________________
३० ]
[ धर्मसंग्रहः - प्रथमाधिकारः शायितया प्रकृष्टा ‘कार्या' प्रज्ञापनीया, कीदृशस्य पुरतः सा कार्या ? इत्याह -' शुश्रूषोः ' श्रोतुमुपस्थितस्य, मुनिना च किंज्ञानपूर्वमाख्येया ? इत्याह - 'बालादिभावम्' इत्यादि, बालादीनां त्रयाणां धर्मपरीक्षकाणाम् आदिपदेन मध्यमबुद्धि-बुधयोर्ग्रहणात्, भावं परिणामविशेषं स्वरूपं वा 'संज्ञाय' सम्यग् अवैपरीत्येन ज्ञात्वाऽवबुध्य । तस्य त्रिविधस्य धर्मपरीक्षकस्य रुचिरुपलक्षणमिदं षोडशकप्रकरणोक्तम् –
‘“बालः पश्यति लिङ्गं, मध्यमबुद्धिर्विचारयति वृत्तम् ।
आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥१॥ [ षोड. १/२ ] तेषामेवाचाररूपलक्षणं चेदम् -
"बालो ह्यसदारम्भो, मध्यमबुद्धिस्तु मध्यमाचारः ।
ज्ञेय इह तत्त्वमार्गे, बुधस्तु मार्गानुसारी यः " ॥१॥ [ षोड. १/३ ] इति । इत्थं च तद्भावज्ञानपूर्वकं तदनुसारेण देशना विधेयेति संपन्नम् । तत्र बालस्य परिणाममाश्रित्य हितकारिणी देशना यथा -
"बाह्यचरणप्रधाना, कर्त्तव्या देशनेह बालस्य ।
स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥२॥ [ षोड. २ / २] सम्यग्लोचविधानं, ह्यनुपानत्कत्वमथ धरा शय्या ।
प्रहरद्वयं रजन्यां, स्वापः शीतोष्णसहनं च ॥३॥ [ षोड. २/३]
षष्ठाष्टमादिरूपं, चित्रं बाह्यं तपो महाकष्टम् । अल्पोपकरणसंधारणं च तच्छुद्धता चैव ॥४॥ [ षोड. २/४] गुर्वीपिण्डविशुद्धिचित्रा द्रव्याद्यभिग्रहाश्चैव ।
विकृतीनां संत्यागस्तथैकसिक्थादिपारणकम् ॥५॥ [ षोड. २/५ ] अनियतविहारकल्पः, कायोत्सर्गादिकरणमनिशं च ।
इत्यादि बाह्यमुच्चैः, कथनीयं भवति बालस्य ॥६॥ [ षोड. २ / ६ ] इदानीं मध्यमबुद्धेर्देशनाविधिर्यथा -
“मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम् । आद्यन्तमध्ययोगैर्हितदं खलु साधु सद्वृत्तम् ॥७॥ [ षोड. २/७ ]
१. षोडशक० मु० | षोडस० P. L. ॥ २. धर्मदेशनेह - L. C. P. II ३. मध्यमबुद्धेर्देयासमिति० L । मध्यमबुद्धेः स्वीयासमिति० P.C. ॥
D:\new/d-1.pm5\ 3rd proof