SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेइदमत्रोपादानकारणम् इदं च सहकारिकारणम् इति, द्वयोरपि कार्येणानुविहितान्वय-व्यतिरेकत्वात्? अथ सत्यप्यन्वय-व्यतिरेकानुविधाने एकस्योपादानत्वेन जनकत्वमपरस्यान्यथेतिः नन्वेतदेवोपादानभावेन जनकत्वं कस्यचिद रूपस्याननुगमे प्राग्भावित्वमात्रेण दुरवसेयम। अथाभिहितमेवोपादानकारणत्वस्य लक्षणं तदवगमात् कथं तद् दुरवसेयम् । सत्यम्, उक्तम् न तु कस्यचिद् रूपस्यान५नुगमे तत् संभवति । नाप्यवसातुं शक्यम्। तथाहि-यत् स्वगतविशेषाधायकत्वमुपादानत्वमुक्तं तत् किं स्वगतकतिपयविशेषाधायकत्वम्, आहोस्वित सकलविशेषाधायकत्वम् इति ? तत्र यदि प्रथमः पक्षः, सन युक्तः सर्वज्ञज्ञाने स्वाकारार्पः कस्यास्मदादिविज्ञानस्य तं प्रत्युपादानभावप्रसङ्गात् । तथा, रूपस्यापि रूपज्ञानं प्रत्युपादानभावप्र सक्तिः, तस्यापि स्वगतकतिपयविशेषाधायकत्वात् : अन्यथा निराकारस्य बोधस्य सर्वान् प्रत्यविशेषाद् १० 'रूपस्यैवायं ग्राहको न रसादेः' इति ततः प्रतिकर्मव्यवस्था न स्यात् । रूपोपादानत्वे च ज्ञानस्य परलोकाय दत्तो जलाञ्जलिः स्यात् । किञ्च, कतिपयविशेषाधायकत्वेनोपादानत्वे एकस्यैवं ज्ञानक्षणस्य तत्कार्यानुगत-व्यावृत्तानेकधर्मसम्बन्धित्वाभ्युपगमे विरुद्धधर्माध्यासोऽभ्युपगतो भवति; तथा च यथा युगपद्भाव्यनेकविरुद्धधर्माध्यासेऽप्येकं विज्ञानं तथा क्रमभाव्यनेकतद्धर्मयोगे किमित्येकं नाभ्युपगम्येत? १५ अथ सकलविशेषाधायकत्वेन, न तर्हि निर्विकल्पकात् सविकल्पकोत्पत्तिः। न च निर्विकल्पक योरप्युपादानोपादेयत्वेनाभ्युपगतयोस्तद्भावः स्यात्, तथा च कुतो रूपाकारात् समनन्तरप्रत्ययात् कदाचिद् रसाद्याकारस्याप्युपादेयत्वेनाभिमतस्योत्पत्तिः? अथ विज्ञानसन्तानबहुत्वाभ्युपगमाद् नाऽयं दोषः-तेन सर्वस्य स्वसदृशस्योत्पत्तिः-तहस्मिन् दर्शने एकस्मिन्नपि सन्ताने प्रमातृनानात्वप्रसङ्गः, तथा च गवाऽश्वदर्शनयोभिन्नसन्तानवर्तिनो२० रेकेन दृष्टेऽर्थेऽपरस्यानुसन्धानं न स्यात्, देवदत्त-यज्ञदत्तसन्तानगतयोरिवान्येनानुभूतेऽन्यस्य । दृश्यतेच “गामहं ज्ञातवान् पूर्वमश्वं जानाम्यहं पुनः" [ श्लो० वा० सू०५, आत्म० श्लो० १२२]। किञ्च, सकलस्वगतविशेषाधायकत्वे सर्वात्मनोपादेयज्ञानक्षणे तस्योपयोगाद् अनुपयुक्तस्यापरस्वभा वस्याभावाद् योगिविज्ञानम् रूपादिकं चैकसामग्र्यन्तर्गतं प्रति न सहकारित्वं तस्येति सहकारि२५ कारणाभावे नोपादेयक्षणव्यतिरिक्तकार्यान्तरोत्पादः। अथ येषां कारणमेव कार्यतया परिणमति तेषां भवत्वयं दोषो नत्वस्माकं प्राग्भावमात्रं कारणत्वमभ्युपगच्छताम् । नन्वत्रापि मते येन स्वरूपेण विज्ञानमुपादेयं विज्ञानान्तरं जनयति किं तेनैव रूपमेकसामग्र्यन्तर्गतम् , उत स्वभावान्तरेण? तत्र यदि तेनैव तदा रूपमपि ज्ञानमुपादेयभूतं स्यात् , तत्स्वभावजन्यत्वात् तदुत्तरज्ञानक्षणवत् । अथ स्वभावान्तरेण तदोपादानाभिमतं ज्ञानं ३० द्विस्वभावमासज्यते । यथा चोपादान-सहकारिस्वभावरूपद्वययोगस्तथा त्रैलोक्यान्तर्गतान्यजन्यकार्यान्तरापेक्षया तस्याजनकत्वमपि स्वभावःः ततश्चैकत्वं ज्ञानक्षणस्य यथोपादान-सहकार्यऽजनकत्वानेकविरुद्धधर्माध्यासितस्याभ्युपगम्यते तथा हर्ष-विषादाद्यनेकविवर्त्तात्मनस्तत्सन्तानस्याप्यभ्युपगन्तव्यम्। अथोपादान-सहकार्यऽजनकत्वादयो धर्मास्तत्र कल्पनाशिल्पिकल्पिताःः एकत्वं तु तस्य स्वसंवेदनाध्यक्षसिद्धमिति न तैस्तदपनीयत इति मतिस्तात्मनोऽप्येकत्वं सन्तानशब्दाभिधेयतया प्रसिद्धस्य ३५ स्वसंवेदनाध्यक्षसिद्धस्य क्रमवद्धर्प-विषादादिकार्यदर्शनाऽमीयमानतदपेक्षजनकत्वाऽजनकत्वधर्मापनेयं न स्यात् । तन्न स्वगतसकलधर्माधायकत्वमुपादानत्वं भवदभ्युपगमेन सङ्गतम् । नापि सन्ताननिवृत्त्या कार्योत्पादकत्वस्वभावम् , तथाऽभ्युपगमे शानसन्ताननिवृत्तेः परलोकाभावप्रसङ्गः। ____ अथ समनन्तरप्रत्ययत्वमुपादानन्वमुच्यते । तथाहि-समस्तुल्यः, अनन्तरोऽव्यवहितः, १-स्थानुगमे कां०, भां०। २ पृ. ८७ पं० ३१ । पृ० ८ ७ पं० ३२। ४ सर्वज्ञाने स्या-मां०, भां०। ५-वच ज्ञा-मां०, भां०।-वृत्त्याने-मां०, भां। तर्हि निर्विकल्पकोत्पत्तिः । वा०, वा० । ८-ल्पक-सविकल्पकयो-चा.. वा. विना। ९-शानरूपा-मां०, भां०। १० नास्माकं भां०,गु०, वा०, बा०, मां०। ११-जन्मन्वा-मां०, भां० । १२ हर्षादिविव-वा०, बा०। १३-नुमीयमानं तदपेक्ष-वा०, बा. विना सर्वत्र ।-नुनीयमानं तदपेक्ष-कां ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy