SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ गुरुवन्यने १९८स्थानानि-श्लो० ६२॥] [३०७ स्तैनिकम् –वन्दमानस्य मे लाघवं भविष्यतीति परेभ्य आत्मानं गृहयतो वन्दनम् , अयमर्थः -एवं नाम शीघ्रं वन्दते यथा स्तेनवत् केन(चित्) दृष्टः केनचिन्नेति १६। प्रत्यनीकम् -आहारादिकाले वन्दनम् , यदाह –"वक्खित्तपराहुत्ते'' [आवश्यनि० १२१२ ] इत्यादि १७। रुष्टम् -क्रोधाध्मातस्य गुरोर्वन्दनम् , आत्मना वा क्रुद्धेन वन्दनम् १८। तज्जितम् –'अवन्द्यमानो न कुप्यसि, वन्द्यमानश्चाविशेषज्ञतया न मे प्रसीदसि'इति निर्भर्त्सयतो, यद्वा 'बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवैकाकिनः' इति धिया, तर्जन्या शिरसा वा तर्जयतो वा वन्दनम् १९। शठम् -शाठ्येन विश्रम्भार्थं वन्दनम् , ग्लानादिव्यपदेशं वा कृत्वा न सम्यग् वन्दनम् २०। हीलितम् -हे गणिन् वाचक ! किं भवतां वन्दितेनेत्यादिना अवजानतो वन्दनम् २१॥ विपरिकुञ्चितम् -अर्द्धवन्दित एव देशादिकथाकरणम् २२॥ दृष्टादृष्टम् –तमसि स्थितः केनचिदन्तरित एवमेवास्ते, दृष्टस्तु वन्दते २३। शृङ्गम् – 'अहोकायं काय' इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः, शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनम् २४। 'कर-इव राजदेयभाग इवार्हत्प्रणीतो वन्दनकरोऽवश्यं दातव्यः' इतिधिया वन्दनम् २५। मोचनम् -लौकिककराद्वयं मुक्ता, न मुच्यामहे वन्दनकरादिति बुद्ध्या वन्दनम् २६। आश्लिष्टानाश्लिष्टम् -अत्र चतुर्भङ्गी, सा च 'अहोकायं काय' इत्यावर्त्तकाले भवति । रजोहरणस्य शिरसश्च कराभ्यामाश्लेषणम् १, रजोहरणस्य न शिरसः २, शिरसो न रजोहरणस्य ३,न रजोहरणस्य नापि शिरसः ४। अत्र प्रथमः शुद्धः, शेषास्त्वशुद्धाः २७/ न्यूनम् -व्यञ्जनाभिलापावश्यकैरसम्पूर्णम् २८। उत्तरचूडम् – वन्दनं दत्त्वा महता शब्देन 'मस्तकेन वन्दे' इत्यभिधानम् २९। मूकम् -आलापाननुच्चारयतो वन्दनम् ३०। ढड्डरम् -महता शब्देनोच्चारयतो वन्दनम् ३१॥ १. केन दृष्टः-L.P.C. । केनचिद् दृष्टः इति योगशास्त्रवृत्तौ प० ६५९ ॥ २. वक्खित्त-इत्यादिमु० C. सं० ॥ ३. वा-योगशास्त्रवृत्तौ नास्ति प०६६० ॥ ४. करमिव राजदेयभागमिव-इति प्रवचनसारोद्धारवृत्तौ प० १०१। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy