SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अष्टमव्रतातिचारस्वरूपम्-श्लो० ५४॥] [१९९ भोगे ? स्नानेच्छुना तावत् गृह एव स्नातव्यम् । नास्ति चेत् तत्र सामग्री तदा तैलाऽऽमलकैः शिरो घर्षयित्वा तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति तृतीयः ३। तथाऽधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणम् –उदूखलादिसंयुक्तं च अर्थक्रियायाः करणयोग्यम् , ततः संयुक्तं च तदधिकरणं चेति समासः । उदूखलेन मुशलम् , हलेन फालः, शकटेन युगम् , धनुषा च शरा इत्यादिरूपमित्यर्थः, तद्भावः संयुक्ताधिकरणत्वम् , एतच्च हिंस्रप्रदानव्रतस्यातिचारः । अत्रापि वृद्धसम्प्रदाय:-श्रावकेण हि संयुक्तान्यधिकरणानि न धारणीयानि, संयुक्ताधिकरणं हि यः कश्चिदाददीत, वियुक्ते तु तत्र पर: सुखेन प्रतिषेधितुं शक्यत इति चतुर्थः ४। तथा मुखमस्यास्तीति मुखर:-अनालोचितभाषी वाचाटस्तद्भावो मौखर्य-धार्थ्य प्रायमसभ्यासम्बद्धबहुप्रलापित्वम् , अयं च पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवादिति पञ्चमः ५। "अपध्यानाचरितव्रते त्वनाभोगादिना अपध्याने प्रवृत्तिरतिचार इति स्वयमभ्यूह्यम् । कन्दर्पादयश्चाकुट्ट्या क्रियमाणा भङ्गा एवावसेया"[ध.बि.सू. १६३ प० ४३] इति धर्मबिन्दुवृत्तौ इत्युक्ता गुणव्रतातिचाराः ॥५४॥ अथ शिक्षाव्रतातिचाराभिधानावसर: तत्रापि सामायिकव्रतस्य तावत्तानाह - योगदुष्प्रणिधानानि, स्मृतेरनवता(धा )रणम् । अनादरश्चेति जिनैः, प्रोक्ताः सामायिकव्रते ॥५५॥ १. स्नाने तावत्-इति धर्मबिन्दुवृत्तौ [प० ४३] पञ्चाशकवृत्तौ [प० २२] नवपदप्रकरणबृहद्वृत्तौ [प० २३९] योगशास्त्रवृत्तौ [प० ५५४] प्रवचनसारोद्धारवृत्तौ [प० २०७] च पाठः ॥ २. तुला-पञ्चाशकवृत्तिः प० २१, योगशास्त्रवृत्तिः प० ५५४, प्रवचनसारोद्धारवृत्तिः प० २०७-८ । 'संयुक्ताधिकरण' स्थाने 'असमीक्ष्याधिकरणम्' अतिचारत्वेन तत्त्वार्थसूत्रे [७।२७] धर्मबिन्दौ [प० ४३] च वर्णितम् । “असमीक्ष्य अनालोच्य प्रयोजनमात्मनाऽथमधिकरणम् उचितादुपभोगादतिरेककरणम् असमीक्ष्याधिकरणं मुसल-दात्र-शिलापुत्रक-शस्त्र-गोधूमयन्त्रकशिलाऽग्न्यादिदानलक्षणम् असमीक्ष्य कुर्वाणः स्वात्मानं नरकादिष्वधिकरोति येन तदधिकरणम्" तत्त्वार्थवृत्तिः सिद्धसेनीया [७।२७] पृ० ११२-११३ । इति योगशास्त्रे टिप्पण्याम् प० ५५४ ॥ ३. शर-मु० । P.L.C. योगशास्त्रवृत्तावपि शरा इति ।। ४. स्मृतेरनवतारणम्-L.P.C. || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy