SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ स्नात्रपूजाविधिः- श्लो० ६१ ॥ ] [ २४५ चन्दनधूपादिना कृततिलकहस्तकङ्कणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति । तत्र – “सयवत्तकुंदमाइबहुविहकुसुमाई पंचवण्णाई । जिणनाहण्हवणकाले, दिंति सुरा कुसुमंजलिं हिट्ठा" ॥१॥ [ ] इत्युक्त्वा देवस्य मस्तकेषु पुष्पारोपणम् । ‘“गंधाइड्डिअमहुअरमणहरझंकारसद्दसंगीआ । जिणचलोवर मुक्का, हरउ तुम्ह कुसुमंजली दुरिअं " ॥१॥ [ ] इत्यादिपाठैः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेककलशपाठः, ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलपञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देयः, स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यं । यदाहुर्वादिवैतालश्रीशान्तिसूरयः - " आ स्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सर्वैः सान्तर्धानाब्धारापातं पुष्पोत्तमैः कुर्यात् " ॥१॥ [ अर्हदभिषेके पर्व ३। श्लो. ४] स्नात्रे च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बरः सर्वशक्त्या कार्यः, स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्चायम् – "अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान्, भूयोऽपि भिनत्तु भागवती" ॥१॥ [ अर्हद. पर्व ३ | श्लो. १२ ] ततोऽङ्गरूक्षण – विलेपनादिपूजा प्राक्पूजातोऽधिका कार्या, सर्वप्रकारैर्धान्य- पक्वान्नशाक - विकृति-फलादिभिर्बलिढौकनम्, ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे १. कुसुमंजलिं(अंजलिं) हिट्ठा - मु० । कुसुमंजली हिट्ठा - L. P. । कुसुमंजलि हिट्ठा - C. I मूल देवपालकविकृतस्नात्रं द्रष्टव्यम् ॥ २. 'जलैः - इति श्राद्धविधिवृत्तौ ॥ ३. सान्तर्धानधा (नमब्धा) रायातंइति अर्हदभिषेकविधौ। “सहान्तर्द्धानेन वर्तत इति सान्तर्धानमव्यवधानं पुष्पैरब्धारापात उदकधारानिपातो यस्मिन् उष्णीषदेशे स तथा तमिति । कैरशून्यम् ? पुष्पोत्तमैरिति । अर्हदभिषेकविधिपञ्जिका गा० ४ ॥ ४. अर्हदभिषेकविधौ तु-अभिषेकपयोधारा धारेव... ॥ गा० १२ ॥ 'अभिषेकाय या पयोधारा सा भव एव भवनं तस्य भित्तिभागान् कर्मसंस्थानीयान् भिनत्तु । भूयोऽपि पुनरपि शिवेत्यादिना प्रथममभिषेकोदकं शिवाय कथितम्, पुनरेतद् द्वितीयमितिभावना । कस्येयम् ? भगवत इयम्, सोत्प्रेक्ष्यते ध्यानमण्डलाग्रस्य ध्यानासेधरेव' इति तत्रैव पञ्जिकायाम् ॥ D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy