SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वस्वरूपम् - श्लो० २२ ॥ ] [ ५९ स्तत्क्षणादेव मिथ्यात्वं स्युः । यदाऽपि प्रपतितसम्यक्त्वः पुनः सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वा अनिवृत्तिकरणेन सम्यक्त्वपुञ्ज एव गमनाद् द्रष्टव्यम् । पूर्वलब्धस्याप्यपूर्वकरणस्यापूर्वता, पूर्वं स्तोकशः कृतत्वेनापूर्वमिवेति वृद्धाः । सैद्धान्तिकमतं चैतत् – सम्यक्त्वप्राप्ताविव देशविरति - सर्वविरत्योः प्राप्तावपि यथाप्रवृत्त्यपूर्वकरणे भवतो न त्वनिवृत्तिकरणम्, अपूर्वकरणाद्धाप्रा (समा) प्तावनन्तरसमये एव तयोर्भावात्, देश-सर्वविरत्योः प्रतिपत्त्योरनन्तरमन्तर्मुहूर्त यावदवश्यं जीवः प्रवर्द्धमानपरिणामस्तत ऊर्ध्वं त्वनियमः । I ये चाऽऽभोगं विनैव कथञ्चित् परिणामासाद् देशविरतेः सर्वविरतेर्वा प्रतिपतितास्तेऽकृतकरणा एव पुनस्तां लभन्ते । ये त्वाभोगतः प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते जघन्यतोऽन्तर्मुहूर्तेनोत्कर्षतः प्रभूतकालेन यथोक्तकरणपूर्वकमेव पुनस्तां लभन्त इत्युक्तं कर्मप्रकृतिवृत्तौ । सैद्धान्तिकमते हि विराधितसम्यक्त्वो गृहीतेनापि सम्यक्त्वेन षष्ठपृथिवीं यावत् कोऽप्युत्पद्यते, कार्मग्रन्थिकमते तु वैमानिकेभ्योऽन्यत्र नोत्पद्यते, तेन गृहीतेनेत्युक्तं प्रवचनसारोद्धारवृत्तौ । [ प्र.सा.गा. ९६१/खण्ड २ प. १९१ ] अवाप्तसम्यक्त्वश्च तत्परित्यागे कार्मग्रन्थिकमतेनोत्कृष्टस्थितीः कर्मप्रकृतीर्बध्नाति, सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेरुत्कृष्टः स्थितिबन्ध एव न स्यात् १। तथा क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां निर्मूलनाशः, प्रयोजनमस्य क्षायिकं । यतः — "खीणे दंसणमोहे, विविहंमि वि भवनिआणभूमि । निप्पच्चवायमउलं, सम्मत्तं खाइअं होइ " ॥१॥ [ ध.सं.णी / गा. ८०१ ] त्ति । तच्च साद्यनन्तम् २। तथा पूर्वोदिता(नां मिथ्यात्वपुद्गला) नामुदितानां क्षयो निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः, स प्रयोजनमस्य क्षायोपशमिकम् । यतः - 'मिच्छत्तं जमुइन्नं, तं खीणं अणुइअं च उवसंतं । मीसीभावपरिणयं, वेइज्जंतं खओवसमं" ॥१॥ [ ध.सं.णी/गा. ७९७ ] ति । तच्च सत्कर्मवेदकमप्युच्यते, औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिकक्षायोपशमिकयोर्भेदः । यदाह - १. अपूर्वकरणाद्धाप्राप्ता P. L. C. । 'अपूर्वकरणाद्धासमाप्तावनन्तर' इति श्राद्धप्रतिक्रमणवृत्त पा० २४B | D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy