SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे स्वसंवित्तिमात्रवादः साधीयान् यदि तन्तिर्निलीनो वोधो नीलादेन बोधकः किन्तु स्वप्रकाश एवासों; तथा सति 'नीलमहं वेद्मि' इति कर्म-कर्तृभावाभिनिवेशी प्रत्ययो न भवेत, विषयस्य कर्मकर्तृभावस्याभावात् । ननु विषयमन्तरेणापि प्रत्ययो दृष्ट एव, यथा शुक्तिकायां रजतावगमः । अथ बाधकोदयात् पुनर्भ्रान्तिरसौ, नीलादौ तु कर्मतादेर्न बाधाऽस्तीति सत्यता । नन्वत्रापि बोध-नीलादेः ५स्वरूपासंसक्तस्य द्वयस्य स्वातन्योपलम्भोऽस्ति वाधकः कर्म-कर्तृभावोल्लेखस्य।अथ किमस्या भ्रान्तेर्नि: बन्धनम? नहि भान्तिरपि निर्वीजा भवतिः नन पूर्वेभ्रान्तिरेवोत्तरकर्म-कर्तृभावावगतेनिबन्धनमः पूर्वभ्रान्तिकर्मतादेरपि अपरा पूर्वभ्रान्तिरित्यनादिन्तिपरम्पग, कर्मतादिर्न तत्त्वम् ।। अथवा 'नीलम्' इति प्रतीतिस्तावन्मात्राध्यवसायिनी पृथक्, 'अहम्' इत्यपि मतिरन्तरुल्लेखमु. द्वहन्ती मिन्ना, 'वेद्मि' इत्यपि प्रतीतिरपरैवः ततश्च परस्परासंसक्तप्रतीतित्रितयं क्रमवत् प्रति१० भाति न कर्म-कर्तृभावः, तुल्यकालयोस्तस्यायोगात् भिन्नकालयोरप्यनवभासनान कर्मतादिगतिः कथञ्चित् संभविनी । अथापि दर्शनात् प्राक् सन्नपि नीलामा न भाति तदुदये च भातीति कर्मता तस्य, नैतदपि साधीयः, यतः प्राग् भावोऽर्थस्य न सिद्धः। दर्शनेन स्वकालावधेरर्थस्य ग्रहणाद् दर्शनकाले हि नीलमाभाति न तु ततःप्राक्, नत् कथं पूर्वभावोऽर्थस्य सिध्येत् तस्य दर्शनस्य पूर्वकाले विरहात् ? १५न च तत्काले दर्शनं प्रागर्थसन्निधि व्यनक्ति, सर्वदा तत्प्रतिभासप्रसङ्गात् । अथाऽन्येन दर्शनेन प्रागर्थः प्रतीयते, ननु तदर्शनादपि प्राक् सद्भावोऽर्थस्यान्येनावसेय इत्यनवस्था । तस्मात् सर्वस्य नीलादेर्दर्शनकाले प्रतिभासनान्न तत्पूर्व सत्ता सिध्यति ।। अथापि 'पूर्वदृष्टं पश्यामि इति व्यवसायात् प्रागर्थः सिध्यति, प्रागर्थसत्तां विना दृश्यमानस्य पूर्वदृऐन एकत्वगतेरयोगात्। केन पुनरेकत्वं तयोर्गम्यते-किमिदानीन्तनदर्शनेन, २० पूर्वदर्शनेन वा? न तावत् पूर्वदर्शनेन, तत्र तत्कालावधेरेवार्थस्य प्रतिभासनात् । नहि तेन स्वप्रतिभासिनोऽर्थस्य वर्तमानकालदर्शनव्याप्तिरवसीयते, तत्काले साम्प्रतिकदर्शनादेरभ चासत् प्रतिभाति, दर्शनस्य वितथत्वप्रसङ्गात् । नापीदानीन्तनदर्शनेन पूर्वदर्शनादिव्याप्तिर्नीलादेरवसीयते, तद्दर्शनकाले पूर्वकालस्यास्तमयात् । न चास्तमितपूर्वदर्शनादिसंस्पर्शमवतरति प्रत्यक्षम्, वितथत्वप्रसङ्गादेव । तस्माद् 'अपास्ततत्पूर्वगादियोगं सर्व वस्तु दृशा गृह्यते, पूर्वदृष्टतां तु स्मृति२५ रुल्लिखति' तंदपास्तम्, दृष्टनोलेखाभावात् । न च स एवायम्' इति प्रतीतिरेका, 'सः' इति स्मृतिरूपम् , 'अयम्' इति तु दृशः स्वरूपम् : तत्परोक्षाऽपरोक्षाकारत्वान्नैकस्वभावौ प्रत्ययौ, तत् कुतस्तत्त्वसिद्धिः? ___ अथानुमानात् प्राग्भावोऽर्थस्य सिध्यति प्राक् सत्तां विना पश्चाद्दर्शनायोगादिति, तदप्यसत्; यतः पश्चाहर्शनस्य प्राक्सत्तायाः संबन्धो न सिद्धः, प्राकूसत्तायाः कथञ्चिदप्यसिद्धः। न चासिद्धया ३० सत्तया व्याप्तं पश्चाद्दर्शनं सिध्यति येन ततस्तत्सिद्धिः । अथ यदि प्रागर्थमन्तरेण दर्शनमुदयमा सादयति तथा सति नियामकाभावात् सर्वत्र सर्वदा सर्वाकारं तद् भवेत्, नायमपि दोषः, नियतवासनाप्रबोधेन संवेदननियमात् । तथाहि-स्वप्नावस्थायां वासनाबलादर्शनस्य देशकालाऽऽकारनियमो दृष्ट इति जाग्रहशायामपि तत एवासौ युक्तः। अर्थस्य तु न सत्ता सिद्धा नापि तद्भेदात् संवित्तिनियम इति तन्न ततः संविद्वैचित्र्यम् , तस्मान्न कथश्चिदपि नीलादेः प्राक् ३५सत्तासिद्धिः। अथ पूर्वसत्ताविरहे किं प्रमाणम् ? नन्वनुपलब्धिरेव प्रमाणम्-यदि नीलं पूर्वकालसंबन्धिस्वरूपं स्यात् तेनैव रूपेणोपलभ्येन, न च तथा; दर्शनकालभुवः सर्वदा प्रतिभासनात् । यश्च येनैव रूपेण प्रतिभाति तत् तेनैव रूपेणास्ति, यथा नीलं नीलरूपतयाऽवभासमानं तथैव सत् न पीतादिरूपतया, सर्व चोपलभ्यमानं रूपं वर्तमानकालतयैव प्रतिभाति न पूर्वादितया, तन्न पूर्व ४०सत्ताऽर्थस्य । ___१-स्तपूर्व-बा०, वा०, भा०, मां०। २ तदपास्ते, मां०, चं०, हा०, भां० । तदप्य (तदप्यपास्तम् ) दृष्टतो-वा०, बा०। ३-सयायां (रात्तायां) पा०, वा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy