SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेनस्य विषयस्यैव केवलस्यावभासनम्' इति, तदत्यन्तमसङ्गतम् ; विषयस्येव तदवभाससंवेदनस्यापि व्यवस्थापितत्वात् तदभावे विषयावभास एव न स्यादित्यस्य च । अतः प्रमात्रवभास उपपन्न एव । न च 'कृशोऽहं स्थूलोऽहम् इति शरीरसामानाधिकरण्येनास्य प्रत्ययस्योपपत्तस्तदालम्बनता, चक्षुरादिकरणव्यापाराभावे शरीरस्याग्रहणेऽपि 'अहम्' इतिप्रत्ययस्य सुखादिसमानाधिकरणत्वेन ५परिस्फुटप्रतिभासविषयत्वेनोन्पत्तिदर्शनाद् न शरीरालम्बनत्वमस्य व्यवस्थापयितुं युक्तम् । न च 'कृशोऽहम्' इति प्रत्ययस्य भ्रान्तत्वे 'शानवानहम्' इति ज्ञानसामानाधिकरण्येनोपजायमानस्यापि प्रत्ययस्य भ्रान्तत्वं युक्तमः अन्यथा 'अग्निर्माणवकः' इति माणवकेऽग्निप्रत्ययस्योपचरितविषयस्य भ्रान्तत्वेऽग्नावपि तत्प्रत्ययस्योपचरितन्वेन भ्रान्तत्वं स्यात् । अथ तत्र पाटव-पिङ्गलस्वादिलक्ष णस्योपचारनिमित्तस्य सद्भावाद् भवति तत्रोपचरितः प्रत्ययः न चात्रोपचारनिवन्धनं किश्चिदस्ति, १० तदप्यसङ्गतम् ; संसार्यात्मनःशरीराद्युपकृतत्वेन तदनुबद्धस्योपभोगाश्रयत्वेनोपभोगकर्तृत्वस्यात्राप्य पचारनिमित्तस्य सद्भावात् । दृष्टश्च शरीरादिव्यतिरिनेऽप्यत्यन्तोपकारके स्वभृत्यादावुपचरितस्त. निमित्तः 'योऽयं भृत्यः सोऽहम् इति प्रत्ययः। न च सुखादिसामानाधिकरण्येनोपजायमानस्यैवाहंप्रत्ययस्योपचरितविपयतेति वक्तुं शक्यम्, अग्नावग्निप्रत्ययवबाधितत्वेनास्खलद्रूपत्वेन चास्याऽत्र मुख्यत्वात् : गौरत्वादेस्तु पुद्गलधर्मत्वेन १५बाह्येन्द्रियग्राह्यतया अन्तमुखाकारानिन्द्रियाहंप्रत्ययविषयत्वासंभवात् । न च गौरत्वादिरूपाश्रय. भूतस्य प्रतिक्षणविशरारुत्वेनाभ्युपगमविषयस्य शरीरस्य 'य एवाहं प्राग् मित्रं दृष्टवान् स एवाहं वर्षपञ्चकादिव्यवधानेन स्पृशामि'इति स्थिरालम्बनत्वेनानुभूयमानप्रत्यय विषयत्वं युक्तम्: अन्यथा रूपविषयत्वेनानुभूयमानस्य तस्य रसाद्यालम्बनत्वं स्यात् । न च सुखादिविवर्त्तात्मकामालम्बनत्वे किञ्चिद् वाधकमुत्पश्यामः येन तद्विपयत्वेनास्य भ्रान्तन्वं स्यात् । नापि तत्र तस्य स्खलदूपता येन २०वाहीके गोप्रत्ययस्येवोपचरितत्वकल्पना युक्तिमती स्यात् । तस्मादबाधितास्खलदरूपाऽहंप्रत्ययग्रा ह्यत्वादात्मनो नासिद्धिः। शेषस्तु पूर्वपक्षग्रन्यो निःसारतया न प्रतिसमाधानमहतीत्युपेक्षितः ॥ __न चात्र बौद्धमतानुसारिणेतद् वक्तुं युज्यने-अहंप्रत्ययस्य सविकल्पकत्वेनाप्रत्यक्षत्वेन न तद्राह्यन्वमात्मन इति, सविकल्पकस्यैव प्रत्यक्षस्य प्रमाणन्वेन व्यवस्थापयिष्यमाणत्वात् : प्रत्यक्षविषयत्वेऽपि विप्रतिपत्तिसंभवेऽनुमानस्यावतारः । न च 'सिद्धे आत्मन एकत्वे तत्प्रतिवद्धोऽनुसन्धानप्रत्ययः २५ सिध्यति, तत्सिद्धौ च ततस्तस्यैकत्वम् इतीतरेतगश्रयदोषावतारः: 'य एवाहं घटमद्राक्षं स एवेदानीं तं स्पृशामि' इति प्रत्ययात् प्रत्यभिज्ञाप्रत्यक्षस्वरूपादात्मन एकत्वसिद्धः। न चात्रैतत् प्रेर्यम्-द्रष्टरूपमात्मनः स्प्रष्टरूपानुप्रवेशेन प्रतिभासते, आहोस्विदननुप्रवेशेन ? यद्यनुप्रवेशेन तदा द्ररूपस्य स्प्रट्टरूपेऽनुप्रवेशात् स्पष्टरूपतेवेति न द्रष्टरूपता तथा च 'अहं द्रष्टा स्पृशामि' इति कुत उभयावभासोल्लेख्येकं प्रत्यभिज्ञानं यतस्तदेकत्वसिद्धिः ? अथाननुप्रवेशेन तदा ३० दर्शन-स्पर्शनावभासयोर्भेदात् कुत एकं प्रत्यभिज्ञानम् ? नहि प्रतिभासभेदे सत्यप्येकत्वम् , अन्यथा घट-पटप्रतिभासयोरपि तत् स्यात् । अथ प्रतिभासस्यैवात्र भेदो न पुनस्तद्विपयस्यात्मनः, कुतः पनस्तस्याभेदः? न तावत् प्रतिभासाभेदात, तस्य भिन्नन्वेन व्यवस्थापितत्वात् । नापि स्वतः, स्वतोऽद्यापि विवादविषयत्वात् । अथ दर्शन-स्पर्शनावस्थाभेदेऽपि चिद्पस्य तदवस्थातुरभिन्नत्वान्नायं दोषः, तदप्यसङ्गतम् ; यतो दर्शनावस्थाप्रतिभासेन तत्संबद्धमेवावस्थातरूपं गृहीतं न स्पर्शनज्ञानसं३५बन्धि, तत्र तदवस्थाया अनुत्पन्नत्वेनाप्रतिभासनात् तदप्रतिभासने च तद्यापित्वेनावस्थातुरप्यप्रति भासनात् । नापि स्पर्शनप्रतिभासेन दर्शनावस्थाव्याप्तिरवस्थातुरवगम्यते, स्पर्शनशाने दर्शनस्य विनष्टत्वेनाप्रतिभासनात् : प्रतिभासने चाऽनाद्यवस्थापरम्पराप्रतिभासप्रसङ्गः।न च प्रागवस्थाऽप्रतिभासने तदवस्थाव्याप्तिरवस्थातुरवगन्तुं शक्या । यञ्च येन रूपेण प्रतिभाति तत् तेनैव सदित्यभ्युप गन्तव्यम् , यथा नीलं नीलरूपतया प्रतिभासमानं तेनैव रूपेणाभ्युपगम्यते । दर्शन-स्पर्शनशानाभ्यां ४०च स्वसंबन्धित्वमेवावस्थातुगृह्यते इति तदरूप एवासावभ्युपगन्तव्य इति कुतोऽवस्थातृसिद्धिः? यतो नीलप्रतिभासेऽप्येवं वक्तुं शक्यम्-किमेकनीलज्ञानपरमाण्ववभासोऽपरतन्नीलझानपरमा १-म् गौरोऽहम्' इ-मां०, भां० । २-क्षरूपा-मां०, भा०, बा०, वा०। ३-पतैव न मा०, भा०, बा०, वा०। ४-भासात् त-मां०, भां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy