SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ जिनमन्दिरेऽवस्थानविचार:-श्लो० ६३॥] [३४७ बहुकालं हि चैत्यायतनेऽवस्थितिर्दोषाय । यत उक्तं साधुनुद्दिश्य व्यवहारभाष्ये - "जइ वि न आहाकम्म, भत्तिकयं तह वि वज्जयंतेहिं । भत्ती खलु होइ कया, जिणाण लोए वि दिटुं तु ॥१॥[व्य.भा./३७७२] बंधित्ता कासवओ, वयणं अट्ठपुडसुद्धपोत्तीए । पत्थिवमुवासए खलु , वित्तिनिमित्तं भयाई वा ॥२॥ [ व्य.भा./३७७३] पार्थिवस्थानीयायास्तीर्थकरप्रतिमाया भक्तिनिमित्तं चैत्यायतनं साधवः प्रविशन्ति, न तु तत्रैव तिष्ठन्ति इति तद्वृत्तिः । कुत इत्याह - "दुब्भिगन्धपरि मल )स्सावी, तणुरप्पेसण्हाणिआ। दुहा वाउवहो चेव, तेण टुंति न चेइए ॥३॥ [ व्य.भा./३७७४] तिन्नि वा कड्डई जाव, थुइओ तिसिलोइआ। ताव तत्थ अणुण्णायं, कारणेण परेण वि ॥[व्य.भा./३७७५ ] *एतयोर्भावार्थः -साधवश्चैत्यगृहे न तिष्ठन्ति, अथवा चैत्यवन्दनान्त्यशक्रस्तवाद्यनन्तरं तिस्रः स्तुतिः श्लोकत्रयप्रमाणाः प्रणिधानार्थं यावत् कर्षन्ति, प्रतिक्रमणानन्तरं मङ्गलार्थं स्तुतित्रयपाठवत् , तावच्चैत्यगृहे साधूनामनुज्ञातं निष्कारणं न परतः, सिद्धाणमित्यादिश्लोकत्रयमात्रान्तपाठे तु सम्पूर्णवन्दनाभाव एव प्रसजति, श्लोकत्रयपाठानन्तरं चैत्यगृहे अवस्थानाननुज्ञातेन प्रणिधानासद्भावात् । भणितं चागमे-वन्दनान्ते प्रणिधानम् , यथा - "वंदइ नमसइ"[ ]त्ति सूत्रम् , वृत्तिः -वन्दते ताः प्रतिमाश्चैत्यवन्दनादिविधिना प्रसिद्धेन, नमस्कारोति पश्चात् प्रणिधानादियोगेनेति तिस्रः स्तुतयोऽत्र प्रणिधानस्वरूपा ज्ञेयाः । सर्वथा परिभाव्यम् , अत्र पूर्वापराविरोधेन प्रवचनगाम्भीर्यं मुक्त्वाऽभिनिवेशमिति सङ्घाचारवृत्तौ* इति । तावत्कालमेव जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनाम् , कारणेन पुनर्धर्मश्रवणाद्यर्थ १. L.P. | साधुनूद्दिश्य (चैत्यावस्थाननिषेधे) व्य मु० C. मूल ॥ २. गाथाद्वयं प्रवचनसारोद्धारे श्राद्धदिनकृत्ये [गा० १४७-८] उद्धृतम् । दुब्भिगंधपरिस्सावी-L.P. श्राद्धदिनकृत्ये ॥ ३. इतोऽग्रे मु० मध्ये ( ) कोष्ठके L.C. मूल इत्थं पाठः-तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत् कर्षति भणतीत्यर्थः । किविशिष्टाः ? तत्राह-त्रिश्लोकिकाः त्रयः स्लोकाः छन्दोविशेषरूपा आधिक्येन यासु तास्तथा 'सिद्धाणं बुद्धाणं' इत्येकः श्लोको 'जो देवाण वि' इति द्वितीयः, 'इक्को वि नमोक्कारो' इति तृतीयः इति । अग्रेतनगाथाद्वयं स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते । गीतार्थाचरणं तु मूलगणधरभणितमिव सर्वं विधेयमेव सर्वैरपि मुमुक्षुभिरिति" || ४. * * चिह्नद्वयमध्यवर्तिपाठ: L.P.C. पार्श्वभागे मु० मध्ये कोष्ठके ॥ ५-६. L.P. I 'थे-मु० C. ॥ ७. L. I (प्रसजति)-मु० P.C. नास्ति । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy