SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेतिरिक्तस्य समनन्तरप्रत्ययत्वस्यैवमुच्यते कथं तन्निबन्धना व्यवस्था ? तथाहि-एकस्यां सन्ततौ परसन्ततिगतेन विज्ञानेन तुल्येऽपि जनकत्वे समनन्तरप्रत्ययत्वेन जननविशेषमङ्गीकृत्यैकसन्तानव्यवस्था क्रियते, यदा तु व्यवस्थानिबन्धनस्यापि सांवृतत्वं ततस्तत्कृताया व्यवस्थायाः परमार्थसत्त्वं दुर्भणमिति । अयमपि सौगतानां दोषो न जैनानाम्, यतो 'ज्ञानपूर्वकत्वं ज्ञानस्य, स्वसंवेदनं च ५शानस्य स्वरूपम्' इत्येतत् प्राक् प्रतिसाधितम् । यच्चोक्तम् 'अतजातीयादपि भावानामुत्पत्तिदर्शनाद् , यथा धूमादेः' इत्यपि न संगतम्, यतो नास्माभिरतजातीयोत्पत्ति भ्युपगम्यते-विलक्षणादपि पावकात् धूमोत्पत्तिदर्शनात्-किन्तु कारणगतधर्मानुविधानं कार्यत्वाभ्युपगमनिवन्धनम्। तच्च ज्ञानस्य प्रदर्शितं प्राक् । न च काय-विज्ञानयोरिवानल-धूमयोः सर्वथा वैलक्षण्यम्, पुद्गलविकारत्वेन द्वयोरपि सादृश्यात् । सर्वथा सादृश्ये च १० कार्यकारणभावाभावप्रसङ्गः एकत्वप्राप्तेः । यत्तु 'सदृशतादृशविवेकः कार्यनिरूपणायामपि दुर्लभः' तत्र यः कार्यदर्शनादपि विवेकं नावधारयितुं क्षमस्तस्यानुमानव्यवहारेऽनधिकार एव । तदुक्तम्___ "सुविवेचितं कार्य कारणं न व्यभिचरति, अतस्तदवधारणे यत्नो विधेयः” [ ] अत एव 'रूपादीनां हि रूपादिपूर्वकत्वेन वा' इत्यादि अनभिमतोपालम्भमात्रम्, कथञ्चित् सादृश्यस्य कार्य-कारणयोर्दर्शितत्वात् तस्य च प्रकृते प्रमाणसिद्धत्वात् । १५ यच्च 'सुप्त-मूर्च्छिताद्यवस्थासु विज्ञानाभावेन तत्पूर्वकत्वमुत्तरज्ञानस्य न संभवति' इत्यभ्यधायि, तदसत्; तदवस्थायां विज्ञानाभावग्राहकप्रमाणासंभवात् । तथाहि-न तावत् सुप्त एव तदवस्थायां विज्ञानाभावं वेत्ति, तदा विज्ञानानभ्युपगमात्; तदवगमे च तस्यैव ज्ञानत्वाद् न तदवस्थायां तदभावः । नापि पार्श्वस्थितोऽन्यस्तदभावं वेत्ति, कारण-व्यापक-स्वभावानुपलब्धीनां विरुद्धविधेर्वाऽत्र विषयेऽव्यापारात् अन्यस्य तदभावावभासकवायोगात् । न चाभाववत् तद्भावस्यापि तस्या२० मवस्थायामप्रतिपत्तिः, स्वात्मनि" स्वसंविदितविज्ञानाविनाभूतत्वेन निश्चितस्य प्राणाऽपानशरीरोष्णसाकारविशेषादेस्तदवस्थायामुपलभ्यमानलिङ्गस्य सद्भावेनानुमानप्रतीत्युत्पत्तेः । जाग्रदवस्थायामपि परसन्ततिपतितचेतोवृत्तेरस्मदादिभिर्यथोक्तलिङ्गदर्शनोद्भूतानुमानमन्तरेणाप्रतिपत्तेः । 'न किञ्चिच्चेतितं मया इति स्मरणादुत्तरकालभाविनस्तदवस्थायामनुभवानुमाने किं वस्त्वसंवेदनम् , स्वरूपासंवेदनं वा' इत्यादि यद् दूषणमभिहितम् , तदप्यसारम् जाग्रदवस्थाभाविस्वसंविदितगच्छत्तृणस्पर्शज्ञानाऽश्व२५ विकल्पसमयगोदर्शनादिषूत्तरकालभावि 'न मया किश्चिदुपलक्षितम्' इति स्मरणलिङ्गबलोद्भूतानुमानविषयेष्वप्यस्य समानत्वात् । न च स्वसंविदितविज्ञानवादिनोऽत्रापि समानो दोष इति वक्तुं युक्तम् , “यस्य यावती मात्रा" [ ] इति स्वसंविदितज्ञानस्याभ्युपगमात्। यश्च 'समनन्तरसहकारित्वाद्यनेकधर्मयुक्तत्वमेकक्षणे ज्ञानस्यासज्यते' इति प्रतिपादितम् तदभ्युपगम्यमानत्वेनादूषणम् । अतः पौर्वापर्यव्यवस्थितहर्ष-विषादाद्यनेकपर्यायव्याप्येकात्मव्यतिरेकेण ३० ज्ञानयोः स्वसन्तानेऽप्यनुसन्धाननिमित्तोपादानोपादेयभावासंभवाद् न परसन्तानवदनुसंधानप्रत्ययः स्यात्, दृश्यतेच; अतोऽनेकत्वव्यावृत्तादनुसन्धानप्रत्ययादपि लिङ्गादात्मसिद्धिः। अथापि स्याद् गमकत्वं हि हेतोः स्वसाध्याविनाभावग्रहणपूर्वकम्, तद्ब्रहणं च धर्म्यन्तरे, न चात्रैककर्तृकत्वेन साध्यधर्मिव्यतिरिक्ते धर्म्यन्तरे प्रतिसन्धानस्य व्याप्तिः येन प्रतिसन्धानादेकः कर्ताऽनुमीयेत । अथ ब्रूषे क्षणिकतासाधकस्य सत्ताख्यस्य हेतोर्यथा धर्म्यन्तरे व्याप्त्यग्रहणेऽपि ३५ गमकता तद्वदस्यापि, एतदचारु; तस्य हि क्षणिकतायां प्राक् प्रत्यक्षेण निश्चयानिश्चयविषयेण च व्याप्तेर्दर्शनाद् विपक्षात् प्रच्यावितस्य बाधकप्रमाणेन साध्यधर्मिणि यदवस्थानं तदेव स्वसाध्येन व्याप्तिग्रहणम् । अत एवास्य हेतोः साध्यधर्मिण्येव व्याप्तिनिश्चयमिच्छन्ति। ननु व्याप्ति-साध्यनिश्चययोनियमेन पौर्वापर्यमभ्युपगन्तव्यम्, व्याप्तिनिश्चयस्य साध्यप्रतिपत्त्यङ्गत्वात्। अत्र तु साध्यधर्मिणि व्याप्तिनिश्चयाभ्युपगमे साध्यप्रतिपत्तिकालोऽन्योऽभ्युपगन्तव्यः, न चासावन्योऽनुभूयते; अस्त्येतत् १-यत्वे जननं वि-वा०, बा०। २ पृ. ८९ पं० २१ । ३ इत्यादि, तदपि न मां० ब० । ४ पृ. ७७ पं० २८। ५८९ पं० २४ । ६ पृ. ८९ पं० २६ । संभवीत्यभिधायि वि०, भा०, कां०, गु०। संभवतीत्यमिधा-मां०, भां०। ८ पृ० ८९५० १८। ९-वोऽपि । मां०। १० पार्श्वे स्थितो-गु० । ११-नि संवि-मां०। १२-रोत्तानाकार-कां०। १३ पृ० ८९ पं० ३४ । १४ पृ. ८८ पं० ३१ । १५-पत्तेःका-कां।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy