SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३८८ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः ‘साय’त्ति सायं – प्रदोषस्तत्र शतमुच्छ्वासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक् । ‘गोसद्धं ति' प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेषं स्पष्टम् । उच्छ्वासमानं चोपरिष्टाद् वक्ष्यति "पायसमा ऊसासा" [ आव० नि० ] इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानं यथा - "चत्तारि दो दुवालस, वीसं चत्ता य हुंति उज्जोया । देसि राइअ पक्खिअ चाउम्मासे अ वरिसे अ ॥१॥ [ आव.नि./ १५३१] भावितार्था । अथ श्लोकमानं यथा - - "पणवीसमद्धतेरस, सिलोग पण्णत्तरिं च बोद्धव्वा । सयमेगं पणवीसं, बेबावण्णा य वारिसए ॥१॥ [ आव.नि./ १५३२] स्पष्टैव, नवरं चतुर्भिरुच्छ्वासैः श्लोकः परिगृह्यते, एकस्मिश्चोद्योतकरे, षट् श्लोकास्ते चतुर्गुणाश्चतुर्विंशतिः एकश्च पादश्चतुर्गुण इत्येकः श्लोको, मिलिताः पञ्चविंशतिः श्लोका दैवसिके एवमग्रेऽपि भाव्यम् । इत्युक्ता नियतकायोत्सर्गवक्तव्यता । अथानियतस्य तमाह"गमणागमणविहारे, सुत्तंमि अ सुमिणदंसणे राओ I 1 नावाणइसंतरणे, इरिआवहिआपडिक्कमणं" ॥१॥ [ आव.नि./ १५३३ ] गमनं –भिक्षादिनिमित्तम्, आगमनं ग्रामादेस्ततश्चात्रेर्यापथिकीं प्रतिक्रम्य पञ्चविंशत्युच्छ्वासमानः कायोत्सर्गः कार्यः । यतः - " भत्ते पाणे सयणासणे अ अरहंतसमणसेज्जासुं । उच्चारे पासवणे, पणवीसं होंति उस्सासा" ॥१॥ [ आव.नि./ २३४] अस्या अर्थः –भक्तपाननिमित्तमन्यग्रामादौ गमनम्, ततो यदि सद्य एव न वलते तदेर्यापथिकीप्रतिक्रमणम्, ततश्चागमनेऽपि, एवं शयनासननिमित्तमपि, शयनं - संस्तारको वसतिर्वा, आसनं –पीठकादि, अरहंतश (अर्हच्छ) य्या - चैत्यगृहम्, श्रमणशय्या - साधुवसतिः, तत्रापि गत्यागत्योः पूर्ववत्, तथोच्चारे प्रश्रवणे च व्युत्सृष्टे हस्तमात्रादागमनेऽपि प्रतिक्रमणम्, यदि च मात्रके व्युत्सृष्टं तदा परिष्ठापकः प्रतिक्रामति, ने तु स्वयम्, हस्तशताद् बहिर्गमने तु स्वयमपीति । एतेषु स्थानेषु पञ्चविंशतिरुच्छ्वासाः कायोत्सर्गमानम् । अथ मूलगाथायां विहारे त्ति – सूत्रपौरुषीनिमित्तं स्ववसतेरन्यत्र गमनम् । यतः - १. स्वयमपि कर्तव्यमिति व्यवहारसूत्राभिप्रायः - इति अत्रैव भाषान्तरग्रन्थे टिप्पणे पृ० ६०३ टि० १३५ ।। D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy