SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २६६] [धर्मसंग्रहः-द्वितीयोऽधिकारः 'चाउरंत' इति समृद्ध्यादित्वादात्त्वम् । धर्मदत्वादिभिः स्तोतव्यसम्पद एवं विशेषोपयोगसम्पदुक्ता । इदानीं - "सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ?" ॥१॥[प्र.वा./१.३३] इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनःसौगतान प्रतिक्षिपति 'अप्पडिहयवरनाणदंसणधराणं विअट्ठछउमाणं'। 'अप्रतिहते' सर्वत्राप्रतिस्खलिते 'वरे' क्षायिकत्वान् प्रधाने 'ज्ञानदर्शने' विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः' । अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च । ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोग(गोप)युक्तस्य भवन्तीति ज्ञापनार्थमिति। एते च कैश्चित् तत्त्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते । यदाहुः - "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥[] तथा- "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्" ॥१॥ [सिद्धसेन. द्वात्रिंशिका २/१८] इति । तन्निवृत्त्यर्थमाह -व्यावृत्तच्छद्मभ्यः' । छादयतीति च्छद्म ज्ञानावरणादिघातिकर्म तद्वन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः । नाक्षीणेसंसारे अपवर्गः, क्षीणे जन्मपरिग्रह इत्यसत् , हेत्वभावात् । न च तीर्थनिकारजन्मा पराभवो हेतुः, तेषां मोहाभावात् , मोहे वा अपवर्ग इति प्रलापमात्रम् । एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् । एते च कल्पिताविद्यावादिभिः परमार्थेनाजिनादय एवेष्यन्ते, "भ्रान्तिमात्रमसदविद्या" [ ] इति वचनात् । एतद्व्यपोहायाह -"जिणाणं जावयाणं" रागादिजेतृत्वाज्जिनाः । न च रागादीनामसत्त्वम् , प्रतिप्राण्यनुभवसिद्धत्वात् । न चानुभवोऽपि भ्रान्तः, सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात् । एवं च जेयसम्भवाज्जिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकास्तेभ्यः । १. अतः समृद्ध्यादौ वा [सि० हे० ८।१।४४] इति सूत्रेण आत्त्वम् इति ज्ञेयम् ॥ २. एवं-मु० नास्ति । L.P.C. योगशास्त्रवृत्तावपि [प० ६१२] अस्ति ।। ३. पयोगयुक्तस्य-L.P.C. | ‘पयोगोपयुक्तस्य-इति योगशास्त्रवृत्तौ प० ६१२ ।। ४. येभ्यः तथा L.P. I येभ्य तथा C. || D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy