SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यानस्वरूपम्-श्लो० ६२॥] [३२३ बंधणबद्धाओ सिढिलबंधणबद्धाओ करेइ, चिरकालठिइआओ अप्पकालठिइआओ करेइ, तिव्वाणुभावाओ मंदाणुभावाओ करेइ, बहुपएसग्गाओ अप्पएसग्गाओ करेइ, अणाइअं अणवदग्गं संसारकंतारं नो परिअट्टइ"।[ ] ___ तथा “वंदएणं भंते ! जीवे किं अज्जिणइ ? गोयमा ! वंदएणं नीआगोअं कम्म खवेइ, उच्चागोअं कम्मं निबंधइ, सोहग्गं च अप्पडिहयं आणाफलं निव्वत्तेइ" । त्ति [ उत्तराध्ययने ३०-१०]। एवं बृहद्वन्दनेन गुरून् वन्दित्वा तन्मुखेन स्वशक्त्यनुरूपं प्रत्याख्यानं करोति । अत्र - "प्रत्याख्यानानि १ तद्भङ्गा २, ऽऽकार ३ सूत्रा ४ ऽर्थ ५ शुद्धयः ६ । __ प्रत्याख्यानफलं ७ चाथ, किञ्चिदेवोच्यतेऽधुना" ॥१॥[ ] तत्र प्रत्याख्यानं "ख्या( ख्याङ्क्) प्रकथने" इत्यस्य प्रत्यापूर्वस्य, ल्युडन्तस्य रूपम् , प्रतीति प्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । कृत्यल्युटो बहुलमितिवचनादन्यथाप्यदोषः । अथवा प्रत्याख्यायते निषिध्यतेऽनेन मनोवाक्कायजालेन किञ्चिदनिष्टमिति प्रत्याख्यानम् , क्रिया-क्रियावतोः कथञ्चिदभेदात्' प्रत्याख्यानक्रियैव प्रत्याख्यानम् , प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानम् । ___तच्च द्वेधा -मूलगुणरूपम् , उत्तरगुणरूपं च । एकैकमपि सर्व-देशभेदात् द्विविधम् , सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि । सर्वोत्तरगुणप्रत्याख्यानं च यतीनामनेकधा । यथा - "पिंडस्स जा विसोही, समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहा वि अ, उत्तरगुणमो विआणाहि" ॥१॥[गु.वि./१-९४] श्राद्धानां देशोत्तरगुणप्रत्याख्यानं सप्त शिक्षाव्रतानि, तत्र मूलगुणानां प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात् , उत्तरगुणानां तु पिण्डविशुद्ध्यादीनां दिग्व्रतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् इत्यावश्यकवृत्तियोगशास्त्रवृत्त्योः [आवश्यकहारिभद्र्या प० ८०३ योगशास्त्रवृत्तौ प० ७००] उभयोरपि । १. कालठिइआओ-C. । चिरकालट्ठिआओ-यो० टी० प०६८८ ॥ २. कालट्ठि यो० टी० प० ६८८ ॥ ३-४. वंदणएणं-यो० टी० प०६८८ ॥ ५-६. "त्त-यो० टी० ॥ ७. प्रत्याख्यानं-इति ख्या प्रकथने-P.L. । प्रत्याख्यानं ख्या प्रकथने-C. ।। ८. तुला-आवश्यकहारिभद्रीयवृत्तिः प०८०३, योगशास्त्रटीका-प० ७०७, प्रवचनसारोद्धारटीका प० । प्रति प्रवृत्तिप्रतिकूलतया-यो० टी० ॥ ९. 'बहुलं' सिद्धहैम ५।१।२ सूत्रानुसारेण इति ज्ञेयम् ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy