SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सन्ध्याकर्तव्यं-प्रतिक्रमणस्वरूपम्-श्लो० ६४॥] [३६९ "स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते" ॥१॥[ ] प्रतिकूलं वा गमनं प्रतिक्रमणं । यदाह - "क्षायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥१॥[] प्रति प्रति क्रमणं वा प्रतिक्रमणम् । उक्तं च - "प्रति प्रति वर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम्" ॥१॥[ ] तच्चातीतानागतवर्त्तमानकालत्रयविषयम् , नन्वतीतविषयमेव प्रतिक्रमणं । यत उक्तं - "अईअं पडिक्कमामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि" [पक्खीसूत्रे ] इति तत्कथं त्रिकालविषयता ?, उच्यते -अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः - "मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥१॥[ आ.नि./१२६४] ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम् , प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतविषयमपि प्रत्याख्यानद्वारेणेति न कश्चिद्दोषः । इत्थं त्रिकालविषयं प्रतीपक्रमणादि प्रतिक्रमणमिति सिद्धम् । एतच्च व्युत्पत्तिमात्रम् , रूढिश्च क्वचिदावश्यकविशेषे, क्वचिच्च षडावश्यकक्रियायामित्युक्तमेव । इत्थमेव च वक्ष्यमाणः प्रतिक्रमणविधिर्घटते। तच्च प्रतिक्रमणं दैवसिक १ रात्रिक २ पाक्षिक ३ चातुर्मासिक ४ सांवत्सरिक ५ भेदात् पञ्चविधम् , तत्र दिवसस्यान्ते दैवसिकमेतस्य कालस्तूत्सर्गेणैवमुक्तः - "अद्धनिबुड्डे बिंबे, सुत्तं कबँति गीअत्था । इअ वयणपमाणेणं, देवसिआवस्सए कालो" ॥१॥[ य.दि./३२४] रात्रेरन्ते रात्रिकं । तस्य चैवं कालः - "आवस्सयस्स समए, निद्दामुदं चयंति आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं सूरो" ॥१॥ अपवादतस्तु दैवसिकं दिवसतृतीयप्रहारादन्वर्द्धरात्रं यावत् । योगशास्त्रवृत्तौ तु - १. परं-आवश्यकचूर्णौ प्रवचनसारोद्धारेच॥२.P.संशो० योगशास्त्रटीका । गमाः स्मृताः (त्स्मृतः)मु०P.मू.C. ॥३. तुला-श्राद्धविधिवृत्तिः प०१४५॥ ४. तुला-योगशास्त्रटीका प० २०८ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy