________________
अंग-अग्रपूजास्वरूपम् - श्लो० ६१ ॥ ]
[ २३१
तत्र धूपो जिनस्य वामपार्श्वे कार्य इत्यङ्गपूजा १ ॥ ततो घृतपूर्णप्रदीपैः शाल्यादितन्दुलाक्षतैर्बीजपूरादिनानाफलैः सर्वनैवेद्यैर्निर्मलोदकभृतशङ्खादिपात्रैश्च पूजयेत् । तत्र प्रदीपो जिनस्य दक्षिणपार्श्वे स्थाप्यः, अक्षतैश्चाखण्डै रौप्यसौवर्णैः शालेयैर्वा जिनपुरतो दर्पण १ भद्रासन २ वर्द्धमान ३ श्रीवत्स ४ मत्स्ययुग्म ५ स्वस्तिक ६ कुम्भ ७ नन्दावर्त्त ८ रूपाष्टमङ्गलानालेखयेत् । अन्यथा वा ज्ञानदर्शन - चारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पट्टादौ विशिष्टाक्षतान् पूगादिफलं च ढौकयेत्, नवीनफलागमे तु पूर्वं जिनस्य पुरतः सर्वथा ढौक्यम् । नैवेद्यमपि सति सामर्थ्ये कूराद्यशन १ शर्करागुडादिपान २ फलादिखाद्य ३ ताम्बूलादिस्वाद्यान् ४ ढौकयेत् । नैवेद्यपूजा च प्रत्यहमपि सुकरा महाफला च धान्यस्य च विशिष्य, आगमेऽपि राद्धधान्यस्यैव प्रतिपादनात् । यत आवश्यकनिर्युक्तौ समवसरणाधिकारे –“ कीरइ बली" [ ]त्ति । निशीथेऽपि - " तओ पभावईदेवीए सव्वं बलिमाइ काउं भणिअं 'देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरउ' त्ति वाहिओ कुहाडो, दुहा जायं, पिच्छइ सव्वालंकारविभूसिअं भगवओ पडिमं " [ ] निशीथपीठेऽपि “बलि त्ति असिवोवसमनिमित्तं कूरो किज्जइ" [] महानिशीथेऽपि तृतीयाध्ययने 'अरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविचित्तबलिवत्थधूवाईएहिं पूआसक्कारेहिं पइदिणमब्भच्चणं पकुव्वाणा तित्थुप्पणं ( इं ) करामो " [ ] त्ति ।
ततो गोशीर्षचन्दनरसेन पञ्चाङ्गुलितलैर्मण्डलालेखनादि पुष्पप्रकारारात्रिकादि गीतनृत्यादि च कुर्यात्, सर्वमप्येतदग्रपूजैव । यद् भाष्यम् –
‘“गंधव्वनट्टवाइअलवणजलारत्तिआइ दीवाई ।
जं किच्चं तं सव्वं पि, ओअरई अग्गपूआए" ॥१॥ [ चे.वं.म.गा.२०५ ] इत्यग्रपूजा २ ॥
भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनैषेधिकीकरणपूर्वं जिनाद् दक्षिणदिशि पुमान् स्त्री तु वामदिशि आशातनापरिहारार्थं जघन्यतोऽपि संभवे नवहस्तमानादसंभवे तु हस्तार्द्धमानाद् उत्कृष्टतस्तु षष्टिहस्तमानादवग्रहाद् बहिः स्थित्वा चैत्यवन्दनां विशिष्टस्तुत्यादिभिः कुर्यात् । आह च -
44
'तइआ उ भावपूजा, ठाउं चिइवंदणोचिए देसे ।
जहसत्ति चित्तथुइथुत्तमाइणा देववंदणयं " ॥ १ ॥[]
44
१. “त्तं ग्रं० ४०००-L.P. ॥ २. तुला - सङ्घाचारभाष्यवृत्तिः प० ६४, श्राद्धविधिवृत्तिः प० ५६ ॥ ३. 'वित्थिण्णबलि' मु० । विथित्तबलि P. । विच्छित्तवलि C. । °विचित्तबलि' इति श्राद्धविधिवृत्तौ ॥ ४. तित्थुप्पणं (ण्णइं) करामो त्ति - मु० । तित्थुत्थपणं करामो त्ति - L.P.C. : तित्थुच्छप्पणं करामो त्ति- इति श्राद्धविधिवृत्तौ ॥ ५. L.P. | 'चन्द' ० ॥
D:\new/d-2.pm5\3rd proof