________________
गुरुपार्वे आलोचना-श्लो० ६२॥]
[३१९ वा प्रकाशयामि । इह च दैवसिकादीनामयं कालनियमः -यथा दैवसिकं मध्याह्नादारभ्य निशीथं यावद्भवति, रात्रिकं निशीथादारभ्य मध्याह्नं यावद्भवति, पाक्षिक-चातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते भवन्ति ।
अत्रान्तरे 'आलोअह' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयन्नाह -"इच्छं आलोएमि" इच्छामि –अभ्युपगच्छामि गुरुवचः, आलोचयामि –पूर्वमभ्युपगतमर्थं क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह
"जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छिअव्वो असावगपाउग्गो, नाणे दंसणे चरित्ताचरित्ते, सुए सामाइए तिण्हं गुत्तीणं, चउण्हं कसायाणं, पंचण्हमणुव्वयाणं तिण्हं गुणव्वयाणं, चउण्हं सिक्खावयाणं, बारसविहस्स सावगधम्मस जं खंडिअंजं विराहिअंतस्स मिच्छा मि दुक्कडं"॥
व्याख्या -'यो' 'मया' दिवसे भवो दैवसिकः 'अतिचारो' ऽतिक्रमः 'कृतो' निवर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा भवति, अत एवाह –'काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः । एवं 'वाइओ' वाक्प्रयोजनमस्य वाचिकः । एवं मनः प्रयोजनमस्येति मानसिकः । 'उस्सुत्तो' सूत्रादुत्क्रान्त उत्सूत्रः, सूत्रमतिक्रम्य कृत इत्यर्थ । 'उम्मग्गो' मार्ग:-क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः, क्षायोपशमिकभावत्यागेन औदयिकभावसङ्क्रमः कृत इत्यर्थः । 'अकप्पो' कल्पो न्यायो विधिराचारश्चरणकरणव्यापार इतियावत् , न कल्पोऽकल्प: अतद्रूप इत्यर्थः । 'करणीयः' सामान्येन कर्तव्यो न करणीयोऽकरणीयः, हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादिः । उक्तः तावत् कायिको वाचिकश्च । __ अधुना मानसिकमाह –'दुज्झाओ' दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततया आर्त्तरौद्रलक्षणः । 'दुव्विचिंतिओ' दुष्टो विचिन्तितो दुर्विचिन्तितः अशुभ एव चलचित्ततया ।
"जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं" [ ध्यानशतके गा० २] इतिवचनात् ।
यत एवेत्थम्भूतस्तत एव 'अणायारो' आचरणीयः - श्रावकाणामाचारः, न आचारो अनाचारः । यत एव नाचरणीयः अत एव 'अणिच्छिअव्वो' अनेष्टव्यः मनागपि
१. तुला-आवश्यकहारिभद्रीयवृत्तिः प० ५६१-२ ।। २. म-यो० टी० प० ६८२ ।। ३. एवानाच यो० टी० प० ६८३ ।।
D:\new/d-2.pm5\3rd proof