SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३५२] [धर्मसंग्रहः-द्वितीयोऽधिकारः भद्रादिवत् १, न्यायागतविभवत्तत्पात्रपोषरूपो द्वितीयो भङ्गः पापानुबन्धिपुण्यहेतुर्लक्षभोज्यकृद् विप्रवत् २, अन्यायायातविभवसत्पात्रपोषरूपस्तृतीयः राजादिबह्वारम्भिणामनुज्ञातः ३, अन्यायोपार्जितार्थकुपात्रपोषरूपश्चतुर्थस्त्याज्य एव विवेकिना ४। एवं न्यायेनार्थार्जने यतनीयम् । व्यवहारशुद्धयैव च सर्वोऽपि धर्मः सफलः । यद् दिनकृत्ये - "ववहारसुद्धी धम्मस्स, मूलं सव्वन्नूभासए । ववहारेणं तु सुद्धेणं, अत्थसुद्धी तओ भवे ॥१॥[ श्रा.दि./१५९] सुद्धेणं चेव अत्थेणं, आहारो होइ सुद्धओ। आहरेणं तु सुद्धेणं, देहसुद्धी जओ भवे ॥२॥[ श्रा.दि./१६०] सुद्धेणं चेव देहेणं धम्मजुग्गो अ जायई । जं जं कुणइ किच्चं तु , तं तं से सफलं भवे ॥३॥[ श्रा.दि./१६१] अण्णहा अफलं होइ, जं जं किच्चं तु सो करे। ववहारसुद्धिरहिओ, धम्मं खिसावए जओ ॥४॥ [श्रा.दि./१६२] धम्मखिसं कुणंताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते वि भासि ॥५॥[श्रा.दि./१६३] तम्हा सव्वपयत्तेणं, तं तं कुज्जा वियक्खणो । जेण धम्मस्स खिसं तु , न करे अबुहो जणो" ॥६॥[ श्रा.दि./१६४] अतो व्यवहारशुद्ध्यै सम्यगुपक्रम्यम् । इति व्यवहारशुद्धिस्वरूपम् ॥ तथा देशादिविरुद्धपरिहारो देश-काल-नृप-लोक-धर्मविरुद्धवर्जनम् । यदुक्तं हितोपदेशमालायाम् - "देसस्स य कालस्स य, निवस्स लोगस्स तह य धम्मस्स । वज्जंतो पडिकूलं, धम्म सम्मं च लहइ नरो" ॥१॥ [ हि.मा./३२०] तत्र यद्यत्र देशे शिष्टजनैरनाचीर्णं तत्तत्र देशविरुद्धम् , यथा सौवीरेषु कृषिकर्मेत्यादि । अथवा जातिकुलाद्यपेक्षयाऽनुचितं देशविरुद्धम् , यथा ब्राह्मणस्य सुरापानमित्यादि १। कालविरुद्धं त्वेवं -शीततॊ हिमालयपरिसरे, ग्रीष्मतॊ मरौ, वर्षासु अपरदक्षिणसमुद्रपर्यन्तभूभागेषु , महारण्ये यामिनीमुखवेलायां वा प्रस्थानम् । तथा फाल्गुनमासाद्यनन्तरं तिलपीलनम् , तद्व्यवसायादि, वर्षासु वा पत्रशाकग्रहणादि ज्ञेयम् २। १. जओ-इति श्राद्धदिनकृत्ये । २. धम्मे जोग्गो इति श्राद्धदिनकृत्ये ॥ ३. सुत्ते विभा” मु० । "एतद् सूत्रेऽपि छेदग्रन्थलक्षणे भाषितम्" इति श्राद्धदिनकृत्यवृत्तौ प० २८१ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy