SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। ११३ स्मृतिसमवायीति चक्षुषा परिगतेऽर्थे तदुपदर्शितपूर्वव्यक्तिगतां जातिं संधास्यतीति, तदसत्; यतः सोऽपि न स्वतन्त्रतयाऽर्थग्राहकः किन्तु दर्शनसहायः । यदि पुनः स्वतन्त्र एवार्थग्राहकः स्यात् तथा सति स्वाप-मद-मूर्छादिष्वपि सर्वव्यक्त्यनुगतजातिप्रतिपत्तिः स्यात् । तस्मादात्माऽपि दर्शनसहाय एवार्थवेदी । दर्शनं च पुरःसन्निहितं व्यक्तिस्वरूपमनुसरति, नहि स्मृतिगोचरमपि पूर्वदृष्टव्यक्तिगतं जात्यादिकमिति न दर्शनसहायोऽपि तदनुसंधानसमर्थ आत्मा । अथ स्मरणोपनीतं जातिरूपमात्मा ५ तत्र संधास्यति; नन्वत्रापि स्मृतिः परिहृतपुरोवर्त्तिव्यक्तिदर्शनविषया पूर्वदृष्टमर्थमनुसरन्ती संलक्ष्यते। तत् कथं पुरोवर्तिनि अप्रवर्त्तमाना स्वविषयान् सामान्यादींस्तत्र संघटयितुं क्षमा ? तदस्मृतं च संघटनं कथमात्माऽपि कर्तुं क्षमः ? तथाहि-दर्शने सति द्रष्टरि तस्य स्वरूपे जाते तन्निमग्नं न स्मृतिकृतं स्मर्तृरूपं भाति । यदि तु भाति तथा सति द्रष्टुरूप एवासौ, न स्मर्ता । अथ स्मर्तृरूपे द्रष्टस्वरूपमनुप्रविष्टं प्रतिभाति, तथापि सत्तेवाऽसौ न द्रष्टा । अथ द्रष्टु-स्मर्तृस्वरूपे विविक्ते भातः, तथा सति १० तयोर्भेद इति नैकत्वम् । तथाहि-द्रष्टस्वरूपं दृग्विषयावभासि प्रतिभाति, स्मर्तृस्वरूपमपि पुंसः स्मृतिविषयमवतीर्णमवभाति; तत् कुतः पूर्वापरयोर्जाति-रूपयोः संधानम् ? .. पुनरुक्तम् 'स्मरतः पूर्वदृष्टार्थानुसंधानादुत्पद्यमाना मतिश्चक्षुःसंबद्धत्वे प्रत्यक्षम्' इति, एतदप्यसत् ; नेन्द्रियमतिः स्मृतिगोचरपूर्वरूपग्राहिणी, तत् कथं सा तत्संधानमात्मसात्करोति ? पूर्वटसंधानं हि तत्प्रतिभासनम्, तत्प्रतिभाससंबन्धे चेन्द्रियमतेः परोक्षार्थग्राहित्वात् परिस्फुटप्रतिभा-१५ सनम् असन्निहितविषयग्रहणं च, तत् कुतस्तयोरैक्यम् ? अथ परोक्षग्रहणं स्वात्मना नेन्द्रियमतिः संस्पृशति, एवं तर्हि तद्विविक्तेन्द्रियमतिरिति कथं तत्संधायिका सामग्री अभ्युपेयते? यदि च स्मृतिविषयस्वभावतया दृश्यमानोऽर्थः प्रत्यक्षबुद्धिमिरवगम्यते, तथा सति स्मृतिगोचरः पूर्वस्वभावो वर्तमानतया भातीति विपरीतख्यातिः सर्व दर्शनं भवेत् । अथ यत् तदा तत्राविद्यमानमर्थमवैति शानं तत्र विपरीतख्यातिः, प्रत्यक्षप्रतीतिस्तु पूर्वसंधानादप्युपजायमाना पुरः सदेव २० वस्तु गृह्णती कथं विपरीतख्यातिर्भवेत् ? ननु पूर्वरूपग्राहितया तस्याः सदर्थग्रहणमेव न संभवति; स्मरणोपनेयं हि रूपं प्रतियती वर्तमानतया प्रत्यक्षबुद्धिर्न प्रतिभासमानवपुषः सत्तां साधयितुमलम्, प्रत्यस्तमितेऽपि रूपे स्मृतेरवतारात् । तदनुसारिणी चाक्षमतिरपि तदेवानुसरन्ती न सत्ताऽऽस्पदम् । तस्मादिन्द्रियमतिः सकला पूर्वरूपग्रहणं परिहरन्ती वर्तमाने परिस्फुटे वर्तत इति तदैव तद्गतां जातिमुद्भासयितुं प्रभुरिति न पूर्वापरव्यक्तिगता जातिः समस्ति । यदेव हि द्वितीयव्य-२५ क्तिगतं रूपं भाति तदेव सत्, पूर्वव्यक्तिगतं तु रूपं न भातीति न तत् सत् । ततश्चानेकन्यक्तिव्यापिकाया जातेरसिद्धिरिति न तत्र लिङ्ग-शब्दयोरपि प्रवृत्तिरिति न ताभ्यामपि तत्प्रतिपत्तिः । यथा च व्यक्तिभिन्नाऽनुस्यूता जातिर्न संभवति तथा यथास्थानं प्रतिपादयिष्यत इत्यास्तां तावत् । तदेवं सत्ता-समवाययोः परपरिकल्पितयोरसिद्धेः 'प्रागसतः कारणसमवायः सत्तासमवायो वा कार्यत्वम्' इति कार्यत्वस्यासिद्धत्वात् स्वरूपासिद्धोऽपि कार्यत्वलक्षणो हेतुः }। ३० अथ स्यादेष दोषो यदि यथोक्तलक्षणं कार्यत्वं हेतुत्वेनोपन्यस्तं स्यात्, यावताऽभूत्वा भवनलक्षणं कार्यत्वं हेतुत्वेनोपन्यस्तं तेनायमदोषः । नन्वेवमपि भू-भूधरादेः कथमेवंभूतं कार्यत्वं सिद्धम् ? अथ यदि अत्र विप्रतिपत्तिविषयता तदाऽनुमानतस्तेषु कार्यत्वं साध्यते, तच्चानुमानम्-'भू-भूधरायः कार्यम् , रचनावत्त्वात् , घटादिवत्' इति कथं न तेषु कार्यत्वलक्षणो हेतुः सिद्धः ? असदेतत्; यतोऽत्रापि प्रयोगे भू-भूधरादेरवयविनोऽसिद्धराश्रयासिद्धः 'रचनावत्त्वात्' इति हेतुः, तदसिद्धत्वं च प्राक् ३५ प्रतिपादितम् । किश्च, { किमिदं रचनावत्त्वम् ? यदि अवयवसन्निवेशो रचना तद्वत्त्वं च पृथिव्यादेस्तदुत्पाद्यत्वम् तदाऽवयवसन्निवेशस्य संयोगापरनानोऽसिद्धत्वादसिद्धविशेषणो रचनावत्वादिति हेतुः । तथा, पृथिव्यादिषु संयोगजन्यत्वस्य विशेष्यस्यासिद्धत्वादसिद्धविशेष्यश्च प्रकृतो हेतुः। कथं संयोगासिद्धत्वम् येनोक्तदोषदुष्टः प्रकृतो हेतुः स्यात् ? उच्यते, तग्राहकप्रमाणाभावात ४० बाधकप्रमाणोपपत्तेश्च । तथाहि [प्रासङ्गिक संयोगस्य निरसनम् ] "संख्या-परिमाणानि पृथक्त्वम् संयोग-विभागौ परत्वाऽपरत्वे कर्म च रूपि(द्रव्य)समवायाचा. क्षुषाणि" [वैशेषिकद०४-१-११] १-यमाने परो-गु०। २-शति पतर्हि त-गु०। ३ पृ० १०२ पं० ११ । स० त०१५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy