________________
१८४]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः गमस्तु परदारवर्जिनः । अनात्ता हि वेश्या, यदा तां गृहीतान्यसक्त भाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित्परदारत्वाच्च भङ्गत्वेन वेश्यात्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः इति द्वितीय - तृतीया २ - ३ । तथाऽनङ्गः कामः, स च पुंसः स्त्री-पुंनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात्, योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसक - पुरुष - स्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गः नान्यः कश्चित् । तेन तस्मिन् वा क्रीडनं-रमणमनङ्गक्रीडनम् । यद्वा आहार्यैः काष्ठ-पुस्त - फल- - मृत्तिका - चर्मादिर्घटितप्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुंथ्नाति, केशाकर्षण - प्रहारदान- दन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात् तथा क्रीडति यथा बलवान् रागः: प्रसूयते । अथवा अङ्गं - देहावयवो मैथुनापेक्षया योनिर्मेहनं तद्व्यतिरिक्तान्यनङ्गानि – कुच - कक्षोरु - वदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति चतुर्थः ।
I
,
तथा तीव्ररागः –अत्याग्रह: अर्थात् मैथुने परित्यक्तान्यसकलव्यापारस्य तदध्यवसायता। योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महतीं वेलां निश्चलो मृत ए(इ)वास्ते, चटक इव चॅटिकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते, ‘अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमर्दी च पुरुषो भवति' इति बुद्धयेति पञ्चमः ५। इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति, तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेण च यापनायां सम्भवत्यामनङ्गक्रीडनकामतीव्ररागावर्थत प्रतिषिद्धौ, तत्सेवने च न कश्चिद् गुणः, प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाद् भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ ।
१. तुला-तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७ २३, प० १०८ - ९, प्रवचनसारोद्धारवृत्तिः प० १९७८ ।। २. °घटितैः-इति योगशास्त्रवृत्तौ प० ५३२ ॥ ३. कुष्णाति - इति प्रवचनसारोद्धारवृत्तौ प० १९८ ॥ ४. प्रकारैः - इति योगशास्त्रवृत्तौ प० ५३२ ॥ ५. तुला - तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७ २३, पृ० १०९ धर्मबिन्दुवृत्तिः प० ३९, पञ्चाशकवृत्तिः प० १४, प्रवचनसारोद्धारवृत्तिः प० १९७-८, योगशास्त्रवृत्तिः प० ५३२ ॥ ६. मृत एवास्ते - । मृत इवास्ते - इति प्रवचनसारोद्धार-योगशास्त्रवृत्त्योः [प० १९७, प० ५३२] ७. चटकायां- इति योगशास्त्र [ प० ५३२ ] प्रवचनसारोद्धार - [प० १९७]वृत्त्योः ।। ८. वाजीकरणानुपयुङ्क्ते-इति योगशास्त्रवृत्तौ प० ५३२ ॥ ९. तुला - धर्मबिन्दुवृत्तिः प० ३९-४०, पञ्चाशकवृत्तिः प० १५, योगशास्त्रवृत्तिः प० ५३२-३, प्रवचनसारोद्धारवृत्तिः प० १९८ ।। १०. सम्भवन्त्याम` इति योगशास्त्रवृत्तौ प० ५३३ ।। ११. तुला - तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७ २३, पृ० १०९ ॥
D:\new/d-1.pm5\3rd proof