________________
‘वंदित्तुसूत्र' विवरणम् – श्लो० ६५ ॥ ]
[ ४०९
कण्ठ्या । नवरं –‘आलोचना' गुरुभ्यो निजदोषकथनम्, उपचारात् तत्कारणभूता प्रमादक्रियाप्यालोचना, 'पडिक्कमणकाले त्ति' आलोचनानिन्दागर्हाऽवसरे ॥४२॥
एवं प्रतिक्रामको दुष्कृतनिन्दादीन् विधाय विनयमूलधर्माराधनाय कायेनाभ्युत्थितः 'तस्स धम्मस्स केवलीपण्णत्तस्स त्ति' भणित्वा मङ्गलगर्भमिदमाह -
"अब्भुट्ठिओ मि आराहणाइ, विरओ विराहणाए अ । तिविहेण पडिक्कंतो, वंदामि जिणे चउव्वीसं " ॥४३॥
'तस्य' गुरुपार्श्वे प्रतिपन्नस्य 'धर्मस्य' श्रावकधर्मस्य 'केवलिप्रज्ञप्तस्य' 'अभ्युत्थितोऽस्म्याराधनाय' उद्यतोऽहं सम्यक् पालनार्थम्, 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः त्रिविधेनेत्यादि सुगमम् ॥४३॥
एवं भावजिनान्नत्वा सम्यक्त्वशुद्ध्यर्थं त्रिलोकगतस्थापनार्हद्वन्दनार्थमाह –
" जावंति चेइयाइं०" ॥४४॥
कण्ठ्या । नवरं – 'इहसंतो त्ति' इहस्थितः ॥४४॥
साम्प्रतं सर्वसाधुवन्दनायाह -
" जावंत के वि साहु,
" भर० ॥४५॥
‘यावन्तः केचित् साधवो' जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसङ्ख्या, जघन्यतस्तु *द्विकोटिसहस्रप्रमिताः, भरतैरावतमहाविदेहेषु, चशब्दात् संहरणादिनाऽकर्मभूम्यादिषु च, सर्वेभ्यस्तेभ्यः प्रणतस्त्रि* विधेनेत्यादि सुगमम् ॥४५॥
एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशंसन्नाह
‘“चिरसंचियपावपणासणीइ भवसयसहस्समहणीए ।
चउवीसजिणविणिग्गयकहाइ वोलंतु मे दिअहा " ॥४६॥
‘कण्ठ्या । नवरं –‘कथया' तन्नामोच्चारणतद्गुणोत्कीर्त्तनतच्चरितवर्णनादिकया वचनपद्धत्या, ‘वोलंतु त्ति' व्रजन्तु ||४६ ||
सम्प्रति मङ्गलपूर्वकं जन्मान्तरेऽपि समाधिबोध्याशंसामाह
**
१. चिह्नद्वयमध्यवर्तिपाठः मु० मध्ये [ ] ईदृशे कोष्ठके C. प्रतौ पार्श्वभागे वर्तते ॥ २. °माशंसयन्नाह-इति श्राद्धदिनकृत्ये प० १४२ ॥ ३. पूर्विकां - इति श्राद्धदिनकृत्ये प० १४२ ।।
D:\new/d-2.pm5\ 3rd proof