________________
१८०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः एवं गुह्यं प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्रं भिनत्तीत्यनयोर्भेद इति पञ्चमोऽतिचार: ५ ॥४४॥ __ अथ तृतीयव्रतातिचारानाह -
स्तेनाहृतग्रह-स्तेनप्रयोगौ मानविप्लवः ।
द्विड्राज्यगतिरस्तेये, प्रतिरूपेण च क्रिया ॥४५॥ 'स्तेनाहृतग्रह-स्तेनप्रयोगौ' 'मानविप्लवो' व्यत्ययो 'द्विभाज्यगतिः''प्रतिरूपेण क्रिया' चेति 'अस्तेये' अदत्तादानविरमणरूपे तृतीयाणुव्रते प्रकरणात् पञ्चातिचारा ज्ञेया इति गम्यम् ।
तत्र स्तेनाः-चौरास्तैराहृतम्-आनीतं कनक-वस्त्रादि तस्य ग्रहः-आदानं मूल्येन मुधिकया वा स स्तेनाहृतग्रहः । स्तेनाहृतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृहंश्चौरो भवति । यतो नीति:
"चौरश्चौरापको मन्त्री, भेदज्ञ काणकक्रयी।
अन्नदः स्थानदश्चेति, चौरः सप्तविधः स्मृतः" ॥१॥[ ] इति । ततश्चौर्यकरणाद् व्रतभङ्गः, वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्चाभङ्ग इति भङ्गाऽभङ्गरूपः प्रथमोऽतिचारः १॥ ___तथा स्तेनानां प्रयोगः -अभ्यनुज्ञानं हरत यूयमिति हरणक्रियायां प्रेरणेतियावत् । अथवा स्तेनोपकरणानि -कुशिका-कतरिका-घघरिकादीनि, तेषामर्पणं विक्रयणं वा स्तेनप्रयोगः । अत्र च यद्यपि 'चौर्यं न करोमि न कारयामि' इत्येवंप्रतिपन्नव्रतस्य स्तेनप्रयोगो व्रतभङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठत ? यदि वो भक्तादि नास्ति तदाऽहं तद् ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये' इत्येवंविधवचनैश्चौरान् व्यापारयत: स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः २।
१. मन्त्रयितैव इति योगशास्त्र [प० ५२५] प्रवचनसारोद्धार [प० १९३] वृत्त्योः ।। २. मानविप्लवो द्विड्' L.P. । मानव्यत्ययो द्विड्' C. ॥ ३. तुला-योगशास्त्रवृत्तिः ३।९२ प० ५२७, प्रवचनसारोद्धारवृत्तिः प० १९४ ।। ४. ग्रहणश्चौरो-मु० ॥ ५. दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।२२, प० १०६ । तुला-पञ्चाशकटीका प० १३, योगशास्त्रवृत्तिः प० ५२६, नवपदप्रकरणबृहद्वृत्तिः प० १३९, प्रवचनसारोद्धारवृत्तिः प०१९४ ॥ ६. तिष्ठथ-इति धर्मबिन्दु [प० ३८] पञ्चाशक[प०१५]प्रवचनसारोद्धार[प० १९४]वृत्तिषु । 'किं भवन्तो निर्व्यापारास्तिष्ठन्ति'-इति नवपदप्रकरणबृहद्वृत्तौ प० १३९ । C. योगशास्त्रवृत्तौ च तिष्ठत-इति ।।
D:\new/d-1.pm5\3rd proof