________________
प्रत्याख्यानस्वरूपम्-श्लो० ६२॥]
[३२५ जलादिमञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावन्न निर्वाति, तावन्न भुञ्जे इति । यदाहुः"अंगुट्ठमुट्ठिगंठीघरसेऊसासथिबुगजोइक्खे। एअं संकेअ( अं) भणिअं, धीरेहि अनंतनाणीहिं ॥९॥[आ.नि./१५७८ ]
अद्धा कालस्तद्विषयं प्रत्याख्यानं, तच्च दशविधं । यदाहुः - "नवकारपोरसीए, पुरिमड्डेगासणेगठाणे अ।। आयंबिलअभत्तटे, चरमे अअभिग्गहे विगई"॥१०॥[आ.नि./१६११,प्र.सा.गा./२०२]
नन्वेकाशनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानं? न हि तत्र कालनियमोऽस्ति, सत्यम् , अद्धाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते । यतः पञ्चाशकवृत्तौ - ___ "एकाशनाऽऽचाम्लादिप्रत्याख्यानं च यद्यपि परिमाणकृतं, तथाऽप्यद्धाप्रत्याख्यानपूर्वकत्वेनाद्धाप्रत्याख्यानमध्य एव गण्यते"।[ ]इति। सर्वोत्तरगुणप्रत्याख्याने च सङ्केतप्रत्याख्यानमद्धाप्रत्याख्यानं चेति द्विविधं प्रतिदिनोपयोगि ज्ञेयम्। द्वारम् १। भङ्गकास्तु सप्तचत्वारिंशं शतं भवन्ति, ते च पूर्वं व्रताधिकारे उक्ताः, तद्ज्ञानपूर्वं च प्रत्याख्यानं शुद्धम् । यतः " सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं ।
सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ" ॥१॥[ श्रा.प्र.८,प्रव./१३३८ ] इति । यद्वा इत्थम्"पच्चक्खाया पच्चक्खाविंतियाण चउभंगा। जाणगजाणपएहिं, निप्फण्णा हुंति णायव्वा" ॥१॥[आ.नि./१६१३] ___ इह किल स्वयं कृतप्रत्याख्यानः काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनूच्चरन् स्वयं जानन् ज्ञस्यैव गुरोः पार्श्वे प्रत्याख्यानं करोति । तत्र ज्ञत्वे चतुर्भङ्गो-द्वयोर्जत्वे प्रथमो भङ्गः शुद्ध: १। गुरोर्जत्वे शिष्यस्याज्ञत्वे द्वितीयः तत्र तत्कालं शिष्यं संक्षेपतः प्रबोध्य यदा गुरुः प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः २। ज्ञोऽज्ञस्य पार्वे, गुर्वाद्यभावे बहुमानतो गुरुपितृव्यादिसकाशे करोति, अयमपि शुद्धः ३। द्वयोरज्ञत्वे त्वशुद्ध एव ४। अत्र च गुरोः स्वस्य वा ज्ञत्वं प्रत्याख्यानतदुच्चारस्थानभङ्गाकारशुद्धिसूत्रार्थफलकल्प्याकलप्यविभागादिज्ञाने सत्येव भवति ।
१. C. । सकेअ-मु० संकेय- योगशास्त्रवृत्तौ ।। २. तुला पञ्चाशकटीका प० ८८, प्रवचनसारोद्धारवृत्तिः भा० १ प० १२३ ॥ ३. प्रथमभागे १६२पत्रे ॥ ४. विंतयाण-मु० ॥ ५. तुलायोगशास्त्रवृत्तिः प०७०७ ॥ ६. मनूच्चारयन्-यो० टी० ।। ७. "ति ज्ञत्वे च चतु यो० टी० ॥
D:\new/d-2.pm5\3rd proof