________________
३३६ ]
[ धर्मसंग्रहः - द्वितीयोऽधिकारः
भवतः, अङ्गुल्यादेरनाभोगेन सहसाकारेण वा मुखप्रक्षेपसम्भवात्, अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापरिहार्यत्वात् ।
अथाभिग्रहप्रत्याख्यानम् । तच्च दण्डप्रमार्जनादिनियमरूपम्, तत्र चत्वार आकारा भवन्ति । तद्यथा -
'अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ" । यदा त्वप्रावरणाभिग्रहं गृह्णाति, तदा 'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः ।
44
-
अथ विकृतिप्रत्याख्यानम् - तत्र नव अष्टौ वा आकाराः । यत्सूत्रम् - "विगईओ पच्चखाइ, अण्णत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ " ॥
मनसो विकृतिहेतुत्वात् विकृतयस्ताश्च दश । यदाहु:
" खीरं दहि णवणीयं, घयं तहा तेल्लमेव गुड मज्जं ।
महु मंसं चेव तहा, उग्गाहिमगं च विगईओ" ॥१॥ [ पञ्चव./३७१ ] तत्र पञ्च क्षीराणि गोमहिष्यजोष्ट्येलकासम्बन्धिभेदात् । दधि-नवनीत-घृतानि च चतुर्भेदानि, उष्ट्रीणां तदभावात् । तैलानि चत्वारि - तिला - ऽतसी - लट्टा - सर्षपसम्बन्धिभेदात् । शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति । गुडः - इक्षुरसक्वाथः, स द्विधा-पिण्डो द्रवश्च । मद्यं द्वेधा - काष्ठपिष्टोद्भवत्वात् । मधु त्रेधा - माक्षिकं कौत्तिकं भ्रामरं च । मासं त्रिविधं - जल-स्थल - खचरजन्तूद्भवत्वात्, अथवा मांसं त्रिविधं चर्मरुधिर-मांसभेदात् ।
-
अवगाहेन स्नेहबोलनेन निर्वृत्तं अवगाहिमं पक्वान्नम्, “भावादिमः " [ श्रीसि.-६४-२१ ] इतीमः । यत् तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव तापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृति:, ततः परं पक्वान्नानि, अयोग
१. मुखे- यो० टी० प्रव० सारो० टी० ॥ २. आकारद्वयस्यापि परि मु० L.P.C. I आकारद्वयस्यापरि” इति यो० टी० प्रवचनसारोद्धारवृत्तेः जेसलमेरस्थप्राचीनहस्तलिखितप्रते च पाठः ।। ३. तथा(दा)- मु० ॥। ४. छीरं - यो० टी० प० ७१९ ॥ ५. P. यो० टी० । गोमहिष्यजोलका मु० ॥ ६. P. यो० टी० कौन्तिकं - मु० । कुत्तिकाकृतम् - इति प्रवचनसारोद्धारे प० १४० ॥
D:\new/d-2.pm5\3rd proof