________________
श्रावकदिनचर्यायामर्थार्जनविचार: - श्लो० ६३ ॥ ]
[ ३४९
वाणिज्ये यतनीयम्, दुर्भिक्षादावनिर्वाहे तु यदि बह्वारम्भं खरकर्माद्यप्याचरति, तदाऽनिच्छुः स्वं निन्दन् सशूकतयैव करोति । यदुक्तं भावश्रावकलक्षणे – "वज्जइ तिव्वारंभं, कुणइ अकामो अनिव्वहंतो अ ।
थुइ निरारंभजणं, दयालुओ सव्वजीवेसुं ॥१॥ [ ध.र. / ६५ ] धन्य महामुणिण मणसा वि करंति जे न परपीडं । आरंभपावविरया, भुंजंति तिकोडिपरिसुद्धं ॥२॥ []
अदृष्टमपरीक्षितं च पण्यं न स्वीकार्यं, समुदितं शङ्कास्पदं च समुदितैरेव ग्राह्यम्, न त्वेकाकिना, विषमपाते तथैव साहायकादिभावात् ।
क्षेत्रतः स्वचक्रपरचक्रमान्द्यव्यसनाद्युपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे व्यवहार्यं, न त्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाहिकात्रयपर्वतिथ्यादौ व्यापारस्त्याज्यस्तथा वर्षादिकालविरुद्धोऽपि व्यापारस्त्याज्यः । भावतस्त्वनेकधा क्षत्रियादिसायुधैः सह व्यवहारः स्वल्पोऽपि प्रायो न गुणाय, उद्धारके च नट - विटादिविरोधकारिभि - सह न व्यवहार्यम् । कालान्तरव्यवहारोऽपि समधिकग्रहणकादानादिनैवोचितोऽन्यथा तन्मार्गणादिहेतुक्लेशविरोधधर्महान्याद्यनेकानर्थप्रसङ्गात् । अनिर्वहंस्तु यदि उद्धारके व्यवहरति, तदा सत्यवादिभिरेव सह, कलान्तरमपि देशकालाद्यपेक्षयैकद्विक- त्रिक-चतुष्क-पञ्चकवृद्ध्यादिरूपं विशिष्टजनानिन्दितमेव ग्राह्यम्, स्वयं वा वृद्ध्या धने गृहीते तद्दायकस्यावधेः प्रागेव देयम्, जातु धनहान्यादिना तथाऽशक्तोऽपि शनै: शनैस्तदर्पण एव यतते, अन्यथा विश्वासहान्या व्यवहारभङ्गप्रसङ्गः, ऋणच्छेदे च न विलम्बनीयम् । तदुक्तम् - "धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे ।
शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत्" ॥१॥ [ ]
I
स्वनिर्वाहाक्षमतया ऋणदानाशक्तेन तूत्तमर्णगृहे कर्मकरणादिनापि ऋणमुच्छेद्यम्, अन्यथा भवान्तरे तद्गृहे कर्मकर-महिष - वृषभ - करभ - रासभादित्वस्यापि सम्भवात् । उत्तमर्णेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधाऽऽर्तध्यानक्लेशपापवृद्ध्यादिप्रादुर्भावात्, किन्तु यदा शक्नोषि तदा दद्या नो चेदिदं मे धर्मपदे भूयादिति वाच्यो न त ऋणसम्बन्धश्चिरं स्थाप्यः । तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोमिथः सम्बन्धवैरवृद्ध्याद्यापत्तेः, अन्यत्रापि व्यवहारे निजस्वस्यावलने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिनाऽतः साधर्मिकैरेव सह मुख्यवृत्त्या व्यवहारो
१. L.P.C. । क्षत्रियादि(भि) सायुधैः- मु० । क्षत्रियव्यापारिनृपाद्यैः सह - इति श्राद्धविधिवृत्तौ प०
९० ॥
D:\new/d-2.pm5\ 3rd proof