________________
प्रत्याख्यानस्वस्वरूपम्-श्लो० ६२॥]
[३२७ आक्रियन्ते विधीयन्ते प्रत्याख्यानभङ्गपरिहारार्थमित्याकाराः । ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदर्श्यन्ते -
"दो चेव नमोक्कारे, आगारा छच्च पोरसीए उ। सत्तेव उ पुरिमड्डे, एगासणगंमि अटेव ॥१॥ सत्तेगट्ठाणस्स उ, अद्वैव य अंबिलंमि आगारा । पंचेव अभत्ततु, छ प्पाणे चरिम चत्तारि ॥२॥ पंच चउरोभिग्गहि, निव्वीए अट्ठ नव य आगारा ।
अप्पाउरणे पंच य, हवंति सेसेसु चत्तारि ॥४॥
[आवश्यकनि. १५९९-१६०१, पञ्चाशके ५।८-१०, प्रवचनसारो.२०३-५] निर्विकृतौ अष्ट नव च कथं ?
"नवणीओगाहिमए, अद्दवदहिपिसिअघणगुडे चेव।
नव आगारा एसिं, सेसदवाणं तु अटेव" ॥३॥[आ.नि.१६०२, प्र.सा.२०६] अप्रावरणे चोलपट्टाकारः पञ्चमः । विवरणं तु सूत्रव्याख्यासहगतमेवावसेयम्। द्वारम् ३।
साम्प्रतं सूत्रार्थो – “उग्गए सूरे नमुक्कारसहिअं पच्चक्खाइ, चउव्विहं पि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ" [प्रत्याख्यान आवश्यकसू० हारिभद्रीयवृत्तिः प० ८४९]
व्याख्या -उद्गते सूर्ये, सूर्योद्गमादारभ्येत्यर्थः, नमस्कारेण -परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति, 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति न्यायात् नमस्कारसहितं प्रत्याख्यानं करोति विधेयतयाऽभ्युपगच्छतीत्यर्थः । इदं गुरोरनुवादभङ्ग्या वचनम् , शिष्यस्तु 'प्रत्याख्यामि'इत्याह । एवं व्युत्सृजती[त्यत्रापि वाच्यम् । कथं प्रत्याख्याति ? इत्याह -चतुर्विधमप्याहारमिति न पुनरेकविधादिकम् , आहारमभ्यवहार्य, व्युत्सृजती]त्युत्तरेण योगः इदं च चतुविधहारस्यैव भवतीत्युक्तमेव, रात्रिभोजनतीरणप्रायत्वादस्य । तथा मुहूर्तमानं नमस्कारोच्चारणावसानं च ।
नेनु कालस्यानुक्तत्वात् सङ्केतप्रत्याख्यानमेवेदं, मैवं, सहितशब्देन मुहूर्त्तस्य
१. तुला-पञ्चवस्तुकटीका प० ८३-४, पञ्चाशकटीका प० ९१-५, योगशास्त्रटीका प० ७११, प्रवचनसारोद्धारटीका भ० १ प० १२४-१३१ । व्याख्या उद्गते सूरे-इति यो० टी० ।। २. च-यो० टी० नास्ति ।। ३. तुला-पञ्चाशकटीका प० ९०-९५, योगशास्त्रटीका प० ७१०, प्रवचनसारोद्धारवृत्तौ भा० १ प० १२४-१३१ ॥
D:\new/d-2.pm5\3rd proof