SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३७२] [धर्मसंग्रहः-द्वितीयोऽधिकारः गुरुगतावग्रहप्रमाणं घटमानं स्याद् , ग्रामाभावे तत्सीमाव्यवस्थावत् , तथा तत्रैव यदपरमुक्तं – "चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं" [ गुरुवन्दनभा० १९] इत्यादि, तदपि न युक्तं भवेद् , यतश्चतुःशीर्षत्वं वन्दनकदातृ-तत्प्रतीच्छकसद्भावे सति भवति, न तु साक्षाद् गुर्वभावे स्थापनाचार्यस्यानभ्युपगमे च, एवं द्विप्रवेशैकनिष्क्रमणे अपि दूरापास्ते एव, अवधिभूतगुरोः स्थापनाचार्यस्य वाऽभावात् , न च हृदयमध्य एव गुरुरस्तीति वाच्यम् , तथा सति प्रवेशनिर्गमयोरविषयत्वादिति । तस्मात् "अक्खे वराडए वा, कटे पुत्थे अ चित्तकम्मे अ। सब्भावमसब्भावं, गुरुठवणा इतरावकह" ॥१॥[गु.भा./२९] इतिवचनप्रमाणाच्च साधूनां श्रावकाणां स्थापनाचार्यस्थापनं समानमेवेति व्यवस्थितम् । __ पञ्चाचाराश्च ज्ञान-दर्शन-चारित्र-तपो-वीर्याचारा इति । तत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते १, चतुर्विंशतिस्तवेन दर्शनाचारस्य २, वन्दनकेन ज्ञानाद्याचाराणां ३, प्रतिक्रमणेन तेषामतिचारापनयनरूपा ४, प्रतिक्रमणेनाशुद्धानां तदतिचाराणां कायोत्सर्गेण ५, तपआचारस्य प्रत्याख्यानेन ६, वीर्याचारस्यैभिः सर्वैरपीति । यतश्चतुःशरणप्रकीर्णके - "चारित्तस्स विसोही, कीरइ सामाइएण किर इहयं'' [च.प्र./७२ ] इत्यादिगाथा: प्रसिद्धाः । तत्र चावश्यकारम्भे चैत्यवन्दनाधिकारोक्तागमवचनप्रामाण्यात् "जइ गमणागमणाई, आलोइअ निंदिऊण गरहित्ता । हा दुट्ठऽम्हेहि कयं, मिच्छादुक्कडमिअ भणित्ता ॥१॥[ ] तह काउस्सग्गेणं, तयणुरूवपच्छित्तमणुचरित्ता णं । जं आयहि चिइवंदणाइ णुट्ठिज्ज उवउत्तो ॥२॥[ ] दव्वच्चणे पवित्तिं, करेइ जह काउ बज्झतणुसुद्धि । भावच्चणं तु कुज्जा, तह इरिआए विमलचित्तो" ॥३॥[] इत्यादियुक्तेश्च पूर्वमीर्यापथिकी प्रतिक्रामति । प्रतिक्रामता च तां मनसोपयोगं दत्त्वा त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीया, एवं च तां प्रतिक्रम्य साधुः कृतसामायिकश्च श्रावक आदौ श्रीदेवगुरुवन्दनं विधत्ते, सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानादिभक्तिपूर्वकं सफलं भवतीति । आह च - १. P. संशो० L. । साधुश्रावकाणां-मु० P. मूल । २. L.P. I इह किरयं (किल इहयं) मु० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy