________________
२०६]
[धर्मसंग्रहः-द्वितीयोऽधिकार: "दाणंतरायदोसा, न देइ दिज्जंतयं च वारेइ ।
दिपणे वा परितप्पइ, इइ किविणत्ता भवे भङ्गो" ॥१॥[ नव.प्र./१२७] त्ति । धर्मबिन्दु-योगशास्त्रवृत्त्यादौ तु “यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचाराः, अन्यथा तु भङ्गा एव" [ धर्मबिन्दुटीका प० ४५, तुला-योगशास्त्रटीका प० ५६४] ति भावितम् , निश्चयस्तु केवलिगम्यः । ____ एवं सम्यक्त्वा-ऽणुव्रत-गुणव्रत-शिक्षापदानि तदतिचाराश्चाभिहिताः । तदभिधाने च तदधिकारवाच्या उपायादयोऽपि यथास्थानमर्थतो दर्शिता एवेति स्वयमभ्यूह्याः । नामतश्च तेषां सङ्कलना । यथा पञ्चाशके -
"सुत्तादुपायरक्खणगहणपयत्तविसया मुणेयव्वा ।
कुंभारचक्कभामगदंडाहरणेण धीरेहिं" ॥१॥ [ पञ्चा.१/३४] व्याख्या -'सूत्राद्-आगमादुपायादयो मुणेयव्वा इत्यनेन संबन्धः । तत्रोपायःसम्यक्त्वा-ऽणुव्रतादिप्रतिपत्तावभ्युत्थानादिलक्षणो हेतुः । आह च -
"अब्भुटाणे विणए, परक्कमे साहुसेवणाए अ।।
सम्मइंसणलंभो, विरयाविईएँ विरईए" ॥१॥[ ] अथवा जातिस्मरणादितीर्थकरवचनतदन्यवचनलक्षणः । यदाह -
"सहसंमुइआए परवागरणेणं अन्नेसि वा सोच्चा'' [आचाराङ्गे १/१/१-४] अथवा प्रथमद्वितीयकषायक्षयोपशम इति । तथा रक्षणं-सम्यक्त्वव्रतानामनुपालनोपायरूपमायतनसेवनादि । आह च -
"आययणसेवणा निन्निमित्तपरघरपवेसपरिहारो ।
किड्डापरिहरणं तह, विक्किअवयणस्स परिहारो" ॥१॥[ ] इत्यादि । उपायेन रक्षणमुपायरक्षणमित्यन्ये । ग्रहणं त्रिविधं त्रिविधेनेत्यादिविकल्पैः सम्यक्त्वव्रतानामुपादानम् । आह च – "मिच्छत्तपडिक्कमणं, तिविहं तिविहेण णायव्वं'[आ.नि./ १२५१]। तथा- "दुविहं तिविहेण पढमो, दुविहं दुविहेण बीअओ होइ।
दुविहं एगविहेणं, एगविहं चेव तिविहेणं" ॥१॥[ ] इत्यादि ।
१. तुला-धर्मबिन्दुवृत्तिः प० ४५, पञ्चाशकवृत्तिः प० २८, नवपदप्रकरणबृहद्वृत्तिः प० ३०८, योगशास्त्रवृत्तिः प०५६४ ॥ २. P.L. | उपायादयो यथास्थानमर्थतो दशिता इति स्वय० मु० C. ॥
D:\new/d-1.pm53rd proof