________________
२८०]
[धर्मसंग्रह:-द्वितीयोऽधिकार: यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी, अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य । श्रुतधर्मे हि सति विवेकिनो मोहजालं विलयमुपयात्येव ।
इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह - "जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स ।
को देवदाणवनरिंदगणच्चियस्स, धम्मस्स सारमुवलब्भ करे पमायं" ॥३॥
कः ? सचेतनो 'धर्मस्य' श्रुतधर्मस्य 'सारं' सामर्थ्य 'उपलभ्य' विज्ञाय, श्रुतधर्मोदितेऽनुष्ठाने 'प्रमादम्' अनादरं कुर्यात् , न कश्चिद् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य ? जातिर्जन्म, जरा विस्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति जातिजरामरणशोकप्रणाशनस्तस्य । श्रुतधर्मस्यानुष्ठाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमणति शब्दयतीति कल्याणम् , पुष्कलं सम्पूर्णम् , न च तदल्पम् , किन्तु विशालं विस्तीर्णम् , एवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह । देवानां दानवानां नरेन्द्राणां च गणैरर्चितस्य पूजितस्य । सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनं देवदाणवेत्यादि। यतश्चैवतमतः -
"सिद्धे भो पयओ नमो जिणमए नंदी सया संजमे, देवनागसुवण्णकिन्नरगणस्सब्भूयभावच्चिए । लोगो जत्थ पइट्ठिओ जगमिमं तेलुक्कमच्चासुरं; धम्मो वड्ढउ सासओ विजयओ धम्मुत्तरं वड्डउ" ॥४॥ 'सिद्धः' फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रख्यातस्तस्मिन् । भो इत्यतिशायिनामामन्त्रणम् , पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति 'नमो जिणमए' नमो जिनमताय, प्राकृतत्वाच्चतुर्थ्याः, सप्तमी, कुर्वे इति शेषः । प्रयतो भूत्वा जिनमताय नमस्करोमीत्यर्थः । अस्मिश्च सति 'नन्दिः' समृद्धि:
१. विश्रसा-इति योगशास्त्रवृत्तौ प०६३२ ।। २. श्रुतधर्मोक्तानुष्ठानाद्धि-इति योगशास्त्रवृत्तौ प० ६३५ ॥ ३. प्रत्याख्यात” मु० C.P. मूल L. मूल । P. सं L. सं० योगशास्त्रवृत्तावपि [प० ६३६] प्रख्यात इति । सिद्धे प्रतिष्ठिते प्रख्याते इति ललितविस्तारायाम् प० १०२ ॥
D:\new/d-2.pm5\3rd proof