SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । पूर्वपक्षवादिना यद् युक्तिजालमुपन्यस्तं तन्निरस्तं द्रष्टव्यम् ; प्रतिपदमुच्चार्य न दूप्यते ग्रन्थगौरवभयात्। ___यदेप्युक्तम् 'परलोके प्रत्यक्षस्याप्रवृत्तेरापत्तिरेवेयम् इहजन्मान्यथाऽनुपपत्त्या परलोकस. द्भावः' इति, तदपि न सम्यक पूर्वानुसारेण सर्वस्य नियतप्रत्ययस्य प्रवृत्तेरनुमानत्वप्रतिपादनात् । अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वान्नात्रानुमानमिति चेत् नन्वेवं तदेवाद्वैतं शून्यत्वं वा कस्य केन दोषामिधानम् । तस्मात् संव्यवहारकारिणा प्रत्यक्षेण ऊहेन वा प्रतिबन्धसिद्धिरिति कथं नानु- ५ मानात् परलोकसिद्धिः? ___यदेप्युक्तम् 'मातापितृसामग्रीमात्रेणेहजन्मसंभवान्न तजन्मव्यतिरिक्तभूतपरलोकसाधनं युक्तम्' इति, तदपि प्रतिविहितमेवः समनन्तरप्रत्ययमात्रेण प्रत्ययप्रत्यक्षस्य भावात् स्वप्नादिप्रत्ययवन्न प्रत्यक्षाद बाह्यार्थसिद्धिरपि इति बौद्धाभिमतपक्षसिद्धिप्रसङ्गोऽनस्तत्वात् । यदपि प्रत्यपादि 'न सन्नि. हितमात्रविषयत्वात् प्रत्यक्षस्य देश-कालव्याप्त्या प्रतिबन्धग्रहणसामर्थ्यम्' इति, तदपि न किश्चित् ; १० एवं सति अतिसन्निहितविषयत्वेन प्रत्यक्षय स्वरूपमात्र एव प्रवृत्तिप्रसङ्ग इति तदेव बौद्धाद्यभिमतं स्वसंवेदनमात्र सर्वव्यवहारोच्छेदकारि प्रसक्तमिति प्रतिपादितत्वात्। तस्माल्लोकव्यवहारप्रवर्तनक्षमसविकल्पकप्रत्यक्षबलाद् ऊहाख्यप्रमाणाद् वा देश-कालव्याप्त्या यथोक्तलक्षणस्य हेतोः प्रतिबन्धनहणे प्रवृत्तिरनुमानस्येति न व्याहतिः प्रकृतस्येति एतदपि निरस्तम् 'केचित् प्रज्ञादयः' इत्यादि । न च 'प्रज्ञा-मेधादयः शरीरस्वभावान्तर्गताः' इत्यादि चोद्यं युक्तम् , तदन्तर्गतत्वेऽपि परिहारसंभवादन्व-१५ य-व्यतिरेकाभ्यां तेषां मातापित्रोः पितृशरीरजन्यत्वस्य पितृशरीरं (?) तर्हि हेतुभेदान्न भेदो मातापितृशरीरादपत्यप्रज्ञादीनाम् । अयमपरो बृहस्पतिमतानुसारिण एव दोषोऽस्तु यः कार्यभेदेऽपि कारणभेदं नेच्छति । अस्माकं तु हर्ष-विषादाद्यनेकविरुद्धधर्माकान्तस्य विज्ञानस्यान्तर्मुखाकारतया वेद्यस्य रूपरसगन्धस्पर्शादियुगपद्भावि-बालकुमारयौवनवृद्धावस्थाद्यनेकक्रमभाविविरुद्धधर्माध्यासिततटरीरादेर्बाह्येन्द्रियप्रभवविज्ञानसमधिगम्याद भेदः सिद्ध एव। विरुद्धधर्माध्यासः, कारणभेदश्च २० पदार्थानां भेदकः; स च जलाउनलयोरिव शरीर-विज्ञानयोर्विद्यत एवेति कथं न तयोर्मेदः? दप्यभेदे ब्रह्माद्वैतवादापत्तेस्तदवस्थ एव पृथिव्यादितत्त्वचतुष्टयाभावापत्त्या व्यवहारोच्छेदः। अथवा मातापितृ-पूर्वजन्मैकसामग्रीजन्यमेतत् कार्यम्, एतन्न (तन्न) दोषोऽव्यतिरिक्तपक्षेऽपि विज्ञानशरीरयोः । पूर्वमप्युक्तम् 'विलक्षणादप्यन्वय-व्यतिरेकाभ्यां मातापितृशरीराद् विज्ञानमुपजायताम् ; नहि कारणाकारमेव सकलं कार्यम्' इति, तदप्यसत् ; यतो नहि कारणविलक्षणं कार्य न भवती २५ युच्यते, अपि तु तदन्वय-व्यतिरेकानुविधानात् तत्कार्यत्वम् । तथाहि-यद् यद्विकारान्वय-व्यतिरेकानुविधायि तत् तत्कार्यमिति व्यवस्थाप्यते, यथा अगुरु-कर्पूरोर्णा दिदाह्यदाहकपावकगतसुरभिगन्धाद्यन्वयव्यतिरेकानुविधायी धूमस्तत्कार्यतया व्यवस्थितः, एकसन्तत्यनुपतितशास्त्रसंस्कारादिसंस्कृतप्राक्तनविज्ञानधर्मान्वयव्यतिरेकानुविधायि च प्रज्ञा-मेधाद्युत्तरविज्ञानमिति कथं न तत्कार्यमभ्युपगम्यते ? तदनभ्युपगमे धूमादेरपि प्रसिद्धवह्नयादिकार्यस्य तत्कार्यत्वाप्रसिद्धिरिति ३० पुनरपि सकलव्यवहारोच्छेदः। "तस्माद्यस्यैव संस्कारं नियमेनानुवर्तते। तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम्" ॥ [ ] प्रतिपादितश्च प्रमाणतः प्रतिनियतः कार्यकारणभावः सर्वक्षसाधने 'कुसमयविसासणं' इतिपदव्याख्यां कुर्वद्भिर्न पुनरिहोच्यते। ___ योऽपि शालूकदृष्टान्तेन व्यभिचारः 'यथा गोमयादपि शालूकः, कश्चित् समानजातीयादपि शालूकादेव तथा केचित् प्रज्ञा-मेधादयस्तदभ्यासात्, केचित् तु रसायनोपयोगात्, १ पृ. ७० पं० २१। २पृ० ७१ पं०४। ३ पृ. ७४ पं० २४ । ४ पृ. ७१ पं०८। ५ पृ. ७४ पं. ३२। ६ पृ. ७१५० ११। ७ पृ. ७४ पं० २४॥ ८ प्रज्ञादय इति इत्यादि भा०, कां०, गु०, मां० । ९ पृ० ७१ पं० १४ । १० पृ० ७१ पं० १४ । ११-न्यत्वेस्य अ० ।-न्यत्वस्यापि-मां० । १२-णाभेदं वा० । १३-तन्न दोषो-गु० । १४ एत न दोषो-वा०, बा०। १५-ऽव्यतिरेकपक्षेऽपि वा०, बा० । १६ पृ० ७१५० १८॥ १७-गम्येत मां०। १८० ५७ पं० ३९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy