________________
'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥]
[४०५ अस्वंयतास्तेषु , गुर्वाज्ञया विहरत्सु इत्यर्थः । 'या' मया कृताऽनुकम्पा-अन्नादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता । यथोक्तम् -
"आयरिअणुकंपाए, गच्छो अणुकंपिओ महाभागो।
गच्छाणुकंपमाए, अव्वुच्छित्ती कया तित्थे" ॥१॥[ओ.नि.भा./१२७] 'रागेण' पुत्रादिप्रेम्णा, न तु गुणवत्त्ववुद्ध्या, तथा 'द्वेषेण' द्वेषोऽत्र साधुनिन्दाख्यः, यथा अदत्तदाना धनधान्यादिरहिता मलाविलसकलदेहा ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथा निर्गतिका अमी, अत उपष्टम्भाऱ्या इत्येवं निन्दापूर्वकं याऽनुकम्पा सापि निन्दाऱ्या, अशुभदीर्घायुष्कहेतुत्वात् । यद् आगमः -
"तहारूवं समणं वा माहणं वा संजयविरयपडिहयपच्चक्खायपावकम्मं हीलित्ता निंदित्ता खिसित्ता गरहित्ता अवमन्नित्ता अमणुन्नेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुहदीहाउयत्ताए कम्मं पकरेइ"[ ] यद्वा-सुखितेषु दुःखितेषु वा, असंयतेषु पार्श्वस्थादिषु , शेषं तथैव । नवरं 'द्वेषेण' 'दगपाणं पुप्फफलम्' इत्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा 'असंयतेषु' षड्विधजीववधकेषु कुलिङ्गिषु , 'रागेण' एकग्रामोत्पत्त्यादिप्रीत्या, 'द्वेषेण' प्रवचनप्रत्यनीकतादिदर्शनोद्भवेन, तदेवंविधं दानं निन्दामि, गर्हे च, यत् पुनरौचित्यदानं तन्न निन्दाह, जिनैरपि वार्षिकं दानं ददद्भिस्तस्य दर्शितत्वात् ॥३१॥ सम्प्रति साधुषु यन्न दत्तं तत्प्रतिक्रमितुमाह -
"साहूसु संविभागो, न कओ तवचरणकरजुत्तेसु ।
संते फासुयदाणे, तं निंदे०" ॥३२॥ कण्ठ्या । नवरं -तपश्चरणकरणयुक्तेष्वित्यत्र तपसः पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्त इति प्राधान्यख्यापनार्थम् ॥३२॥ सम्प्रति संलेखनातिचारान् परिजिहीर्घराह -
"इहलोए परलोए, जीवियमरणे य आसंसपओगे।
पंचविहो अइयारो, मा मज्झं हुज्ज मरणंते" ॥३३॥ अत्राशंसाप्रयोग इति सर्वत्र योज्यम् , तत्र प्रतिक्रामकं प्रतीत्येहलोको -नरलोकस्तत्राशंसा -राजा स्यामित्याद्यभिलाषस्तस्याः प्रयोगो -व्यापार इहलोकाशंसाप्रयोगः १,
१. L.P.C. श्राद्धदिनकृत्ये च प० १३४ । दुःखितेषु-मु० नास्ति ।
D:\new/d-2.pm5\3rd proof