्, अतस्तद्भा(तभा)वे तस्य भवतोऽहेतुकत्वैप्राप्ते १ अत्र पृ. १०९५० ३ गतपाठानुरोधेन 'भाष्ये' इति बोध्यम् । भाष्य-बा०, बा०। २-तरे प्रहा०, गु०, २०, वि., अ.। ३-स्य प्रमाणं ति प्रमा-हा. विना। ४-ति व्युत्पत्तेः मां, भां। ५-भ्युपगमने प्र-अ., हे., मा०, हा०, भां० ।-भ्युपगमा न प्र-वा०, बा० ।-भ्युपगमेने प्र-आ०, १०,गु०। ६-ता यतः से-अ.-तायन्यतः से-डे०, चं० ।-तात्यतः से-वा०, मां०, भां०। -कप्रमाकरणामागु०। ८ पृ. ९५पं. .। पृ० ९६ पं० २। १० पृ. ११७ पं.४। ११ पृ. १६५०५ । १२ पृ. १६ पं० १५। १३-ऽपि सरुदपि तत-कां०, मां। १४-तदभावो-मा। १५-सामाते-पा.बा.बिना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy