SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । तस्य स्यात् तदा युक्तमेतत् न च प्रत्यक्षप्रमाणे तत्स्वरूपावभासः - नहि तदात्मा, ज्ञानम् तत्समवायश्चेति त्रितयमिन्द्रियजाध्यक्षगोचरः, नापि स्वसंवेदनाध्यक्ष विषयः, तस्य भवताऽनभ्युपगमात् । नाप्येकार्थसमवेतानन्तरमनोऽध्यक्षविषयः, तस्य प्रागेव निषिद्धत्वात् । न च बाह्येष्वपि घट- रूपा दिष्वर्थेषु 'अयं घटः, एते च तत्समवेता रूपादयः, अयं च तदन्तरालवर्त्ती भिन्नः समवायः' इति त्रितयमध्यप्रतीतौ विभिन्नस्वरूपं प्रतिभाति । तत्प्रतिभाने वा द्रव्य-गुण-समवायानामध्यक्ष सि. ५ त्वाद् विभिन्नस्वरूपतया न गुणगुणिभावे समवाये वा कस्यचिद् विवादः स्यात् नाप्येकत्ववि भ्रमो घट-रूपादीनाम्, ततश्च तन्निराकरणार्थ शास्त्रप्रणयनमपार्थकं स्यात् । ननु यथा प्रत्यक्षेण प्रतिपन्नेऽप्यनेकान्ते जैनेन, स्वलक्षणे वा बौद्धेन स्वदुरागमाहितवासनावलाल्लोकस्य तेन तदप्रतिपन्नताविभ्रमः तन्निराकरणार्थे च शास्त्रप्रणयनम् तथाऽत्रापि स्यादिति तर्हि तथाविधशास्त्ररहितानामबला - बालादीनां न समवाय प्रत्यक्षताविभ्रम इति तेषां 'शुक्लः पटः' इति प्रतीतिर्न स्यात्, अपि १० तु 'अयं पटः, एते शुक्लादयो गुणाः, अयं च तदन्तरालवर्त्ती अपरः समवायः' इति प्रतीतिः स्यात् । अथ समवायस्य सूक्ष्मत्वात् प्रत्यक्षत्वेऽप्यनुपलक्षणात् तत्रस्थत्वेन रूपादीनामुपचारात् 'शुक्लः पटः' इति प्रतिपत्तिः स्यात्, नैतत्; एवं दण्डेऽपि 'पुरुषः' इति प्रतिपत्तिः स्यात् । उपचाराश्चेयं प्रतिपत्तिरुपजायमाना स्खलद्रूपा स्याद् वाही के गोबुद्धिवत् । न च 'समवेतमिदं वस्तु अत्र' इति प्रतिपत्तौ विशेषणभूतः समवायः प्रतिभातीति वक्तुं युक्तम, बहिष्प्रतिभासमानरूपादिव्यतिरेकेण १५ अन्तश्चाभिजल्पमन्तरेणापरस्य वर्णाकृत्यक्षराकारशून्यस्य ग्राह्याकारतां विभ्राणस्य वहिः समवाय स्वरूपस्याप्रतिभासनात् । वर्णाद्याकाररहितं च परैः समवायस्वरूपमभ्युपगम्यते । न च तत्कल्पनाबुद्धावपि प्रतिभाति । न चान्यादृशः प्रतिभासोऽन्यादक्षस्यार्थस्य व्यवस्थापकः, अतिप्रसङ्गात् । तन्न समवायोऽध्यक्ष प्रमाणगोचरः । १०७ यस्त्वाह- "नित्यानुमेयत्वात् समवायस्यानुमानगोचरता, तेनायमदोष इति । तच्चानुमानम् - २० 'इह तन्तुषु पटः' इति बुद्धिस्तन्तु - पटव्यतिरिक्तसंबन्धपूर्विका, 'इह' इति बुद्धित्वात् इह कंसपात्र्यां जलबुद्धिवत्" [ ] इत्येतत् सोऽप्ययुक्तवादी; 'समवायस्यान्यस्य वा पदार्थस्य नित्यैकरूपस्य कारणत्वासंभवात् क्वचिदपि' इति प्रतिपादयिष्यमाणत्वात् । न च 'तन्तुषु पटः, शृङ्गे गौः, शाखायां वृक्षः' इति लौकिकी प्रतीतिरस्ति, 'पटे तन्तवः, गवि शृङ्गम्, वृक्षे शाखा' इत्याकारेण प्रतीत्युत्पत्तेः संवेदनात्, तस्याश्च समवायनिबन्धनत्वे तन्त्वादीनां पटाद्यारब्धत्वप्रसङ्गः । २५ किंच, समवायस्य समवायिभिरनभिसंबन्धे तस्य तत्र “संवैद्धबुद्धिजननं तेषां संबन्ध एव च" [ ] इति च न युक्तम्, न हि दण्ड- पुरुषयोः संयोगः सह्य- विन्ध्याभ्यामनभिसंबन्ध्यमानस्तत्र संबन्धबुद्धिहेतुः तत्संबन्धो वा । तैस्तदभिसंबन्धे वा स्वतः द्रव्य-गुण-कर्मणां स्वाधारैः स्वतः संबन्धः किं न स्यात् यतः समवायपरिकल्पनाऽऽनर्थक्यमनुवीत ? 'इह समवायिषु समवायः' इति च बुद्धिरपरनिमित्तिका प्रकृतस्य हेतोरनैकान्तिकत्वं कथं न साधयेत् ३० स्वतस्तत्संबन्धाभ्युपगमे ? समवायान्तरेण तस्य तदभिसंबन्धेऽनवस्थालता गगनतलावलम्बिनी प्रसज्येत । विशेषणविशेष्यभावलक्षणसंबन्धबलात् तस्य तदभिसंबन्धे तस्यापि तैः संबन्धोऽपरविशेषणविशेष्यभावलक्षणसंबन्धबलाद् यदि सैवानवस्था । समवायवलात् तस्य तत्संबन्धे व्यक्तमितरेतराश्रयत्वम् । स्वतस्तैस्तस्याभिसंबन्धे बुद्ध्यादीनामपि स्वत एव स्वाधारैः संबन्धो भविष्यतीति व्यर्थे संबन्धपरिकल्पनम् । तन्न समवायः कस्यचित् प्रमाणस्य गोचरः । पुनरपि चैनं ३५ यथास्थानं निषेत्स्याम इति आस्तां तावत् । तदेवं बुद्धेस्तदात्मनो व्यतिरेके संबन्धासिद्धेर्मतुबर्थानुपपत्तिः । अथ अव्यतिरिक्ता तदात्मनस्तद्बुद्धिस्तथाऽपि तदनुपपत्तिः, न हि तदेव तेनैव तद्वद् भवति किंच, तदात्मनस्तद्बुद्धे व्यतिरेके यदि तदात्मनि तद्बुद्धेरनुप्रवेशस्तदा वुद्धेरभावाद् बुद्धिविकलो गगनादिवद् जडस्वरूपस्तदात्मा कथं जगत्स्रष्टा स्यात् ? बुद्ध्यादिविशेषगुणगणवैकल्ये च तदा ४० त्मनोऽस्मदाद्यात्मनोऽप्यात्मत्वेन तद्वैकल्याद् मुक्तात्मन इव संसारित्वं न स्यात्, नवानां विशेषगुणानामात्यन्तिकक्षयोपेतस्यात्मनो मुक्तत्वाभ्युपगमात् तस्य चास्मदाद्यात्मस्वपि समानत्वात् १ पृ० ८४ पं० २० । २ - कतावि - भां० । ३ - पत्तिः, नैत-कां०, गु०, वा०, बा० । ४ " पदार्थे” वि० टि० । ५-संबन्ध-गु०, वि० । ६ एव वचनं युक्तम् । नहि दण्ड-भां०, मां० तत्संबुद्धौ वा०, बा० विना । ७
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy