SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ २१ गुणाः धर्मग्रहणार्हस्य-श्लो० २०॥] [५१ वुड्डाणुगो १७ । विणीओ १८ । कयण्णुओ १९ । परहिअत्थकारी अ॥२०॥ तह चेव लद्धलक्खो २१ । इंगवीसगुणेहिं संजुत्तो ॥३॥ 1 [धर्मरत्न. गा. ५-७/सं.प्र.श्रा. गा. ६-८/ प्र.सा. गा. १३५६-८] एतासां व्याख्या -धर्माणां मध्ये यो रत्नमिव वर्त्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपो धर्मः स धर्मरत्नम् , तस्य 'योग्यः' उचितो भवत्यध्याहारः, 'एकविंशत्या गुणैः संपन्न' इति तृतीयगाथान्ते संबन्धः । ___ तानेव गुणान् गुण-गुणिनोः कथञ्चिदभेद इति दर्शनाय गुणिप्रतिपादनद्वारेणाह - अक्खुद्दो इत्यादि । तत्राक्षुद्रोऽनुत्तानमति: १। रूपवान् प्रशस्तरूपः, स्पष्टपञ्चेन्द्रियरूप इत्यर्थः २। प्रकृतिसोमः स्वभावतोऽपापकर्मा ३। लोकप्रियः सदा सदाचारचारी ४। अक्रूरोऽक्लिष्टचित्त: ५। भीरुरैहिकामुष्मिकापायभीलुकः ६। अशठ: परावञ्चक: ७। सुदाक्षिण्यः प्रार्थनाभङ्गभीरुः ८। लज्जालुरकार्यवर्जक: ९। दयालुः सत्त्वानुकम्पकः १० । मध्यस्थो रागद्वेषरहितोऽत एवासौ सोमदृष्टिर्यथावस्थितविचारवित्त्वात् , इह पदद्वयेनाप्येक एव गुणः ११। गुणरागी गुणिपक्षपातकृत् १२। सती धर्मकथाऽभीष्टा यस्य स सत्कथ: १३ सुपक्षयुक्तः सुशीलानुकूलपरिवारोपेतः १४। सुदीर्घदर्शी सुपर्यालोचितपरिणामसुन्दरकार्यकारी १५। १. इगवीसगुणेहिं संपन्नो-इति धर्मरत्न प्र० । इगवीसगुणो हवइ सङ्को-इति सम्बोधप्रकरणे प्रवचनसारोद्धारे च गा० १३५८ ।। २. तुला-धर्मरत्नप्रकरणस्वोपज्ञवृत्तिः प० ३तः गा० ५तः, प्रवचनसारोद्धारवृत्तिः-२३९ द्वारे ।। ३. 'मज्झत्थो सोमदिट्ठी इति एकमेवेदं पदं प्राकृतत्वाद्विभक्तेरलुक्'-इति धर्मरत्नप्रकरणवृत्तौ प०४॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy