SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ [२७५ 'लोगस्स' सूत्रविवरणम्-श्लो० ६१॥] "सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः" ॥१॥[] इतिवचनादरः तथा गर्भस्थे जनन्या स्वप्ने रत्नमयोऽरो दृष्टः इति अरः ।१८। परीषहादिमल्लजयात् निरुक्तात् मल्लिः । तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः ।१९। मन्यते जगतस्त्रिकालावस्थामिति मुनिः, “मनेरुदेतौ चास्य वा"[ श्रीसि० उणादिसू० ६१२] इति इप्रत्यये उपान्तस्योत्त्वं, शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रतः ।२०। परीषहोपसर्गादिनामनाद् “नमेस्तु वा" इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः ।२१।। धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नपूर्वत्वेऽरिष्टनेमिः ।२२। __ पश्यति सर्वभावानिति निरुक्तात् पार्श्वः, तथा गर्भस्थे जनन्या निशि शयनीयस्थया अन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमित मत्वा पश्यतीति पार्श्वः, पाश्र्वोऽस्य वैयावृत्त्यकरस्तस्य नाथः पार्श्वनाथ: 'भीमो भीमसेन' इतिवत् पार्श्वः ।२३। उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः । तथा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्द्धत इति वर्द्धमानः ।२४। विशेषाभिधानार्थसंग्राहिकाश्चेमाः श्रीभद्रबाहुस्वामिप्रणीता गाथा: - "उरूसूसहलंछणमुसभं सुमिणमि तेण उसहजिणो । अक्खेसुजेण अजिया, जणणी अजिओ जिणो तम्हा ॥१॥[आ.नि./१०९३] अभिसंभूआ सस्स त्ति, संभवो तेण वुच्चई भयवं । अभिनंदई अभिक्खं, सक्को अभिनंदणो तेणं ॥२॥[आ.नि./१०९४] जणणी सव्वत्थविणिच्छएसु सुमइ त्ति तेण सुमइजिणो। पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥३॥[आ.नि./१०९५] १. सर्वो नाम महा० इति योगशास्त्रवृत्तौ प० ६२६ ॥ २. 'क्रमिस्तमिस्तम्भेरिच्च नमेस्तु वा" [उणादि सू० ६१३]इति सूत्रेणेति ज्ञेयम् ॥ ३. पार्श्वनाथ:-मु० नास्ति । योगशास्त्रवृत्तावपि [प० ६२७] अस्ति ॥ ४. ऊरूसु उसह' इति आवश्यकनिर्युक्तौ ॥ ५. सास त्ति-आवश्यकनियुक्ती योगशास्त्रवृत्तौ [प० ६२७] च ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy