________________
४१६ ]
सर्वजीवक्षमणं यथा
"खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे ।
मित्ती मे सव्वभूएसुं, वेरं मज्झ न केणई " ॥ [ वंदितुसूत्रे / ४९ ] इत्यादि । प्रत्याख्यानं च चतुर्विधाहारविषयं ग्रन्थिसहितेन सर्वव्रतसङ्क्षेपरूपदेशावकाशिकव्रतस्वीकरणं च, यदुक्तं दिनकृत्ये - " पाणिवहमुसादत्तं " [ श्राद्धदिनकृत्ये गा० ३००-१] इत्यादि गाथाद्वयं प्राग् लिखितमेव । तथा शेषपापस्थानवर्जनं यथा –
"तहा कोहं च माणं च, मायं लोभं तहेव य ।
पिज्जं दोसं च वज्जेमि, अब्भक्खाणं तहेव य ॥१॥ [ श्रा. दि. / ३०२] अरइरई पेसुन्नं, परपरिवायं तहेव य ।
मायामोसं च मिच्छत्तं, पावठाणाणि वज्जिमो ॥२॥ [ श्रा. दि. / ३०३ ] इति । तथा - “जइ मे हुज्ज पमाओ, इमस्स देहस्सिमाइ रयणीए ।
आहारमुवहि देहं सव्वं तिविहेण वोसिरिअं ॥१॥ [सं.पो.सू.गा./४] नमस्कारपूर्वमनया गाथया त्रिः साकारानशनस्वीकरणं पञ्चनमस्कारस्मरणं च स्वापावसरे कार्यम्, ततो विविक्तायामेव शय्यायां शयितव्यम्, न तु स्त्र्यादिसंसक्तायाम्, तथा सति सतताभ्यस्तत्वाद् विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः । अतः सर्वथोपशान्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्येति स्वापविधिः । तथा ‘प्रायेण' इति बाहुल्येन, गृहस्थत्वादस्य अब्रह्म - मैथुनं तस्य वर्जनम् -त्यजनं, गृहस्थेन हि यावज्जीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव
भाव्यम् ॥६६॥
अथ निद्रान्ते किं कर्त्तव्यमित्याह -
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
निद्राक्षयेऽङ्गनाऽङ्गानामशौचादेर्विचिन्तनम् ।
इत्याहोरात्रिकी चर्या, श्रावकाणामुदीरिता ॥६७॥
ततः परिणतायां रात्रौ निद्रायाः क्षये - नाशे सत्यनादिभवाभ्यासरसोल्लसद्दुर्ज्जयकामरागजयार्थम्, अङ्गनाः – स्त्रियस्तासामङ्गानां - शरीराणां यद् अशौचम् अपावित्र्यं तस्य विचिन्तनं - विशेषेण विचारणम्, आदिशब्दात् जम्बूस्वामिस्थूलभद्रादिमहर्षिसुश्राद्धादिदुष्पालनशीलपालनपवित्रचरित्रकषायजयोपायभवस्थित्यत्यन्तदुःस्थताएषामपि चिन्तनमित्यर्थः, तद्विशेषतो गृहिधर्मो भवतीत्यन्वयः ।
धर्ममनोरथानां ग्रहणम्,
D:\new/d-2.pm5\3rd proof
—